यदि पुनः शक्तिरूपेणाप्यभव्यजीवे केवलज्ञानं नास्ति तदा केवलज्ञानावरणं न घटते ।
भव्याभव्यद्वयं पुनरशुद्धनयेनेति भावार्थः । एवं यथा मिथ्यादृष्टिसंज्ञे बहिरात्मनि नयविभागेन
दर्शितमात्मत्रयं तथा शेषगुणस्थानेष्वपि । तद्यथा — बहिरात्मावस्थायामन्तरात्मपरमात्मद्वयं
शक्तिरूपेण भाविनैगमनयेन व्यक्तिरूपेण च विज्ञेयम्, अन्तरात्मावस्थायां तु बहिरात्मा
भूतपूर्वनयेन घृतघटवत्, परमात्मस्वरूपं तु शक्तिरूपेण भाविनैगमनयेन व्यक्तिरूपेण च ।
परमात्मावस्थायां पुनरन्तरात्मबहिरात्मद्वयं भूतपूर्वनयेनेति । अथ त्रिधात्मानं गुणस्थानेषु
योजयति । मिथ्यात्वसासादनमिश्रगुणस्थानत्रये तारतम्यन्यूनाधिकभेदेन बहिरात्मा ज्ञातव्यः,
अविरतगुणस्थाने तद्योग्याशुभलेश्यापरिणतो जघन्यान्तरात्मा, क्षीणकषायगुणस्थाने पुनरुत्कृष्टः,
अविरतक्षीणकषाययोर्मध्ये मध्यमः, सयोग्ययोगिगुणस्थानद्वये विवक्षितैकदेशशुद्धनयेन
सिद्धसदृशः परमात्मा, सिद्धस्तु साक्षात्परमात्मेति । अत्र बहिरात्मा हेयः,
छे. वळी जो अभव्य जीवमां शक्तिरूपे पण केवळज्ञान न होय तो तेने केवळज्ञानावरण
कर्म सिद्ध थतुं नथी. भव्यपणुं अने अभव्यपणुं — ए बन्ने अशुद्धनयनी अपेक्षाए छे, एम
भावार्थ छे.
ए प्रमाणे जेम ‘मिथ्याद्रष्टि’ संज्ञावाळा बहिरात्मामां नयविभागथी त्रण आत्मा
बताव्या तेम बाकीनां गुणस्थानोमां पण समजवा. ते आवी रीते — बहिरात्मअवस्थामां
अंतरात्मा अने परमात्मा — ए बन्ने शक्तिरूपे अने भाविनैगमनयथी व्यक्तिरूपे पण रहे
छे, एम जाणवुं. अंतरात्म – अवस्थामां बहिरात्मा भूतपूर्वनये तथा घीना घडानी जेम अने
परमात्मस्वरूप शक्तिरूपे तथा भाविनैगमनयथी व्यक्तिरूपे पण रहे छे. परमात्म -
अवस्थामां अंतरात्मा अने बहिरात्मा बन्ने भूतपूर्वनयथी रहे छे.
हवे, त्रणे प्रकारना आत्माओने गुणस्थानोमां घटावे छेः मिथ्यात्व, सासादन
अने मिश्र — ए त्रण गुणस्थानोमां तारतम्यरूप न्यूनाधिक भेदथी बहिरात्मा जाणवो.
अविरत गुणस्थानमां तेने योग्य अशुभलेश्यारूपे परिणमेल (जीव) जघन्य अंतरात्मा
छे अने क्षीणकषाय गुणस्थानमां उत्कृष्ट अंतरात्मा छे; अविरत अने क्षीणकषाय
गुणस्थाननी वच्चेनां गुणस्थानोमां मध्यम अंतरात्मा छे; सयोगी अने अयोगी
गुणस्थानमां विवक्षित एकदेशशुद्धनयनी अपेक्षाए सिद्धसद्रश परमात्मा छे अने सिद्ध
तो साक्षात् परमात्मा छे.
अहीं बहिरात्मा हेय छे, उपादेयभूत अनंतसुखनो साधक होवाथी अंतरात्मा
षड्द्रव्य-पंचास्तिकाय अधिकार [ ५५