बहुविधो भवति । तथा पुद्गलपरमाणुरपि स्वभावेनैकोऽपि शुद्धोऽपि रागद्वेष-
स्थानीयबन्धयोग्यस्निग्धरूक्षगुणाभ्यां परिणम्य द्विअणुकादिस्कन्धरूपविभावपर्यायैर्बहुविधो-
बहुप्रदेशो भवति तेन कारणेन बहुप्रदेशलक्षणकायत्वकारणत्वादुपचारेण कायो भण्यते । अथ
मतं यथा पुद्गलपरमाणोर्द्रव्यरूपेणैकस्यापि द्वयणुकादिस्कन्धपर्यायरूपेण बहुप्रदेशरूपं कायत्वं
जातं तथा कालाणोरपि द्रव्येणैकस्यापि पर्यायेण कायत्वं भवत्विति ? तत्र परिहारः —
स्निग्धरूक्षहेतुकस्य बन्धस्याभावान्न भवति । तदपि कस्मात् ? स्निग्धरूक्षत्वं पुद्गलस्यैव धर्मो
यतः कारणादिति । अणुत्वं पुद्गलसंज्ञा, कालस्याणुसंज्ञा कथमिति चेत् ? तत्रोत्तरम् —
अणुशब्देन व्यवहारेण पुद्गला उच्यन्ते निश्चयेन तु वर्णादिगुणानां पूरणगलनयोगात्पुद्गला इति
वस्तुवृत्या पुनरणुशब्दः सूक्ष्मवाचकः । तद्यथा — परमेण प्रकर्षेणाणुः । अणुः कोऽर्थः ? सूक्ष्म,
इति व्युत्पत्त्या परमाणुः । स च सूक्ष्मवाचकोऽणुशब्दो निर्विभागपुद्गलविवक्षायां पुद्गलाणुं
वदति । अविभागिकालद्रव्यविवक्षायां तु कालाणुं कथयतीत्यर्थः ।।२६।।
पुद्गलपरमाणु पण स्वभावथी एक अने शुद्ध होवा छतां पण राग – द्वेषस्थानीय
बंधयोग्य स्निग्धरूक्षगुणरूपे परिणमीने द्वि – अणुक आदि स्कंधरूप विभावपर्यायरूपे अनेक
प्रकारे बहुप्रदेशी थाय छे, ते कारणे ‘बहुप्रदेशत्व’ जेनुं लक्षण छे तेवा कायत्वने कारणे
उपचारथी ‘काय’ कहेवाय छे.
कोई माने के जेम पुद्गलपरमाणुने, ते द्रव्यरूपे एक होवा छतां, द्वि – अणुक आदि
स्कंधपर्यायरूपे बहुप्रदेशरूप कायत्व छे, तेम कालाणुने पण, ते द्रव्यथी एक होवा छतां पण,
पर्यायोथी कायत्व हो! तेनो परिहार करवामां आवे छेः — स्निग्ध - रूक्षत्व जेनुं कारण छे
एवा बंधनो (काळमां) अभाव होवाथी तेम बनतुं नथी. तेम शा माटे छे? कारण के
स्निग्ध - रूक्षपणुं पुद्गलनो ज धर्म छे.
शंकाः — ‘अणु’ पुद्गलनी संज्ञा छे, काळने ‘अणु’ संज्ञा केवी रीते छे?
उत्तरः — ‘अणु’ शब्द द्वारा व्यवहारनयथी पुद्गलोनुं कथन करवामां आवे छे,
निश्चयथी तो वर्णादि गुणोना पूरण अने गलनना संबंधथी तेओने पुद्गलो कहेवामां आवे
छे. वास्तविकपणे ‘अणु’ शब्द सूक्ष्मतानो वाचक छे. जेम के, परमपणे अर्थात् प्रकृष्टपणे
जे अणु ते ‘परमाणु.’ ‘अणु’ नो अर्थ शो? ‘सूक्ष्म’ ए व्युत्पत्ति प्रमाणे ‘परमाणु’ शब्द
‘अतिसूक्ष्म’ने कहे छे. अने ते सूक्ष्मतावाचक ‘अणु’ शब्द निर्विभाग पुद्गलनी विवक्षामां
‘पुद्गलाणु’ ने कहे छे अने अविभागी काळद्रव्यनी विवक्षामां ‘कालाणु’ने कहे छे. २६.
८२ ]
बृहद् – द्रव्यसंग्रह