सतो देवेन्द्रादयोऽपि तत्पदाभिलाषिणः सन्तो यस्याज्ञां कुर्वन्ति स ईश्वराभिधानो भवति ।
केवलज्ञानशब्दवाच्यं गतं ज्ञानं यस्य स सुगतः, अथवा शोभनमविनश्वरं मुक्तिपदं गतः
सुगतः । ‘‘शिवं परमकल्याणं निर्वाणं १ज्ञानमक्षयम् । प्राप्तं मुक्तिपदं येन स शिवः
परिकीर्त्तितः ।१।’’ इति श्लोककथितलक्षणः शिवः । कामक्रोधादिदोषजयेनानन्त-
ज्ञानादिगुणसहितो जिनः । इत्यादिपरमागमकथिताष्टोत्तरसहस्रसंख्यनामवाच्यः परमात्मा
ज्ञातव्यः । एवमेतेषु त्रिविधात्मसु मध्ये मिथ्यादृष्टिभव्यजीवे बहिरात्मा व्यक्तिरूपेण तिष्ठति,
अन्तरात्मपरमात्मद्वयं शक्तिरूपेण भाविनैगमनयापेक्षया व्यक्तिरूपेण च । अभव्यजीवे
पुनर्बहिरात्मा व्यक्तिरूपेण अन्तरात्मपरमात्मद्वयं शक्तिरूपेणैव, न च भाविनैगमनयेनेति ।
यद्यभव्यजीवे परमात्मा शक्तिरूपेण वर्तते तर्हि कथमभव्यत्वमिति चेत् ? परमात्मशक्तेः
केवलज्ञानादिरूपेण व्यक्तिः न भविष्यतीत्यभव्यत्वं, शक्तिः पुनः शुद्धनयेनोभयत्र समाना ।
करता थका जेमनी आज्ञा माने छे ते ‘ईश्वर’ नाम पामे छे. केवळज्ञान शब्दथी वाच्य,
‘सु’ अर्थात् उत्तम, ‘गत’ अर्थात् ज्ञान जेमने छे ते ‘सुगत’ छे, अथवा जे शोभायमान
अविनश्वर मुक्तिपदने पाम्या छे ते ‘सुगत’ छे. ‘‘शिवं परमकल्याणं निर्वाणं ज्ञानमक्षयम् । प्राप्तं
मुक्तिपदं येन स शिवः परिकीर्त्तितः ।१।’’ ( शिव एटले परमकल्याण, निर्वाण अने
अक्षयज्ञानरूप मुक्तिपदने जे पाम्या छे ते ‘शिव२’ कहेवाय छे)’’ — ए श्लोकमां कहेल
लक्षणवाळा ‘शिव’ छे. काम - क्रोधादि दोषनो जय करवाथी अनंतज्ञानादि गुणसहित ते
‘जिन’ छे. – इत्यादि परमागममां कहेल एक हजार अने आठ नामथी वाच्य परमात्मा
जाणवा.
ए प्रमाणे आ त्रिविध आत्माओने विषे, मिथ्याद्रष्टि भव्यजीवमां बहिरात्मा
व्यक्तरूपे रहे छे, अंतरात्मा अने परमात्मा — ए बे शक्तिरूपे रहे छे अने
भाविनैगमनयनी अपेक्षाए व्यक्तिरूपे पण रहे छे. अभव्यजीवमां बहिरात्मा व्यक्तरूपे
तथा अंतरात्मा अने परमात्मा — ए बे शक्तिरूपे ज रहे छे; भाविनैगमनयनी अपेक्षाए
पण तेमां अंतरात्मा अने परमात्मा व्यक्तिरूपे रहेती नथी. प्रश्नः — जो अभव्यजीवमां
परमात्मा शक्तिरूपे रहे तो तेनामां अभव्यत्व केवी रीते छे? उत्तरः — अभव्यजीवमां
परमात्मशक्तिनी व्यक्तता केवळज्ञानादिरूपे नहि थाय तेथी तेनामां अभव्यत्व छे अने
शक्ति तो ( – परमात्मशक्ति तो) शुद्धनयनी अपेक्षाए अभव्य अने भव्य बन्नेमां समान
१. ‘शांतम्’ इति पाठान्तरम् ।
२. आप्तस्वरूप गा. २४
५४ ]
बृहद् – द्रव्यसंग्रह