Page 450 of 513
PDF/HTML Page 481 of 544
single page version
ज्ञेयज्ञातृतत्त्वतथाप्रतीतिलक्षणेन सम्यग्दर्शनपर्यायेण, ज्ञेयज्ञातृतत्त्वतथानुभूतिलक्षणेन ज्ञानपर्यायेण, ज्ञेयज्ञातृक्रियान्तरनिवृत्तिसूत्र्यमाणद्रष्टृज्ञातृतत्त्ववृत्तिलक्षणेन चारित्रपर्यायेण च, त्रिभिरपि यौगपद्येन भाव्यभावकभावविजृम्भितातिनिर्भर्रेतरेतरसंवलनबलादङ्गाङ्गिभावेन परिणतस्यात्मनो यदात्मनिष्ठत्वे सति संयतत्वं तत्पानकवदनेकात्मकस्यैकस्यानुभूयमान- तायामपि समस्तपरद्रव्यपरावर्तत्वादभिव्यक्तैकाग्र्यलक्षणश्रामण्यापरनामा मोक्षमार्ग एवाव- मोक्षमार्गो भण्यत इति प्ररूपयति — दंसणणाणचरित्तेसु तीसु जुगवं समुट्ठिदो जो दु दर्शनज्ञानचारित्रेषु त्रिषु युगपत्सम्यगुपस्थित उद्यतो यस्तु कर्ता, एयग्गगदो त्ति मदो स ऐकाग्ऐकाग्र्यगत इति मतः संमतः,यगत इति मतः संमतः, सामण्णं तस्स पडिपुण्णं श्रामण्यं चारित्रं यतित्वं तस्य परिपूर्णमिति तथाहि — भावकर्मद्रव्य- कर्मनोकर्मभ्यः शेषपुद्गलादिपञ्चद्रव्येभ्योऽपि भिन्नं सहजशुद्धनित्यानन्दैकस्वभावं मम संबन्धि यदात्म- द्रव्यं तदेव ममोपादेयमितिरुचिरूपं सम्यग्दर्शनम्, तत्रैव परिच्छित्तिरूपं सम्यग्ज्ञानं, तस्मिन्नेव स्वरूपे निश्चलानुभूतिलक्षणं चारित्रं चेत्युक्तस्वरूपं सम्यग्दर्शनज्ञानचारित्रत्रयं पानकवदनेकमप्यभेदनयेनैकं यत् तत्सविकल्पावस्थायां व्यवहारेणैकाग्रयं भण्यते निर्विकल्पसमाधिकाले तु निश्चयेनेति तदेव च
टीकाः — ज्ञेयतत्त्व अने ज्ञातृतत्त्वनी तथाप्रकारे (जेम छे तेम, यथार्थ) प्रतीति जेनुं लक्षण छे ते सम्यग्दर्शनपर्याय छे; ज्ञेयतत्त्व अने ज्ञातृतत्त्वनी तथाप्रकारे अनुभूति जेनुं लक्षण छे ते ज्ञानपर्याय छे; ज्ञेय अने ज्ञातानी जे १क्रियांतरथी निवृत्ति तेना वडे रचाती द्रष्टृज्ञातृतत्त्वमां परिणति जेनुं लक्षण छे ते चारित्रपर्याय छे. आ पर्यायोने अने आत्माने युगपद् अंग -अंगीभावे परिणत आत्माने, आत्मनिष्ठपणुं होतां, जे संयतपणुं होय छे, ते संयतपणुं, एकाग्रतालक्षणवाळुं श्रामण्य जेनुं बीजुं नाम छे एवो मोक्षमार्ग ज छे — एम जाणवुं, कारण के त्यां (संयतपणामां) ३पीणानी माफक ४अनेकात्मक एकनो अनुभव होवा छतां, समस्त परद्रव्यथी निवृत्ति होवाने लीधे एकाग्रता अभिव्यक्त (प्रगट) छे.
२भाव्यभावकपणा वडे ऊपजेला अति गाढ इतरेतर मिलनना बळने लीधे ए त्रणे पर्यायोरूपे
१. क्रियान्तर = अन्य क्रिया. [ज्ञेय अने ज्ञाता अन्य क्रियाथी निवर्ते तेने लीधे रचाती जे देखनार- जाणनार आत्मतत्त्वमां परिणति ते चारित्रपर्यायनुं लक्षण छे.]
२. भावक एटले थनार, अने भावक जे -रूपे थाय ते भाव्य. आत्मा भावक छे अने सम्यग्दर्शनादि
पर्यायो भाव्य छे. भावक अने भाव्यने परस्पर अति गाढ मिलन (-एकमेकता) होय छे. भावक
आत्मा अंगी छे अने भाव्यरूप सम्यग्दर्शनादिपर्यायो तेनां अंगो छे.
३. पीणुं = पीवानी वस्तु. जेम के — दूधियुं. [दूधियानो स्वाद अनेकात्मक एक होय छे; कारण के अभेदथी
तेमां एक दूधियानो ज स्वाद आवे छे अने भेदथी तेमां दूध, साकर, बदाम वगेरे अनेक वस्तुनो
स्वाद आवे छे.]
४. अहीं अनेकात्मक एकना अनुभवमां जे अनेकात्मकपणुं छे ते परद्रव्यमय नथी. त्यां परद्रव्योथी
तो निवृत्ति ज छे; मात्र सम्यग्दर्शन -ज्ञान -चारित्ररूप स्व -अंशोने लीधे ज अनेकात्मकपणुं छे, माटे
त्यां, अनेकात्मकपणुं होवा छतां, एकाग्रपणुं (एक -अग्रपणुं) प्रगट छे.
Page 451 of 513
PDF/HTML Page 482 of 544
single page version
गन्तव्यः । तस्य तु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति भेदात्मकत्वात्पर्यायप्रधानेन व्यवहारनयेन, ऐकाग्र्यं| मोक्षमार्ग इत्यभेदात्मकत्वात् द्रव्यप्रधानेन निश्चयनयेन, विश्वस्यापि भेदाभेदात्मकत्वात्तदुभयमिति प्रमाणेन प्रज्ञप्तिः ।।२४२।।
मास्कन्दत्यचिराद्विकाशमतुलं येनोल्लसन्त्याश्चितेः ।।१६।।
नामान्तरेण परमसाम्यमिति । तदेव परमसाम्यं पर्यायनामान्तरेण शुद्धोपयोगलक्षणः श्रामण्यापरनामा मोक्षमार्गो ज्ञातव्य इति । तस्य तु मोक्षमार्गस्य सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति भेदात्मकत्वा- त्पर्यायप्रधानेन व्यवहारनयेन निर्णयो भवति । ऐकाग्ाा ाा ा
निश्चयनयेन निर्णयो भवति । समस्तवस्तुसमूहस्यापि भेदाभेदात्मकत्वान्निश्चयव्यवहारमोक्षमार्गद्वयस्यापि प्रमाणेन निश्चयो भवतीत्यर्थः ।।२४२।। एवं निश्चयव्यवहारसंयमप्रतिपादनमुख्यत्वेन तृतीयस्थले गाथाचतुष्टयं गतम् । अथ यः स्वशुद्धात्मन्येकाग्रो न भवति तस्य मोक्षाभावं दर्शयति — मुज्झदि वा रज्जदि
ते (संयतत्वरूप अथवा श्रामण्यरूप मोक्षमार्ग) भेदात्मक होवाथी ‘सम्यग्दर्शन -ज्ञान- चारित्र मोक्षमार्ग छे’ एम पर्यायप्रधान व्यवहारनयथी तेनुं प्रज्ञापन छे; ते (मोक्षमार्ग) अभेदात्मक होवाथी ‘एकाग्रता मोक्षमार्ग छे’ एम द्रव्यप्रधान निश्चयनयथी तेनुं प्रज्ञापन छे; बधाय पदार्थो भेदाभेदात्मक होवाथी ‘ते बन्ने (सम्यग्दर्शन -ज्ञान -चारित्र तेम ज एकाग्रता) मोक्षमार्ग छे’ एम प्रमाणथी तेनुं प्रज्ञापन छे. २४२.
[हवे श्लोक द्वारा मोक्षप्राप्तिने माटे द्रष्टा -ज्ञातामां लीनता करवानुं कहेवामां आवे छेः]
[अर्थः — ] ए प्रमाणे, प्रतिपादकना आशयने वश, एक होवा छतां पण अनेक थतो होवाथी (अर्थात् अभेदप्रधान निश्चयनयथी एक — एकाग्रतारूप — होवा छतां पण कहेनारना अभिप्राय अनुसार भेदप्रधान व्यवहारनयथी अनेक पण — दर्शन -ज्ञान- चारित्ररूप पण — थतो होवाथी) १एकताने (एकलक्षणपणाने) तेम ज २त्रिलक्षणपणाने पामेलो जे अपवर्गनो (मोक्षनो) मार्ग तेने लोक द्रष्टाज्ञातामां परिणति बांधीने ( – लीन करीने) अचळपणे अवलंबो, के जेथी ते (लोक) उल्लसती चेतनाना अतुल विकासने अल्प काळमां पामे.
*शार्दूलविक्रीडित छंद.
१. द्रव्यप्रधान निश्चयनयथी मात्र एकाग्रता एक ज मोक्षमार्गनुं लक्षण छे.
२. पर्यायप्रधान व्यवहारनयथी दर्शन -ज्ञान -चारित्ररूप त्रिक मोक्षमार्गनुं लक्षण छे.
Page 452 of 513
PDF/HTML Page 483 of 544
single page version
अथानैकाग्र्यस्य मोक्षमार्गत्वं विघटयति — मुज्झदि वा रज्जदि वा दुस्सदि वा दव्वमण्णमासेज्ज ।
यो हि न खलु ज्ञानात्मानमात्मानमेकमग्रं भावयति, सोऽवश्यं ज्ञेयभूतं द्रव्यमन्यदासीदति । तदासाद्य च ज्ञानात्मात्मज्ञानाद्भ्रष्टः स्वयमज्ञानीभूतो मुह्यति वा, रज्यति वा, द्वेष्टि वा; तथाभूतश्च बध्यत एव, न तु विमुच्यते । अत अनैकाग्र्यस्य न मोक्षमार्गत्वं सिद्धयेत् ।।२४३।। वा दुस्सदि वा दव्वमण्णमासेज्ज जदि मुह्यति वा, रज्यति वा, द्वेष्टि वा, यदि चेत् । किं कृत्वा । द्रव्यमन्यदासाद्य प्राप्य । स कः । समणो श्रमणस्तपोधनः । तदा काले अण्णाणी अज्ञानी भवति । अज्ञानी सन् बज्झदि कम्मेहिं विविहेहिं बध्यते कर्मभिर्विविधैरिति । तथाहि — यो निर्विकारस्वसंवेदनज्ञानेनैकाग्रो भूत्वा स्वात्मानं न जानाति तस्य चित्तं बहिर्विषयेषु गच्छति । ततश्चिदानन्दैकनिजस्वभावाच्च्युतो भवति । ततश्च रागद्वेषमोहैः परिणमति । तत्परिणमन् बहुविधकर्मणा बध्यत इति । ततः कारणान्मोक्षार्थिभि- रेकाग्रत्वेन स्वस्वरूपं भावनीयमित्यर्थः ।।२४३।। अथ निजशुद्धात्मनि योऽसावेकाग्रस्तस्यैव मोक्षो
हवे, अनेकाग्रताने मोक्षमार्गपणुं घटतुं नथी (अर्थात् अनेकाग्रता ते मोक्षमार्ग नथी) एम दर्शावे छेः —
अन्वयार्थः — [यदि] जो [श्रमणः] श्रमण, [अन्यत् द्रव्यम् आसाद्य] अन्य द्रव्यनो आश्रय करीने [अज्ञानी] अज्ञानी थयो थको, [मुह्यति वा] मोह करे छे, [रज्यति वा] राग करे छे [द्वेष्टि वा] अथवा द्वेष करे छे, तो ते [विविधैः कर्मभिः] विविध कर्मो वडे [बध्यते] बंधाय छे.
टीकाः — जे खरेखर ज्ञानात्मक आत्मारूप एक अग्रने ( – विषयने) भावतो नथी, ते अवश्य ज्ञेयभूत अन्य द्रव्यनो आश्रय करे छे, अने तेनो आश्रय करीने ज्ञानात्मक आत्मज्ञानथी भ्रष्ट एवो ते स्वयं अज्ञानी थयो थको, मोह करे छे, राग करे छे अथवा द्वेष करे छे; अने एवो ( – मोही, रागी अथवा द्वेषी) थयो थको बंधाय ज छे, परंतु मुकातो नथी.
आथी अनेकाग्रताने मोक्षमार्गपणुं सिद्ध थतुं नथी. २४३.
Page 453 of 513
PDF/HTML Page 484 of 544
single page version
यस्तु ज्ञानात्मानमात्मानमेकमग्रं भावयति, स न ज्ञेयभूतं द्रव्यमन्यदासीदति । तदनासाद्य च ज्ञानात्मात्मज्ञानादभ्रष्टः स्वयमेव ज्ञानीभूतस्तिष्ठन्न मुह्यति, न रज्यति, न द्वेष्टि; भवतीत्युपदिशति — अट्ठेसु जो ण मुज्झदि ण हि रज्जदि णेव दोसमुवयादि अर्थेषु बहिःपदार्थेषु यो न मुह्यति, न रज्यति, हि स्फु टं, नैव द्वेषमुपयाति, जदि यदि चेत्, सो समणो स श्रमणः णियदं निश्चितं खवेदि विविहाणि कम्माणि क्षपयति कर्माणि विविधानि इति । अथ विशेषः – योऽसौ दृष्टश्रुतानुभूतभोगाकाङ्क्षा- रूपाद्यपध्यानत्यागेन निजस्वरूपं भावयति, तस्य चित्तं बहिःपदार्थेषु न गच्छति, ततश्च बहिःपदार्थ- चिन्ताभावान्निर्विकारचिच्चमत्कारमात्राच्च्युतो न भवति । तदच्यवनेन च रागाद्यभावाद्विविधकर्माणि विनाशयतीति । ततो मोक्षार्थिना निश्चलचित्तेन निजात्मनि भावना कर्तव्येति । इत्थं वीतरागचारित्र- व्याख्यानं श्रुत्वा केचन वदन्ति — सयोगिकेवलिनामप्येकदेशेन चारित्रं, परिपूर्णचारित्रं पुनरयोगिचरम- समये भविष्यति, तेन कारणेनेदानीमस्माकं सम्यक्त्वभावनया भेदज्ञानभावनया च पूर्यते, चारित्रं पश्चाद्भविष्यतीति । नैवं वक्तव्यम् । अभेदनयेन ध्यानमेव चारित्रं, तच्च ध्यानं केवलिनामुपचारेणोक्तं , चारित्रमप्युपचारेणेति । यत्पुनः समस्तरागादिविकल्पजालरहितं शुद्धात्मानुभूतिलक्षणं सम्यग्दर्शनज्ञान-
हवे, एकाग्रता ते मोक्षमार्ग छे एम (आचार्यभगवान) नक्की करता थका (मोक्षमार्ग -प्रज्ञापननो) उपसंहार करे छेः —
अन्वयार्थः — [यदि यः श्रमणः] जो श्रमण [अर्थेषु] पदार्थोमां [न मुह्यति] मोह करतो नथी, [न हि रज्यति] राग करतो नथी, [न एव द्वेषम् उपयाति] द्वेष करतो नथी, [सः] तो ते [नियतं] नियमथी (चोक्कस) [विविधानि कर्माणि] विविध कर्मोने [क्षपयति] खपावे छे.
टीकाः — जे ज्ञानात्मक आत्मारूप एक अग्रने ( – विषयने) भावे छे, ते ज्ञेयभूत अन्य द्रव्यनो आश्रय करतो नथी, अने तेनो आश्रय नहि करीने ज्ञानात्मक आत्मज्ञानथी अभ्रष्ट एवो ते स्वयमेव ज्ञानी रहेतो थको, मोह करतो नथी, राग करतो नथी, द्वेष
Page 454 of 513
PDF/HTML Page 485 of 544
single page version
तथाभूतः सन् मुच्यत एव, न तु बध्यते । अत ऐकाग्र्यस्यैव मोक्षमार्गत्वं सिद्धयेत् ।।२४४।।
समणा सुद्धुवजुत्ता सुहोवजुत्ता य होंति समयम्हि ।
पूर्वकं वीतरागछद्मस्थचारित्रं तदेव कार्यकारीति । कस्मादिति चेत् । तेनैव केवलज्ञानं जायते
यतस्तस्माच्चारित्रे तात्पर्यं कर्तव्यमिति भावार्थः । किंच उत्सर्गव्याख्यानकाले श्रामण्यं व्याख्यातमत्र
पुनरपि किमर्थमिति परिहारमाह — तत्र सर्वपरित्यागलक्षण उत्सर्ग एव मुख्यत्वेन च मोक्षमार्गः, अत्र
तु श्रामण्यव्याख्यानमस्ति, परं किंतु श्रामण्यं मोक्षमार्गो भवतीति मुख्यत्वेन विशेषोऽस्ति ।।२४४।। एवं
श्रामण्यापरनाममोक्षमार्गोपसंहारमुख्यत्वेन चतुर्थस्थले गाथाद्वयं गतम् । अथ शुभोपयोगिनां
सास्रवत्वाद्वयवहारेण श्रमणत्वं व्यवस्थापयति — संति विद्यन्ते । क्व । समयम्हि समये परमागमे । के
सन्ति । समणा श्रमणास्तपोधनाः । किंविशिष्टाः । सुद्धुवजुत्ता शुद्धोपयोगयुक्ताः शुद्धोपयोगिन इत्यर्थः ।
सुहोवजुत्ता य न केवलं शुद्धोपयोगयुक्ताः, शुभोपयोगयुक्ताश्र्च । चकारोऽत्र अन्वाचयार्थे गौणार्थे
करतो नथी; अने एवो ( – अमोही, अरागी, अद्वेषी) वर्ततो थको मुकाय ज छे, परंतु बंधातो नथी.
आथी एकाग्रताने ज मोक्षमार्गपणुं सिद्ध थाय छे. २४४. आ रीते
हवे शुभोपयोगनुं प्रज्ञापन करे छे. तेमां (प्रथम), शुभोपयोगीओने श्रमण तरीके गौणपणे दर्शावे छेः —
अन्वयार्थः — [समये] शास्त्रने विषे (एम कह्युं छे के), [शुद्धोपयुक्ताः श्रमणाः] शुद्धोपयोगी ते श्रमण छे, [शुभोपयुक्ताः च भवन्ति] शुभोपयोगी पण श्रमण छे; [तेषु अपि] तेमांय, [शुद्धोपयुक्ताः अनास्रवाः] शुद्धोपयोगी निरास्रव छे, [शेषाः सास्रवाः] बाकीना सास्रव छे (अर्थात् शुभोपयोगी आस्रव सहित छे).
Page 455 of 513
PDF/HTML Page 486 of 544
single page version
ये खलु श्रामण्यपरिणतिं प्रतिज्ञायापि, जीवितकषायकणतया, समस्तपरद्रव्यनिवृत्ति- प्रवृत्तसुविशुद्धदृशिज्ञप्तिस्वभावात्मतत्त्ववृत्तिरूपां शुद्धोपयोगभूमिकामधिरोढुं न क्षमन्ते, ते तदुपकण्ठनिविष्टाः, कषायकुण्ठीकृतशक्तयो, नितान्तमुत्कण्ठुलमनसः, श्रमणाः किं भवेयुर्न वेत्यत्राभिधीयते । ‘धम्मेण परिणदप्पा अप्पा जदि सुद्धसंपओगजुदो । पावदि णिव्वाणसुहं सुहोवजुत्तो य सग्गसुहं ।।’ इति स्वयमेव निरूपितत्वादस्ति तावच्छुभोपयोगस्य धर्मेण सहैकार्थसमवायः । ततः शुभोपयोगिनोऽपि धर्मसद्भावाद्भवेयुः श्रमणाः । किन्तु तेषां शुद्धोपयोगिभिः समं समकाष्ठत्वं न भवेत्, यतः शुद्धोपयोगिनो निरस्तसमस्तकषायत्वाद- ग्राह्यः । तत्र दृष्टान्तः — यथा निश्चयेन शुद्धबुद्धैकस्वभावाः सिद्धजीवा एव जीवा भण्यते, व्यवहारेण चतुर्गतिपरिणता अशुद्धजीवाश्च जीवा इति; तथा शुद्धोपयोगिनां मुख्यत्वं, शुभोपयोगिनां तु चकारसमुच्चयव्याख्यानेन गौणत्वम् । कस्माद्गौणत्वं जातमिति चेत् । तेसु वि सुद्धुवजुत्ता अणासवा सासवा सेसा तेष्वपि मध्ये शुद्धोपयोगयुक्ता अनास्रवाः, शेषाः सास्रवा इति यतः कारणात् । तद्यथा — निज- शुद्धात्मभावनाबलेन समस्तशुभाशुभसंकल्पविक ल्परहितत्वाच्छुद्धोपयोगिनो निरास्रवा एव, शेषाः
टीकाः — जेओ खरेखर श्रामण्यपरिणतिनी प्रतिज्ञा करीने पण, कषायकण जीवतो (हयात) होवाथी, समस्त परद्रव्यथी निवृत्तिरूपे प्रवर्तती एवी जे १सुविशुद्धदर्शनज्ञान- स्वभाव आत्मतत्त्वमां परिणतिरूप शुद्धोपयोगभूमिका तेमां आरोहण करवा असमर्थ छे, ते (शुभोपयोगी) जीवो — के जेओ शुद्धोपयोगभूमिकाना २उपकंठे रहेला छे, कषाये जेमनी शक्तिने कुंठित करी ( – रूंधी) छे अने जेओ अत्यंत उत्कंठित ( – आतुर) मनवाळा छे तेओ — श्रमण छे के नथी, ते अहीं कहेवामां आवे छेः
३‘धम्मेण परिणदप्पा अप्पा जदि सुद्धसंपओगजुदो । पावदि णिव्वाणसुहं सुहोवजुत्तो य सग्गसुहं ।।’ एम (११मी गाथामां भगवान कुंदकुंदाचार्यदेवे) पोते ज निरूपण कर्युं होवाथी शुभोपयोगने धर्मनी साथे ४एकार्थसमवाय छे; तेथी शुभोपयोगीओ पण, तेमने धर्मनो सद्भाव होवाने लीधे, श्रमण छे. परंतु तेओ शुद्धोपयोगीओनी साथे समान कोटिना (सरखी हदना) नथी, कारण के शुद्धोपयोगीओए समस्त कषायो निरस्त कर्या होवाथी तेओ निरास्रव ज छे अने आ शुभोपयोगीओने तो कषायकण अविनष्ट होवाथी तेओ सास्रव
१. आत्मतत्त्वनो स्वभाव सुविशुद्ध दर्शन अने ज्ञान छे.
२. उपकंठ = पादर; परवाड; तळेटी; पाडोश; नजीकनो भाग; निकटता.
३. अर्थः — धर्मे परिणमेला स्वरूपवाळो आत्मा जो शुद्ध उपयोगमां जोडायेलो होय तो मोक्षना सुखने
पामे छे अने जो शुभ उपयोगवाळो होय तो स्वर्गना सुखने (बंधने) पामे छे.
४. एकार्थसमवाय = एक पदार्थमां साथे रही शकवारूप संबंध. (आत्मपदार्थमां धर्म अने शुभोपयोग साथे होई शके छे तेथी शुभोपयोगने धर्मनी साथे एकार्थसमवाय छे.)
Page 456 of 513
PDF/HTML Page 487 of 544
single page version
नास्रवा एव । इमे पुनरनवकीर्णकषायकणत्वात्सास्रवा एव । अत एव च शुद्धोपयोगिभिः समममी न समुच्चीयन्ते, केवलमन्वाचीयन्त एव ।।२४५।।
अरहंतादिसु भत्ती वच्छलदा पवयणाभिजुत्तेसु ।
शुभोपयोगिनो मिथ्यात्वविषयकषायरूपाशुभास्रवनिरोधेऽपि पुण्यास्रवसहिता इति भावः ।।२४५।। अथ
शुभोपयोगिश्रमणानां लक्षणमाख्याति — सा सुहजुत्ता भवे चरिया सा चर्या शुभयुक्ता भवेत् । कस्य ।
तपोधनस्य । कथंभूतस्य । समस्तरागादिविकल्परहितपरमसमाधौ स्थातुमशक्यस्य । यदि किम् । विज्जदि
जदि विद्यते यदि चेत् । क्व । सामण्णे श्रामण्ये चारित्रे । किं विद्यते । अरहंतादिसु भत्ती अनन्त-
ज्ञानादिगुणयुक्तेष्वर्हत्सिद्धेषु गुणानुरागयुक्ता भक्तिः । वच्छलदा वत्सलस्य भावो वत्सलता वात्सल्यं
विनयोऽनुकूलवृत्तिः । केषु विषये । पवयणाभिजुत्तेसु प्रवचनाभियुक्तेषु । प्रवचनशब्देनात्रागमो भण्यते,
ज छे. अने आम होवाथी ज शुद्धोपयोगीओनी साथे आमने (शुभोपयोगीओने) भेगा लेवामां ( – वर्णववामां) आवता नथी, मात्र पाछळथी (गौण तरीके) ज लेवामां आवे छे.
भावार्थः — परमागममां एम कह्युं छे के शुद्धोपयोगीओ श्रमण छे अने शुभोपयोगीओ पण गौणपणे श्रमण छे. जेम निश्चयथी शुद्धबुद्ध -एकस्वभावी सिद्ध जीवो ज जीव कहेवाय छे अने व्यवहारथी चतुर्गतिपरिणत अशुद्ध जीवो पण जीव कहेवाय छे, तेम श्रमणपणे शुद्धोपयोगी जीवोनुं मुख्यपणुं छे अने शुभोपयोगी जीवोनुं गौणपणुं छे; कारण के शुद्धोपयोगीओ निजशुद्धात्मभावनाना बळथी समस्त शुभाशुभ संकल्पविकल्प रहित होवाथी निरास्रव ज छे अने शुभोपयोगीओने मिथ्यात्वविषयकषायरूप अशुभ आस्रवनो निरोध होवा छतां तेओ पुण्यास्रव सहित छे. २४५.
हवे शुभोपयोगी श्रमणनुं लक्षण सूत्र द्वारा (गाथा द्वारा) कहे छेः —
— ए होय जो श्रामण्यमां, तो चरण ते शुभयुक्त छे. २४६.
अन्वयार्थः — [श्रामण्ये] श्रामण्यमां [यदि] जो [अर्हदादिषु भक्तिः] अर्हंतादिक प्रत्ये भक्ति तथा [प्रवचनाभियुक्तेषु वत्सलता] प्रवचनरत जीवो प्रत्ये वत्सलता [विद्यते] वर्तती होय तो [सा] ते [शुभयुक्ता चर्या] शुभयुक्त चर्या (शुभोपयोगी चारित्र) [भवेत्] छे.
Page 457 of 513
PDF/HTML Page 488 of 544
single page version
सकलसङ्गसंन्यासात्मनि श्रामण्ये सत्यपि कषायलवावेशवशात् स्वयं शुद्धात्मवृत्ति- मात्रेणावस्थातुमशक्तस्य, परेषु शुद्धात्मवृत्तिमात्रेणावस्थितेष्वर्हदादिषु, शुद्धात्मवृत्तिमात्रावस्थिति- प्रतिपादकेषु प्रवचनाभियुक्तेषु च भक्त्या वत्सलतया च प्रचलितस्य, तावन्मात्रराग- प्रवर्तितपरद्रव्यप्रवृत्तिसंवलितशुद्धात्मवृत्तेः, शुभोपयोगि चारित्रं स्यात् । अतः शुभोपयोगि- श्रमणानां शुद्धात्मानुरागयोगिचारित्रत्वलक्षणम् ।।२४६।।
वंदणणमंसणेहिं अब्भुट्ठाणाणुगमणपडिवत्ती । समणेसु समावणओ ण णिंदिदा रागचरियम्हि ।।२४७।। संघो वा, तेन प्रवचनेनाभियुक्ताः प्रवचनाभियुक्ता आचार्योपाध्यायसाधवस्तेष्विति । एतदुक्तं भवति — स्वयं शुद्धोपयोगलक्षणे परमसामायिके स्थातुमसमर्थस्यान्येषु शुद्धोपयोगफलभूतकेवलज्ञानेन परिणतेषु, तथैव शुद्धोपयोगाराधकेषु च यासौ भक्तिस्तच्छुभोपयोगिश्रमणानां लक्षणमिति ।।२४६।। अथ शुभोपयोगिनां शुभप्रवृत्तिं दर्शयति — ण णिंदिदा नैव निषिद्धा । क्व । रागचरियम्हि शुभरागचर्यायां
टीकाः — सकळ संगना संन्यासस्वरूप श्रामण्य होवा छतां पण +कषायलवना आवेशने वश केवळ शुद्धात्मपरिणतिरूपे रहेवाने पोते अशक्त छे एवो जे श्रमण, पर एवा जे (१) केवळ शुद्धात्मपरिणतिरूपे रहेला अर्हंतादिक तथा (२) केवळ शुद्धात्मपरिणतिरूपे रहेवानुं प्रतिपादन करनार प्रवचनरत जीवो तेमना प्रत्ये (१) भक्ति तथा (२) वत्सलता वडे चंचळ छे, ते श्रमणने, मात्र तेटला राग वडे प्रवर्तती परद्रव्यप्रवृत्ति साथे शुद्धात्मपरिणति मिलित होवाने लीधे, शुभोपयोगी चारित्र छे.
आथी (एम कह्युं के) शुद्ध आत्माना अनुरागयुक्त चारित्र शुभोपयोगी श्रमणोनुं लक्षण छे.
भावार्थः — एकली शुद्धात्मपरिणतिरूपे रहेवाने असमर्थ होवाने लीधे जे श्रमण, पर एवा अर्हंतादिक प्रत्ये भक्तिथी तथा पर एवा आगमपरायण जीवो प्रत्ये वात्सल्यथी चंचळ (अस्थिर) छे, ते श्रमणने शुभोपयोगी चारित्र छे, कारण के शुद्धात्मपरिणति परद्रव्यप्रवृत्ति (परद्रव्यमां प्रवृत्ति) साथे मळेली छे अर्थात् शुभ भाव साथे मिश्रित छे. २४६.
हवे शुभोपयोगी श्रमणोनी प्रवृत्ति दर्शावे छेः —
+कषायलव = जराक कषाय; थोडो कषाय.
Page 458 of 513
PDF/HTML Page 489 of 544
single page version
शुभोपयोगिनां हि शुद्धात्मानुरागयोगिचारित्रतया, समधिगतशुद्धात्मवृत्तिषु श्रमणेषु वन्दननमस्करणाभ्युत्थानानुगमनप्रतिपत्तिप्रवृत्तिः शुद्धात्मवृत्तित्राणनिमित्ता श्रमापनयनप्रवृत्तिश्च न दुष्येत् ।।२४७।।
सरागचारित्रावस्थायाम् । का न निन्दिता । वंदणणमंसणेहिं अब्भुट्ठाणाणुगमणपडिवत्ती वन्दननमस्काराभ्यां सहाभ्युत्थानानुगमनप्रतिपत्तिप्रवृत्तिः । समणेसु समावणओ श्रमणेषु श्रमापनयः रत्नत्रयभावनाभिघातक- श्रमस्य खेदस्य विनाश इति । अनेन किमुक्तं भवति – शुद्धोपयोगसाधके शुभोपयोगे स्थितानां तपोधनानां इत्थंभूताः शुभोपयोगप्रवृत्तयो रत्नत्रयाराधकशेषपुरुषेषु विषये युक्ता एव, विहिता एवेति ।।२४७।। अथ शुभोपयोगिनामेवेत्थंभूताः प्रवृत्तयो भवन्ति, न च शुद्धोपयोगिनामिति प्ररूपयति — दंसणणाणुवदेसो
अन्वयार्थः — [श्रमणेषु] श्रमणो प्रत्ये [वन्दननमस्करणाभ्याम्] वंदन -नमस्कार सहित [अभ्युत्थानानुगमनप्रतिपत्तिः] १अभ्युत्थान अने २अनुगमनरूप ३विनीत वर्तन करवुं तथा [श्रमापनयः] तेमनो श्रम दूर करवो ते [रागचर्यायाम्] रागचर्यामां [न निन्दिता] निंदित नथी.
टीकाः — शुभोपयोगीओने शुद्धात्माना अनुरागयुक्त चारित्र होय छे, तेथी जेमणे शुद्धात्मपरिणति प्राप्त करी छे एवा श्रमणो प्रत्ये जे वंदन -नमस्कार -अभ्युत्थान -अनुगमन- रूप विनीत वर्तननी प्रवृत्ति तथा शुद्धात्मपरिणतिना रक्षणने निमित्तभूत एवी जे श्रम दूर करवानी (वैयावृत्त्यरूप) प्रवृत्ति ते शुभोपयोगीओने माटे दूषित (दोषरूप, निंदित) नथी (अर्थात् शुभोपयोगी मुनिओने आवी प्रवृत्तिनो निषेध नथी). २४७.
हवे, शुभोपयोगीओने ज आवी प्रवृत्तिओ होय छे एम प्रतिपादन करे छेः —
१. अभ्युत्थान = मानार्थे ऊभा थई जवुं ते
२. अनुगमन = पाछळ चालवुं ते ३. विनीत = विनययुक्त; सन्मानयुक्त; विवेकी; सभ्य.
Page 459 of 513
PDF/HTML Page 490 of 544
single page version
अनुजिघृक्षापूर्वकदर्शनज्ञानोपदेशप्रवृत्तिः शिष्यसंग्रहणप्रवृत्तिस्तत्पोषणप्रवृत्तिर्जिनेन्द्र- पूजोपदेशप्रवृत्तिश्च शुभोपयोगिनामेव भवन्ति, न शुद्धोपयोगिनाम् ।।२४८।।
उवकुणदि जो वि णिच्चं चादुव्वण्णस्स समणसंघस्स ।
कायविराधणरहिदं सो वि सरागप्पधाणो से ।।२४९।। दर्शनं मूढत्रयादिरहितं सम्यक्त्वं, ज्ञानं परमागमोपदेशः, तयोरुपदेशो दर्शनज्ञानोपदेशः । सिस्सग्गहणं च पोसणं तेसिं रत्नत्रयाराधनाशिक्षाशीलानां शिष्याणां ग्रहणं स्वीकारस्तेषामेव पोषणमशनशयनादिचिन्ता । चरिया हि सरागाणं इत्थंभूता चर्या चारित्रं भवति, हि स्फु टम् । केषाम् । सरागाणां धर्मानुराग- चारित्रसहितानाम् । न केवलमित्थंभूता चर्या, जिणिंदपूजोवदेसो य यथासंभवं जिनेन्द्रपूजादि- धर्मोपदेशश्चेति । ननु शुभोपयोगिनामपि क्वापि काले शुद्धोपयोगभावना दृश्यते, शुद्धोपयोगिनामपि क्वापि काले शुभोपयोगभावना दृश्यते, श्रावकाणामपि सामायिकादिकाले शुद्धभावना दृश्यते, तेषां कथं विशेषो भेदो ज्ञायत इति । परिहारमाह — युक्तमुक्तं भवता, परं किंतु ये प्रचुरेण शुभोपयोगेन वर्तन्ते ते यद्यपि क्वापि काले शुद्धोपयोगभावनां कुर्वन्ति तथापि शुभोपयोगिन एव भण्यन्ते । येऽपि शुद्धोपयोगिनस्ते यद्यपि क्वापि काले शुभोपयोगेन वर्तन्ते तथापि शुद्धोपयोगिन एव । कस्मात् । बहुपदस्य प्रधानत्वादाम्रवननिम्बवनवदिति ।।२४८।। अथ काश्चिदपि याः प्रवृत्तयस्ताः शुभोपयोगि- नामेवेति नियमति — उवकुणदि जो वि णिच्चं चादुव्वण्णस्स समणसंघस्स उपकरोति योऽपि नित्यं । कस्य ।
अन्वयार्थः — [दर्शनज्ञानोपदेशः] दर्शनज्ञाननो (सम्यग्दर्शन अने सम्यग्ज्ञाननो) उपदेश, [शिष्यग्रहणं] शिष्योनुं ग्रहण [च] तथा [तेषाम् पोषणं] तेमनुं पोषण, [च] अने [जिनेन्द्र- पूजोपदेशः] जिनेंद्रनी पूजानो उपदेश [हि] खरेखर [सरागाणां चर्या] सरागीओनी चर्या छे.
टीकाः — अनुग्रह करवानी इच्छापूर्वक दर्शनज्ञानना उपदेशनी प्रवृत्ति, शिष्यग्रहणनी प्रवृत्ति, तेमना पोषणनी प्रवृत्ति अने जिनेंद्रपूजाना उपदेशनी प्रवृत्ति शुभोपयोगीओने ज होय छे, शुद्धोपयोगीओने नहि. २४८.
हवे, बधीये प्रवृत्तिओ शुभोपयोगीओने ज होय छे एम नक्की करे छेः —
Page 460 of 513
PDF/HTML Page 491 of 544
single page version
प्रतिज्ञातसंयमत्वात् षटकायविराधनरहिता या काचनापि शुद्धात्मवृत्तित्राणनिमित्ता चातुर्वर्णस्य श्रमणसंघस्योपकारकरणप्रवृत्तिः सा सर्वापि रागप्रधानत्वात् शुभोपयोगिनामेव भवति, न कदाचिदपि शुद्धोपयोगिनाम् ।।२४९।। चातुर्वर्णस्य श्रमणसंघस्य । अत्र श्रमणशद्बेन श्रमणशब्दवाच्या ऋषिमुनियत्यनगारा ग्राह्याः । ‘‘देश- प्रत्यक्षवित्केवलभृदिहमुनिः स्यादृषिः प्रसृतर्द्धिरारूढः श्रेणियुग्मेऽजनि यतिरनगारोऽपरः साधुवर्गः । राजा ब्रह्मा च देवः परम इति ऋषिर्विक्रियाक्षीणशक्तिप्राप्तो बुद्धयौषधीशो वियदयनपटुर्विश्ववेदी क्रमेण ।।’’ ऋषय ऋद्धिं प्राप्तास्ते चतुर्विधा, राजब्रह्मदेवपरमऋषिभेदात् । तत्र राजर्षयो विक्रिया- क्षीणार्द्धिप्राप्ता भवन्ति । ब्रह्मर्षयो बुद्धयौषधर्द्धियुक्ता भवन्ति । देवर्षयो गगनगमनर्द्धिसंपन्ना भवन्ति । परमर्षयः केवलिनः केवलज्ञानिनो भवन्ति । मुनयः अवधिमनःपर्ययकेवलिनश्च । यतय उपशमक- क्षपकश्रेण्यारूढाः । अनगाराः सामान्यसाधवः । कस्मात् । सर्वेषां सुखदुःखादिविषये समतापरिणामो- ऽस्तीति । अथवा श्रमणधर्मानुकूलश्रावकादिचातुर्वर्णसंघः । कथं यथा भवति । कायविराधणरहिदं स्वस्थभावनास्वरूपं स्वकीयशुद्धचैतन्यलक्षणं निश्चयप्राणं रक्षन् परकीयषटकायविराधनारहितं यथा भवति । सो वि सरागप्पधाणो से सोऽपीत्थंभूतस्तपोधनो धर्मानुरागचारित्रसहितेषु मध्ये प्रधानः श्रेष्ठः स्यादित्यर्थः ।।२४९।। अथ वैयावृत्त्यकालेऽपि स्वकीयसंयमविराधना न कर्तव्येत्युपदिशति — जदि
अन्वयार्थः — [यः अपि] जे कोई (श्रमण) [नित्यं] सदा [कायविराधनरहितं] (छ) कायनी विराधना विना [चातुर्वर्णस्य] चार प्रकारना [श्रमणसंघस्य] श्रमणसंघने [उपकरोति] उपकार करे छे, [सः अपि] ते [सरागप्रधानः स्यात्] रागनी प्रधानतावाळो छे.
टीकाः — संयमनी प्रतिज्ञा करी होवाथी *छ कायनी विराधना विनानी जे कोई पण, शुद्धात्मपरिणतिना रक्षणने निमित्तभूत एवी, +चार प्रकारना श्रमणसंघने उपकार करवानी प्रवृत्ति, ते बधीये रागप्रधानपणाने लीधे शुभोपयोगीओने ज होय छे, शुद्धोपयोगीओने कदापि नहि. २४९.
*श्रमणसंघने शुद्धात्मपरिणतिना रक्षणमां निमित्तभूत एवी जे उपकारप्रवृत्ति शुभोपयोगी श्रमणो करे
छे ते प्रवृत्ति छ कायनी विराधना विनानी होय छे, कारण के तेमणे (शुभोपयोगी श्रमणोए)
संयमनी प्रतिज्ञा लीधेली छे.
+श्रमणना चार प्रकार आ प्रमाणे छेः (१) ॠषि, (२) मुनि, (३) यति अने (४) अणगार.
ॠद्धिवाळा श्रमण ते ॠषि छे; अवधिज्ञान, मनःपर्ययज्ञान अथवा केवळज्ञानवाळा श्रमण ते मुनि
छे; उपशमक अथवा क्षपक श्रेणिमां आरूढ श्रमण ते यति छे; अने सामान्य साधु ते अणगार
छे. आ प्रमाणे चार प्रकारनो श्रमणसंघ छे.
Page 461 of 513
PDF/HTML Page 492 of 544
single page version
अथ प्रवृत्तेः संयमविरोधित्वं प्रतिषेधयति — जदि कुणदि कायखेदं वेज्जावच्चत्थमुज्जदो समणो । ण हवदि हवदि अगारी धम्मो सो सावयाणं से ।।२५०।।
यो हि परेषां शुद्धात्मवृत्तित्राणाभिप्रायेण वैयावृत्त्यप्रवृत्त्या स्वस्य संयमं विराधयति, स गृहस्थधर्मानुप्रवेशात् श्रामण्यात् प्रच्यवते । अतो या काचन प्रवृत्तिः सा सर्वथा संयमाविरोधेनैव विधातव्या; प्रवृत्तावपि संयमस्यैव साध्यत्वात् ।।२५०।। कुणदि कायखेदं वेज्जावच्चत्थमुज्जदो यदि चेत् करोति कायखेदं षटकायविराधनाम् । कथंभूतः सन् । वैयावृत्त्यार्थमुद्यतः । समणो ण हवदि तदा श्रमणस्तपोधनो न भवति । तर्हि किं भवति । हवदि अगारी अगारी गृहस्थो भवति । कस्मात् । धम्मो सो सावयाणं से षटकायविराधनां कृत्वा योऽसौ धर्मः स श्रावकाणां स्यात्, न च तपोधनानामिति । इदमत्र तात्पर्यम् – योऽसौ स्वशरीरपोषणार्थं शिष्यादिमोहेन वा सावद्यं नेच्छति तस्येदं व्याख्यानं शोभते, यदि पुनरन्यत्र सावद्यमिच्छति वैयावृत्त्यादिस्वकीयाव- स्थायोग्ये धर्मकार्ये नेच्छति तदा तस्य सम्यक्त्वमेव नास्तीति ।।२५०।। अथ यद्यप्यल्पलेपो भवति
हवे प्रवृत्ति संयमनी विरोधी होवानो निषेध करे छे (अर्थात् शुभोपयोगी श्रमणने संयम साथे विरोधवाळी प्रवृत्ति न होवी जोईए एम कहे छे)ः —
अन्वयार्थः — [यदि] जो (श्रमण) [वैयावृत्त्यार्थम् उद्यतः] वैयावृत्त्य माटे उद्यमवंत वर्ततां [कायखेदं] छ कायने पीडा [करोति] करे तो ते [श्रमणः न भवति] श्रमण नथी, [अगारी भवति] गृहस्थ छे; (कारण के) [सः] ते (छ कायनी विराधना सहित वैयावृत्त्य) [श्रावकाणां धर्मः स्यात्] श्रावकोनो धर्म छे.
टीकाः — जे (श्रमण) बीजाने शुद्धात्मपरिणतिनुं रक्षण थाय एवा अभिप्रायथी वैयावृत्त्यनी प्रवृत्ति करतां पोताना संयमनी विराधना करे छे, ते गृहस्थधर्ममां प्रवेशतो होवाने लीधे श्रामण्यथी च्युत थाय छे. आथी (एम कह्युं के) जे कोई प्रवृत्ति होय ते सर्वथा संयम साथे विरोध न आवे एवी रीते ज करवी जोईए, कारण के प्रवृत्तिमां पण संयम ज साध्य छे.
Page 462 of 513
PDF/HTML Page 493 of 544
single page version
अथ प्रवृत्तेर्विषयविभागे दर्शयति —
या किलानुकम्पापूर्विका परोपकारलक्षणा प्रवृत्तिः सा खल्वनेकान्तमैत्रीपवित्रितचित्तेषु परोपकारे, तथापि शुभोपयोगिभिर्धर्मोपकारः कर्तव्य इत्युपदिशति — कुव्वदु करोतु । स कः कर्ता । शुभोपयोगी पुरुषः । कं करोतु । अणुकं पयोवयारं अनुकम्पासहितोपकारं दयासहितं धर्मवात्सल्यम् । यदि किम् । लेवो जदि वि अप्पो ‘‘सावद्यलेशो बहुपुण्यराशौ’’ इति दृष्टान्तेन यद्यप्यल्पलेपः स्तोकसावद्यं भवति । केषां करोतु । जोण्हाणं निश्चयव्यवहारमोक्षमार्गपरिणतजैनानाम् । कथम् । णिरवेक्खं निरपेक्षं
भावार्थः — जे श्रमण छ कायनी विराधना सहित वैयावृत्त्यादि प्रवृत्ति करे छे, ते गृहस्थधर्ममां प्रवेशे छे; तेथी श्रमणे वैयावृत्त्यादि प्रवृत्ति एवी रीते करवी जोईए के जेथी संयमनी विराधना न थाय.
अहीं एटलुं विशेष समजवुं के — जे स्वशरीरना पोषण अर्थे अथवा शिष्यादिना मोहथी सावद्यने इच्छतो नथी तेने तो वैयावृत्त्यादिकमां पण सावद्यने न इच्छवुं ते शोभास्पद छे, परंतु जे बीजे तो सावद्यने इच्छे छे पण पोतानी अवस्थाने योग्य वैयावृत्त्यादि धर्मकार्यमां सावद्यने इच्छतो नथी तेने तो सम्यक्त्व ज नथी. २५०.
हवे प्रवृत्तिना विषयना बे विभागो दर्शावे छे (अर्थात् शुभोपयोगीए कोना प्रत्ये उपकारनी प्रवृत्ति करवायोग्य छे अने कोना प्रत्ये उपकारनी प्रवृत्ति करवायोग्य नथी ते दर्शावे छे)ः —
अन्वयार्थः — [यद्यपि अल्पः लेपः] अल्प लेप थतो होवा छतां पण [साकारा- नाकारचर्यायुक्तानाम्] साकार -अनाकार चर्यायुक्त [जैनानां] जैनोने [अनुक म्पया] अनुकंपाथी [निरपेक्षं] निरपेक्षपणे [उपकारं करोतु] (शुभोपयोगी) उपकार करो.
टीकाः — जे अनुकंपापूर्वक परोपकारस्वरूप प्रवृत्ति ते करवाथी जोके अल्प लेप तो थाय छे, तोपण अनेकांत साथे मैत्रीथी जेमनुं चित्त पवित्र थयुं छे एवा शुद्ध जैनो प्रत्ये —
Page 463 of 513
PDF/HTML Page 494 of 544
single page version
शुद्धेषु जैनेषु शुद्धात्मज्ञानदर्शनप्रवृत्तवृत्तितया साकारानाकारचर्यायुक्तेषु शुद्धात्मोपलम्भेतर- सकलनिरपेक्षतयैवाल्पलेपाप्यप्रतिषिद्धा; न पुनरल्पलेपेति सर्वत्र सर्वथैवाप्रतिषिद्धा, तत्र तथाप्रवृत्त्या शुद्धात्मवृत्तित्राणस्य परात्मनोरनुपपत्तेरिति ।।२५१।।
अथ प्रवृत्तेः कालविभागं दर्शयति —
शुद्धात्मभावनाविनाशकख्यातिपूजालाभवाञ्छारहितं यथा भवति । कथंभूतानां जैनानाम् । सागारणगार-
चरियजुत्ताणं सागारानागारचर्यायुक्तानां श्रावकतपोधनाचरणसहितानामित्यर्थः ।।२५१।। कस्मिन्प्रस्तावे
वैयावृत्त्यं कर्तव्यमित्युपदिशति — पडिवज्जदु प्रतिपद्यतां स्वीकरोतु । कया । आदसत्तीए स्वशक्त्या । स कः
कर्ता । साहू रत्नत्रयभावनया स्वात्मानं साधयतीति साधुः । कम् । समणं जीवितमरणादिसमपरिणाम-
के जेओ शुद्ध आत्मानां ज्ञान -दर्शनमां प्रवर्तती *वृत्तिने लीधे +साकार -अनाकार चर्यावाळा छे तेमना प्रत्ये — , शुद्धात्मानी उपलब्धि सिवाय बीजा बधानी अपेक्षा कर्या विना ज, ते प्रवृत्ति करवानो निषेध नथी; परंतु अल्प लेपवाळी छे तेथी बधा प्रत्ये बधाय प्रकारे ते प्रवृत्ति अनिषिद्ध छे एम नथी, कारण के त्यां (अर्थात् जो बधा प्रत्ये बधाय प्रकारे करवामां आवे तो) ते प्रकारनी प्रवृत्ति वडे परने अने पोताने शुद्धात्मपरिणतिनुं रक्षण बनी शकतुं नथी.
भावार्थः — अनुकंपापूर्वक परोपकारस्वरूप प्रवृत्तिथी अल्प लेप तो थाय छे, तोपण जो (१) शुद्ध आत्मानां ज्ञानदर्शनरूप चर्यावाळा शुद्ध जैनो प्रत्ये, तेम ज (२) शुद्धात्मानी उपलब्धिनी अपेक्षाथी ज, ते प्रवृत्ति करवामां आवती होय तो शुभोपयोगीने तेनो निषेध नथी. परंतु, जोके अनुकंपापूर्वक परोपकारस्वरूप प्रवृत्तिथी अल्प ज लेप थाय छे तोपण, (१) शुद्ध आत्मानां ज्ञानदर्शनरूप चर्यावाळा शुद्ध जैनो सिवाय बीजा प्रत्ये, तेम ज (२) शुद्धात्मानी उपलब्धि सिवाय बीजी कोई पण अपेक्षाथी, ते प्रवृत्ति करवानो शुभोपयोगीने निषेध छे, कारण के ए रीते परने के पोताने शुद्धात्मपरिणतिनी रक्षा थती नथी. २५१.
हवे प्रवृत्तिना काळनो विभाग दर्शावे छे (अर्थात् शुभोपयोगी श्रमणे कया वखते प्रवृत्ति करवायोग्य छे अने कया वखते प्रवृत्ति करवायोग्य नथी ते दर्शावे छे)ः —
*वृत्ति = परिणति; वर्तन; वर्तवुं ते. + ज्ञान साकार छे अने दर्शन अनाकार छे.
Page 464 of 513
PDF/HTML Page 495 of 544
single page version
यदा हि समधिगतशुद्धात्मवृत्तेः श्रमणस्य तत्प्रच्यावनहेतोः कस्याप्युपसर्गस्योपनिपातः स्यात्, स शुभोपयोगिनः स्वशक्त्या प्रतिचिकीर्षा प्रवृत्तिकालः । इतरस्तु स्वयं शुद्धात्मवृत्तेः समधिगमनाय केवलं निवृत्तिकाल एव ।।२५२।।
अथ लोकसम्भाषणप्रवृत्तिं सनिमित्तविभागं दर्शयति —
त्वाच्छ्रमणस्तं श्रमणम् । दिट्ठा दृष्टवा । कथंभूतम् । रूढं रूढं व्याप्तं पीडितं कदर्थितम् । केन । रोगेण वा अनाकुलत्वलक्षणपरमात्मनो विलक्षणेनाकुलत्वोत्पादकेन रोगेण व्याधिविशेषेण वा, छुधाए क्षुधया, तण्हाए वा तृष्णया वा, समेण वा मार्गोपवासादिश्रमेण वा । अत्रेदं तात्पर्यम् — स्वस्थभावनाविघातक- रोगादिप्रस्तावे वैयावृत्त्यं करोति, शेषकाले स्वकीयानुष्ठानं करोतीति ।।२५२।। अथ शुभोपयोगिनां तपोधनवैयावृत्त्यनिमित्तं लौकिकसंभाषणविषये निषेधो नास्तीत्युपदिशति — ण णिंदिदा शुभोपयोगि-
अन्वयार्थः — [रोगेण वा] रोगथी, [क्षुधया] क्षुधाथी, [तृष्णया वा] तृषाथी [श्रमेण वा] अथवा श्रमथी [रूढम्] आक्रांत [श्रमणं] श्रमणने [दृष्टवा] देखीने [साधुः] साधु [आत्मशक्त्या] पोतानी शक्ति अनुसार [प्रतिपद्यताम्] वैयावृत्त्यादिक करो.
टीकाः — ज्यारे शुद्धात्मपरिणतिने पामेला श्रमणने तेमांथी च्युत करे एवुं कारण — कोई पण उपसर्ग — आवी पडे, त्यारे ते काळ शुभोपयोगीने पोतानी शक्ति अनुसार *प्रतिकार करवानी इच्छारूप प्रवृत्तिनो काळ छे; अने ते सिवायनो काळ पोताने शुद्धात्मपरिणतिनी प्राप्ति माटे केवळ निवृत्तिनो काळ छे.
भावार्थः — ज्यारे शुद्धात्मपरिणतिने प्राप्त श्रमणने स्वस्थ भावनो नाश करनार रोगादिक आवी पडे, त्यारे ते प्रसंगे शुभोपयोगी साधुने तेमनी सेवानी इच्छारूप प्रवृत्ति होय छे, अने बाकीना काळे शुद्धात्मपरिणतिने प्राप्त करवा माटे निज अनुष्ठान होय छे. २५२.
हवे लोकनी साथे वातचीतनी प्रवृत्ति तेना निमित्तना विभाग सहित दर्शावे छे (अर्थात् शुभोपयोगी श्रमणे लोकनी साथे वातचीतनी प्रवृत्ति कया निमित्ते करवायोग्य छे अने कया निमित्ते करवायोग्य नथी ते कहे छे)ः —
*प्रतिकार = उपाय; सहाय.
Page 465 of 513
PDF/HTML Page 496 of 544
single page version
समधिगतशुद्धात्मवृत्तीनां ग्लानगुरुबालवृद्धश्रमणानां वैयावृत्त्यनिमित्तमेव शुद्धात्मवृत्ति- शून्यजनसम्भाषणं प्रसिद्धं, न पुनरन्यनिमित्तमपि ।।२५३।।
अथैवमुक्तस्य शुभोपयोगस्य गौणमुख्यविभागं दर्शयति — एसा पसत्थभूदा समणाणं वा पुणो घरत्थाणं । चरिया परेत्ति भणिदा ताएव परं लहदि सोक्खं ।।२५४।। तपोधनानां न निन्दिता, न निषिद्धा । का कर्मतापन्ना । लोगिगजणसंभासा लौकिकजनैः सह संभाषा वचनप्रवृत्तिः । सुहोवजुदा वा अथवा सापि शुभोपयोगयुक्ता भण्यते । किमर्थं न निषिद्धा । वेज्जावच्चणिमित्तं वैयावृत्त्यनिमित्तम् । केषां वैयावृत्त्यम् । गिलाणगुरुबालवुड्ढसमणाणं ग्लानगुरुबालवृद्धश्रमणानाम् । अत्र गुरुशब्देन स्थूलकायो भण्यते, अथवा पूज्यो वा गुरुरिति । तथाहि — यदा कोऽपि शुभोपयोगयुक्त आचार्यः सरागचारित्रलक्षणशुभोपयोगिनां वीतरागचारित्रलक्षणशुद्धोपयोगिनां वा वैयावृत्त्यं करोति, तदाकाले तद्वैयावृत्त्यनिमित्तं लौकिकजनैः सह संभाषणं करोति, न शेषकाल इति भावार्थः ।।२५३।। एवं गाथापञ्चकेन लौकिकव्याख्यानसंबन्धिप्रथमस्थलं गतम् । अथायं वैयावृत्त्यादिलक्षण- शुभोपयोगस्तपोधनैर्गौणवृत्त्या श्रावकैस्तु मुख्यवृत्त्या कर्तव्य इत्याख्याति — भणिदा भणिता कथिता । का कर्मतापन्ना । चरिया चर्या चारित्रमनुष्ठानम् । किंविशिष्टा । एसा एषा प्रत्यक्षीभूता । पुनश्च किंरूपा । पसत्थभूदा प्रशस्तभूता धर्मानुरागरूपा । केषां संबन्धिनी । समणाणं वा श्रमणानां वा पुणो घरत्थाणं
अन्वयार्थः — [वा] वळी [ग्लानगुरुबालवृद्धश्रमणानाम्] रोगी, गुरु ( – पूज्य, वडेरा), बाळ अने वृद्ध श्रमणोनी [वैयावृत्त्यनिमित्तं] सेवाना (वैयावृत्त्यना) निमित्ते, [शुभोपयुता] शुभोपयोगवाळी [लौकिकजनसम्भाषा] लौकिक जनो साथेनी वातचीत [न निन्दिता] निंदित नथी.
टीकाः — शुद्धात्मपरिणतिने पामेला रोगी, गुरु, बाळ अने वृद्ध श्रमणोनी सेवाना निमित्ते ज (शुभोपयोगी श्रमणने) शुद्धात्मपरिणतिशून्य जनो साथे वातचीत प्रसिद्ध छे ( – शास्त्रोमां अनिषिद्ध छे), परंतु बीजा निमित्ते पण प्रसिद्ध छे एम नथी. २५३.
हवे ए रीते कहेवामां आवेला शुभोपयोगनो गौण -मुख्य विभाग दर्शावे छे (अर्थात् कोने शुभोपयोग गौण होय छे अने कोने मुख्य होय छे ते कहे छे)ः —
Page 466 of 513
PDF/HTML Page 497 of 544
single page version
एवमेष शुद्धात्मानुरागयोगिप्रशस्तचर्यारूप उपवर्णितः शुभोपयोगः तदयं, शुद्धात्म- प्रकाशिकां समस्तविरतिमुपेयुषां कषायकणसद्भावात्प्रवर्तमानः, शुद्धात्मवृत्तिविरुद्धरागसङ्गत- त्वाद्गौणः श्रमणानां; गृहिणां तु, समस्तविरतेरभावेन शुद्धात्मप्रकाशनस्याभावात्कषायसद्भावा- त्प्रवर्तमानोऽपि, स्फ टिकसम्पर्केणार्कतेजस इवैधसां, रागसंयोगेन शुद्धात्मनोऽनुभवात् क्रमतः परमनिर्वाणसौख्यकारणत्वाच्च, मुख्यः ।।२५४।। गृहस्थानां वा पुनरियमेव चर्या परेत्ति परा सर्वोत्कृष्टेति । ताएव परं लहदि सोक्खं तयैव शुभोपयोगचर्यया परंपरया मोक्षसुखं लभते गृहस्थ इति । तथाहि — तपोधनाः शेषतपोधनानां वैयावृत्त्यं कुर्वाणाः सन्तः कायेन किमपि निरवद्यवैयावृत्त्यं कुर्वन्ति; वचनेन धर्मोपदेशं च । शेषमौषधान्नपानादिकं गृहस्थानामधीनं, तेन कारणेन वैयावृत्त्यरूपो धर्मो गृहस्थानां मुख्यः, तपोधनानां गौणः । द्वितीयं च कारणं — निर्विकारचिच्चमत्कारभावनाप्रतिपक्षभूतेन विषयकषायनिमित्तोत्पन्नेनार्तरौद्रदुर्ध्यानद्वयेन परिणतानां गृहस्थानामात्माश्रितनिश्चयधर्मस्यावकाशो नास्ति, वैयावृत्त्यादिधर्मेण दुर्ध्यानवञ्चना भवति, तपोधनसंसर्गेण निश्चयव्यवहारमोक्षमार्गोपदेशलाभो भवति । ततश्च परंपरया निर्वाणं लभन्ते इत्यभिप्रायः ।।२५४।। एवं शुभोपयोगितपोधनानां शुभानुष्ठानकथनमुख्यतया गाथाष्टकेन द्वितीयस्थलं
अन्वयार्थः — [एषा] आ [प्रशस्तभूता] प्रशस्तभूत [चर्या] चर्या [श्रमणानां] श्रमणोने (गौण) होय छे [वा गृहस्थानां पुनः] अने गृहस्थोने तो [परा] मुख्य होय छे [इति भणिता] एम (शास्त्रोमां) कह्युं छे; [तया एव] तेनाथी ज [परं सौख्यं लभते] (परंपराए) गृहस्थ परम सौख्यने पामे छे.
टीकाः — ए रीते शुद्धात्मानुरागयुक्त प्रशस्तचर्यारूप जे आ शुभोपयोग वर्णववामां आव्यो ते आ शुभोपयोग, शुद्धात्मानी प्रकाशक सर्वविरतिने पामेला श्रमणोने कषायकणना सद्भावने लीधे प्रवर्ततो, गौण होय छे, कारण के ते शुभोपयोग शुद्धात्मपरिणतिथी विरुद्ध एवा राग साथे संबंधवाळो छे; गृहस्थोने तो ते शुभोपयोग, सर्वविरतिना अभाव वडे *शुद्धात्मप्रकाशननो अभाव होवाथी कषायना सद्भावने लीधे प्रवर्ततो होवा छतां पण, मुख्य छे, कारण के — जेम इंधनने स्फटिकना संपर्कथी सूर्यना तेजनो अनुभव थाय छे (अने तेथी क्रमशः सळगी ऊठे छे) तेम — गृहस्थने रागना संयोगथी शुद्धात्मानो अनुभव थाय छे अने (तेथी ते शुभोपयोग) क्रमशः परम निर्वाणसौख्यनुं कारण थाय छे.
भावार्थः — दर्शन -अपेक्षाए तो श्रमणने तेम ज सम्यग्द्रष्टि गृहस्थने शुद्धात्मानो
*चारित्रदशामां वर्ततुं जे उग्र शुद्धात्मप्रकाशन तेने ज अहीं शुद्धात्मप्रकाशन गण्युं छे; तेनो सम्यग्द्रष्टि
गृहस्थने अभाव छे. बाकी दर्शन -अपेक्षाए तो सम्यग्द्रष्टि गृहस्थने पण शुद्धात्मानुं प्रकाशन छे ज.
Page 467 of 513
PDF/HTML Page 498 of 544
single page version
अथ शुभोपयोगस्य कारणवैपरीत्यात् फलवैपरीत्यं साधयति —
यथैकेषामपि बीजानां भूमिवैपरीत्यान्निष्पत्तिवैपरीत्यं, तथैकस्यापि प्रशस्तरागलक्षणस्य
शुभोपयोगस्य पात्रवैपरीत्यात्फलवैपरीत्यं, कारणविशेषात्कार्यविशेषस्यावश्यंभावित्वात् ।२५५।
गतम् । इत ऊर्ध्वं गाथाषटकपर्यन्तं पात्रापात्रपरीक्षामुख्यत्वेन व्याख्यानं करोति । अथ शुभोपयोगस्य
पात्रभूतवस्तुविशेषात्फलविशेषं दर्शयति — फलदि फलति, फलं ददाति । स कः । रागो रागः ।
कथंभूतः । पसत्थभूदो प्रशस्तभूतो दानपूजादिरूपः । किं फलति । विवरीदं विपरीतमन्यादृशं भिन्न-
भिन्नफलम् । केन करणभूतेन । वत्थुविसेसेण जघन्यमध्यमोत्कृष्टभेदभिन्नपात्रभूतवस्तुविशेषेण । अत्रार्थे
ज आश्रय छे. परंतु चारित्र -अपेक्षाए श्रमणने मुनियोग्य शुद्धात्मपरिणति मुख्य होवाथी शुभोपयोग गौण छे अने सम्यग्द्रष्टि गृहस्थने मुनियोग्य शुद्धात्मपरिणतिने नहि पहोंचातुं होवाथी अशुभवंचनार्थे शुभोपयोग मुख्य छे. सम्यग्द्रष्टि गृहस्थने अशुभथी ( – विशेष अशुद्ध परिणतिथी) छूटवा माटे वर्ततो जे आ शुभोपयोगनो पुरुषार्थ ते पण शुद्धिनो ज मंद पुरुषार्थ छे, कारण के शुद्धात्मद्रव्यना मंद आलंबनथी अशुभ परिणति पलटाईने शुभ परिणति थाय छे अने शुद्धात्मद्रव्यना उग्र आलंबनथी शुभ परिणति पण पलटाईने शुद्ध परिणति थाय छे. २५४.
हवे शुभोपयोगने कारणनी विपरीतताथी फळनी विपरीतता होय छे एम सिद्ध करे छेः –
अन्वयार्थः — [इह नानाभूमिगतानि बीजानि इव] जेम आ जगतमां अनेक प्रकारनी भूमिमां पडेलां बीज [सस्यकाले] धान्यकाळे विपरीतपणे फळे छे, तेम [प्रशस्तभूतः रागः] प्रशस्त राग [वस्तुविशेषेण] वस्तुभेदथी ( – पात्रना भेदथी) [विपरीतं फलति] विपरीतपणे फळे छे.
टीकाः — जेम बीज तेनां ते ज होवा छतां पण भूमिनी विपरीतताथी निष्पत्तिनी विपरीतता होय छे (अर्थात् सारी भूमिमां धान्य सारुं पाके छे अने खराब भूमिमां धान्य खराब थई जाय छे अथवा पाकतुं ज नथी), तेम प्रशस्तरागस्वरूप शुभोपयोग तेनो ते ज होवा छतां पण पात्रनी विपरीतताथी फळनी विपरीतता होय छे केम के कारणना भेदथी कार्यनो भेद अवश्यंभावी (अनिवार्य) छे. २५५.
Page 468 of 513
PDF/HTML Page 499 of 544
single page version
अथ कारणवैपरीत्यफलवैपरीत्ये दर्शयति — छदुमत्थविहिदवत्थुसु वदणियमज्झयणझाणदाणरदो ।
शुभोपयोगस्य सर्वज्ञव्यवस्थापितवस्तुषु प्रणिहितस्य पुण्योपचयपूर्वकोऽपुनर्भावोपलम्भः किल फलं; तत्तु कारणवैपरीत्याद्विपर्यय एव । तत्र छद्मस्थव्यवस्थापितवस्तूनि कारणवैपरीत्यं; तेषु व्रतनियमाध्ययनध्यानदानरतत्वप्रणिहितस्य शुभोपयोगस्यापुनर्भावशून्यकेवलपुण्यापसद- प्राप्तिः फलवैपरीत्यं; तत्सुदेवमनुजत्वम् ।।२५६।। द्रष्टान्तमाह — णाणाभूमिगदाणिह बीजाणिव सस्सकालम्हि नानाभूमिगतानीह बीजानि इव सस्यकाले धान्य- निष्पत्तिकाल इति । अयमत्रार्थः — यथा जघन्यमध्यमोत्कृष्टभूमिविशेषेण तान्येव बीजानि भिन्नभिन्न- फलं प्रयच्छन्ति, तथा स एव बीजस्थानीयशुभोपयोगो भूमिस्थानीयपात्रभूतवस्तुविशेषेण भिन्नभिन्न- फलं ददाति । तेन किं सिद्धम् । यदा पूर्वसूत्रकथितन्यायेन सम्यक्त्वपूर्वकः शुभोपयोगो भवति तदा मुख्यवृत्त्या पुण्यबन्धो भवति, परंपरया निर्वाणं च । नो चेत्पुण्यबन्धमात्रमेव ।।२५५।। अथ कारण- वैपरीत्याफलमपि विपरीतं भवतीति तमेवार्थं द्रढयति — ण लहदि न लभते । स कः कर्ता । वद-
हवे कारणनी विपरीतता अने फळनी विपरीतता दर्शावे छेः —
अन्वयार्थः — [छद्मस्थविहितवस्तुषु] जे जीव छद्मस्थविहित वस्तुओने विषे (छद्मस्थे – अज्ञानीए कहेला देवगुरुधर्मादिने विषे) [व्रतनियमाध्ययनध्यानदानरतः] व्रत -नियम -अध्ययन- ध्यान -दानमां रत होय ते जीव [अपुनर्भावं] मोक्षने [न लभते] पामतो नथी, [सातात्मकं भावं] शातात्मक भावने [लभते] पामे छे.
टीकाः — सर्वज्ञस्थापित वस्तुओमां जोडेला शुभोपयोगनुं फळ पुण्यसंचयपूर्वक मोक्षनी प्राप्ति छे. ते फळ, कारणनी विपरीतता थवाथी विपरीत ज थाय छे. त्यां, छद्मस्थ- स्थापित वस्तुओ ते कारणविपरीतता छे; तेमां व्रत -नियम -अध्ययन -ध्यान -दानरतपणे जोडेला शुभोपयोगनुं फळ जे मोक्षशून्य केवळ +पुण्यापसदनी प्राप्ति ते फलविपरीतता छे; ते फळ सुदेवमनुष्यपणुं छे. २५६.
+पुण्यापसद = पुण्य -अपसद; अधम पुण्य; हत पुण्य.
Page 469 of 513
PDF/HTML Page 500 of 544
single page version
अथ कारणवैपरीत्यफलवैपरीत्ये एव व्याख्याति — अविदिदपरमत्थेसु य विसयकसायाधिगेसु पुरिसेसु ।
यानि हि छद्मस्थव्यवस्थापितवस्तूनि कारणवैपरीत्यं; ते खलु शुद्धात्मपरिज्ञानशून्य- तयानवाप्तशुद्धात्मवृत्तितया चाविदितपरमार्था विषयकषायाधिकाः पुरुषाः । तेषु शुभोपयोगा- त्मकानां जुष्टोपकृतदत्तानां या केवलपुण्यापसदप्राप्तिः फलवैपरीत्यं; तत्कुदेवमनुजत्वम् ।।२५७।। णियमज्झयणझाणदाणरदो व्रतनियमाध्ययनध्यानदानरतः । केषु विषये यानि व्रतादीनि । छदुमत्थविहिदवत्थुसु छद्मस्थविहितवस्तुषु अल्पज्ञानिपुरुषव्यवस्थापितपात्रभूतवस्तुषु । इत्थंभूतः पुरुषः कं न लभते । अपुणब्भावं अपुनर्भवशब्दवाच्यं मोक्षम् । तर्हि किं लभते । भावं सादप्पगं लहदि भावं सातात्मकं लभते । भावशब्देन सुदेवमनुष्यत्वपर्यायो ग्राह्यः । स च कथंभूतः । सातात्मकः सद्वेद्योदयरूप इति । तथाहि – ये केचन निश्चयव्यवहारमोक्षमार्गं न जानन्ति, पुण्यमेव मुक्तिकारणं भणन्ति, ते छद्मस्थशब्देन गृह्यन्ते, न च गणधरदेवादयः । तैः छद्मस्थैरज्ञानिभिः शुद्धात्मोपदेशशून्यैर्ये दीक्षितास्तानि छद्मस्थविहितवस्तूनि भण्यन्ते । तत्पात्रसंसर्गेण यद्व्रतनियमाध्ययनदानादिकं करोति तदपि शुद्धात्मभावनानुकूलं न भवति, ततः कारणान्मोक्षं न लभते । सुदेवमनुष्यत्वं लभत इत्यर्थः ।।२५६।। अथ सम्यक्त्वव्रतरहितपात्रेषु भक्तानां कुदेवमनुजत्वं भवतीति प्रतिपादयति — फलदि फलति । केषु । कुदेवेसु मणुवेसु कुत्सितदेवेषु
हवे (आ गाथामां पण) कारणविपरीतता अने फळविपरीतता ज समजावे छेः —
अन्वयार्थः — [अविदितपरमार्थेषु] जेमणे परमार्थने जाण्यो नथी [च] अने [विषयकषायाधिकेषु] जेओ विषयकषाये अधिक छे [पुरुषेषु] एवा पुरुषो प्रत्येनी [जुष्टं कृतं वा दत्तं] सेवा, उपकार के दान [कुदेवेषु मनुजेषु] कुदेवपणे अने कुमनुष्यपणे [फलति] फळे छे.
टीकाः — जे छद्मस्थस्थापित वस्तुओ ते कारणविपरीतता छे; ते (विपरीत कारणो) खरेखर (१) शुद्धात्माना ज्ञानथी शून्यपणाने लीधे ‘परमार्थना अजाण’ अने (२) शुद्धात्म- परिणतिने नहि प्राप्त करी होवाने लीधे ‘विषयकषाये अधिक’ एवा पुरुषो छे. तेमना प्रत्ये शुभोपयोगात्मक जीवोने — सेवा, उपकार के दान करनारा जीवोने — जे केवळ पुण्यापसदनी प्राप्ति ते फळविपरीतता छे; ते (फळ) कुदेव -मनुष्यपणुं छे. २५७.