जिनमन्दिरना दर्शननुं स्तोत्र
दृष्टं जिनेन्द्रभवनं भवतापहारि,
भव्यात्मनां विभवसम्भवभूरिहेतु ।
दुग्धाब्धिफे नधवलोज्ज्वलकूटकोटी-
नद्धध्वजप्रकरराजिविराजमानम् ।।१।।
दृष्टं जिनेन्द्रभवनं भुवनैकलक्ष्मी-
धामर्द्धिवर्द्धितमहामुनिसेव्यमानम् ।
विद्याधरामरवधूजनमुक्तदिव्यं –
पुष्पाञ्जलिप्रकरशोभितभूमिभागम् ।।२।।
दृष्टं जिनेन्द्रभवनं भवनादिवास-
विख्यातनाकगणिकागणगीयमानम् ।
नानामणिप्रचवभासुररश्मिजाल-
व्यालीढनिर्मलविशालगवाक्ष जालम् ।।३।।
दृष्ट जिनेन्द्रभवनं सुरसिद्धयक्ष-
गन्धर्वकिन्नरकरार्षितबेणुवीणा- ।
सङ्गीतमिश्रतनमस्कृतधारनादै-
रापूरिताम्बरतलोरुदिगन्तरालम् ।।४।।
दृष्टं जिनेन्द्रभवनं विलसद्विलोल-
मालाकुलालिललितालकबिभ्रमाणम् ।
माधुर्यवाद्यलयनृत्यविलासिनीनां,
लीलाचलद्वलयनूपुरनादरम्यम् ।।५।।
[ ૪ ]