दृष्टं जिनेन्द्रभवनं मणिरत्नहेम-
सारोज्ज्वलैः कलशचामरदर्पणाद्यैः ।
सन्मङ्गलैः सततमष्टशतप्रभेदै-
र्विभ्राजितं विमलमौक्तिकदामशोभम् ।।६।।
दृष्टं जिनेन्द्रभवनं वरदेवदारु-
कर्पूरचन्दनतरुष्कसुगन्धिधूपैः ।
मेघायमानगगने पवनाभिघात-
चञ्चच्चलद्विमलकेतनतुङ्गशालम् ।।७।।
दृष्टं जिनेन्द्रभवनं धवलातपत्र-
च्छायानिमग्नतनुयक्षकुमारवृन्दैः ।
दोधूयमानसितचामरपंक्तिभासं,
भामण्डलद्युतियुतप्रतिमाभिरामम् ।।८।।
दृष्टं जिनेन्द्रभवनं विविधप्रकार-
पुष्पोपहाररमणीयसुररत्नभूमिः ।
नित्यं वसन्ततिलकश्रियमादधानं
सन्मङ्गलं सकलचन्द्रमुनीन्द्रवन्द्यम् ।।९।।
दृष्टं मयाद्य मणिकाञ्चनचित्रतुङ्ग-
सिंहासनादिजिनबिम्बविभूतियुक्तम् ।
चैत्यालयं यदतुलं परिकीर्तितं मे,
सन्मङ्गलं सकलचन्द्रमुनीन्द्रवन्द्यम् ।।१०।।
इति दृष्टाष्टकस्तोत्रं संपूर्णम् ।।
[ ૫ ]