Page 30 of 513
PDF/HTML Page 61 of 544
single page version
यथाहि जात्यजाम्बूनदस्याङ्गदपर्यायेणोत्पत्तिद्रर्ष्टा, पूर्वव्यवस्थिताङ्गुलीयकादिपर्यायेण च शुद्धव्यञ्जनपर्यायापेक्षया सिद्धपर्यायेणोत्पादः, संसारपर्यायेण विनाशः, केवलज्ञानादिगुणाधारद्रव्यत्वेन ध्रौव्यमिति । ततः स्थितं द्रव्यार्थिकनयेन नित्यत्वेऽपि पर्यायार्थिकनयेनोत्पादव्ययध्रौव्यत्रयं संभवतीति ।।१७।। अथोत्पादादित्रयं यथा सुवर्णादिमूर्तपदार्थेषु दृश्यते तथैवामूर्तेऽपि सिद्धस्वरूपे विज्ञेयं पदार्थत्वादिति निरूपयति — उप्पादो य विणासो विज्जदि सव्वस्स अट्ठजादस्स उत्पादश्च विनाशश्च विद्यते तावत्सर्वस्यार्थजातस्य पदार्थसमूहस्य । केन कृत्वा । पज्जाएण दु केणवि पर्यायेण तु केनापि विवक्षितेनार्थव्यञ्जनरूपेण स्वभावविभावरूपेण वा । स चार्थः किंविशिष्टः । अट्ठो खलु होदि सब्भूदो अर्थः खलु स्फु टं सत्ताभूतः सत्ताया अभिन्नो भवतीति । तथाहि — सुवर्णगोरसमृत्तिकापुरुषादिमूर्त- पदार्थेषु यथोत्पादादित्रयं लोके प्रसिद्धं तथैवामूर्तेऽपि मुक्तजीवे । यद्यपि शुद्धात्मरुचिपरिच्छित्ति-
हवे उत्पाद आदि त्रय (उत्पाद, व्यय अने ध्रौव्य) सर्व द्रव्योने साधारण होवाथी शुद्ध आत्माने (केवळीभगवानने अने सिद्धभगवानने) पण १अवश्यंभावी छे एम व्यक्त करे छेः —
अन्वयार्थः — [उत्पादः] कोई पर्यायथी उत्पाद [विनाशः च] अने कोई पर्यायथी विनाश [सर्वस्य] सर्व [अर्थजातस्य] पदार्थमात्रने [विद्यते] होय छे; [केन अपि पर्यायेण तु] वळी कोई पर्यायथी [अर्थः] पदार्थ [सद्भूतः खलु भवति] खरेखर ध्रुव छे.
टीकाः — जेम उत्तम सुवर्णने बाजुबंधरूप पर्यायथी उत्पत्ति जोवामां आवे छे, पूर्व अवस्थारूपे वर्तता वींटी वगेरे पर्यायथी विनाश जोवामां आवे छे अने पीळाश वगेरे १. अवश्यंभावी = जरूर होनार; अपरिहार्य.
Page 31 of 513
PDF/HTML Page 62 of 544
single page version
विनाशः, पीततादिपर्यायेण तूभयत्राप्युत्पत्तिविनाशावनासादयतः ध्रुवत्वम्; एवमखिलद्रव्याणां केनचित्पर्यायेणोत्पादः केनचिद्विनाशः केनचिद्ध्र्रौव्यमित्यवबोद्धव्यम् । अतः शुद्धात्मनोऽप्युत्पा- दादित्रयरूपं द्रव्यलक्षणभूतमस्तित्वमवश्यंभावि ।।१८।। निश्चलानुभूतिलक्षणस्य संसारावसानोत्पन्नकारणसमयसारपर्यायस्य विनाशो भवति तथैव केवल- ज्ञानादिव्यक्तिरूपस्य कार्यसमयसारपर्यायस्योत्पादश्च भवति, तथाप्युभयपर्यायपरिणतात्मद्रव्यत्वेन ध्रौव्यत्वं पदार्थत्वादिति । अथवा यथा ज्ञेयपदार्थाः प्रतिक्षणं भङ्गत्रयेण परिणमन्ति तथा ज्ञानमपि परिच्छित्त्यपेक्षया भङ्गत्रयेण परिणमति । षट्स्थानगतागुरुलघुकगुणवृद्धिहान्यपेक्षया वा भङ्गत्रयमव- बोद्धव्यमिति सूत्रतात्पर्यम् ।।१८।। एवं सिद्धजीवे द्रव्यार्थिकनयेन नित्यत्वेऽपि विवक्षितपर्यायेणोत्पाद- व्ययध्रौव्यस्थापनरूपेण द्वितीयस्थले गाथाद्वयं गतम् । अथ तं पूर्वोक्तसर्वज्ञं ये मन्यन्ते ते सम्यग्दृष्टयो भवन्ति, परम्परया मोक्षं च लभन्त इति प्रतिपादयति —
तं सव्वट्ठवरिट्ठं तं सर्वार्थवरिष्ठं इट्ठं इष्टमभिमतं । कैः । अमरासुरप्पहाणेहिं अमरासुरप्रधानैः । ये सद्दहंति ये श्रद्दधति रोचन्ते जीवा भव्यजीवाः । तेसिं तेषाम् । दुक्खाणि वीतरागपारमार्थिक- सुखविलक्षणानि दुःखानि । खीयंति विनाशं गच्छन्ति, इति सूत्रार्थः ।।“ “ “ “ “
पर्यायथी तो बन्नेमां (बाजुबंधमां ने वींटीमां) उत्पत्ति -विनाश नहि पामतुं होवाथी ध्रुवपणुं जोवामां आवे छे, तेम सर्व द्रव्योने कोई पर्यायथी उत्पाद, कोई पर्यायथी विनाश अने कोई पर्यायथी ध्रौव्य होय छे एम जाणवुं. आथी (एम कह्युं के) शुद्ध आत्माने पण उत्पाद- व्यय -ध्रौव्यरूप अस्तित्व के जे द्रव्यनुं लक्षण छे ते अवश्यंभावी छे.
भावार्थः — द्रव्यनुं लक्षण अस्तित्व छे अने अस्तित्व उत्पाद -व्यय -ध्रौव्यरूप छे. माटे कोई पर्यायथी उत्पाद, कोई पर्यायथी विनाश अने कोई पर्यायथी ध्रुवपणुं दरेक पदार्थने होय छे.
अहीं प्रश्न संभवे छे केः ‘द्रव्यनुं अस्तित्व उत्पाद वगेरे त्रणथी केम कह्युं? एक ध्रौव्यथी ज कहेवुं जोईए; कारण के जे ध्रुव रहे ते सदा हयात रही शके छे.’ आ प्रश्ननुं समाधान आ प्रमाणे छेः जो पदार्थ ध्रुव ज होय तो माटी, सोनुं, दूध वगेरे समस्त पदार्थो एक ज सादा आकारे रहेवा जोईए; घडो, कुंडळ, दहीं वगेरे भेदो कदी न थवा १. आवी जे जे गाथाओ श्री अमृतचंद्राचार्यदेवविरचित तत्त्वप्रदीपिका टीकामां नथी परंतु श्री
जुदा नंबर आपवामां आव्या छे.
Page 32 of 513
PDF/HTML Page 63 of 544
single page version
अथास्यात्मनः शुद्धोपयोगानुभावात्स्वयंभुवो भूतस्य कथमिन्द्रियैर्विना ज्ञानानन्दाविति संदेहमुदस्यति —
निर्दोषिपरमात्मश्रद्धानान्मोक्षो भवतीति कथनरूपेण तृतीयस्थले गाथा गता ।। अथास्यात्मनो निर्विकारस्वसंवेदनलक्षणशुद्धोपयोगप्रभावात्सर्वज्ञत्वे सतीन्द्रियैर्विना कथं ज्ञानानन्दाविति पृष्टे प्रत्युत्तरं ददाति — पक्खीणघादिकम्मो ज्ञानाद्यनन्तचतुष्टयस्वरूपपरमात्मद्रव्यभावनालक्षणशुद्धोपयोगबलेन प्रक्षीण- घातिकर्मा सन् । अणंतवरवीरिओ अनन्तवरवीर्यः । पुनरपि किंविशिष्टः । अहियतेजो अधिकतेजाः । अत्र तेजः शब्देन केवलज्ञानदर्शनद्वयं ग्राह्यम् । जादो सो स पूर्वोक्तलक्षण आत्मा जातः संजातः । कथंभूतः । अणिंदियो अनिन्द्रिय इन्द्रियविषयव्यापाररहितः । अनिन्द्रियः सन् किं करोति । णाणं सोक्खं च परिणमदि केवलज्ञानमनन्तसौख्यं च परिणमतीति । तथाहि — अनेन व्याख्यानेन किमुक्तं भवति । आत्मा जोईए. परंतु एम तो बनतुं नथी अर्थात् भेदो तो जरूर जोवामां आवे छे. माटे पदार्थ सर्वथा ध्रुव न रहेतां कोई अवस्थाथी ऊपजे पण छे अने कोई अवस्थाथी नाश पण पामे छे. जो एम न मानवामां आवे तो संसारनो ज लोप थाय.
आम दरेक द्रव्य उत्पाद -व्यय -ध्रौव्यमय होवाथी मुक्त आत्माने पण उत्पाद -व्यय- ध्रौव्य अवश्य होय छे. स्थूलताथी जोईए तो, सिद्धपर्यायनो उत्पाद थयो, संसारपर्यायनो व्यय थयो अने आत्मापणुं ध्रुव रह्युं — ए अपेक्षाए मुक्त आत्माने उत्पाद -व्यय -ध्रौव्य छे. अथवा, मुक्त आत्मानुं ज्ञान ज्ञेय पदार्थोना आकारे थया करे छे तेथी सर्व ज्ञेय पदार्थोमां जे जे प्रकारे उत्पादादि थाय छे ते ते प्रकारे ज्ञानमां उत्पादादि थया करे छे, माटे मुक्त आत्माने समये समये उत्पाद -व्यय -ध्रौव्य होय छे. अथवा वधारे सूक्ष्मताथी जोईए तो, अगुरुलघुगुणमां थती षट्गुण हानिवृद्धिने लीधे मुक्त आत्मामां समये समये उत्पाद -व्यय- ध्रौव्य वर्ते छे. अहीं जेम सिद्धभगवाननां उत्पादादि कह्यां तेम केवळीभगवाननां पण यथायोग्य समजी लेवां. १८.
हवे शुद्धोपयोगना प्रभावथी स्वयंभू थयेला आ (पूर्वोक्त) आत्माने इन्द्रियो विना कई रीते ज्ञान अने आनंद होय एवा संदेहनुं निराकरण करे छेः —
Page 33 of 513
PDF/HTML Page 64 of 544
single page version
अयं खल्वात्मा शुद्धोपयोगसामर्थ्यात् प्रक्षीणघातिकर्मा, क्षायोपशमिकज्ञान- दर्शनासंपृक्तत्वादतीन्द्रियो भूतः सन्निखिलान्तरायक्षयादनन्तवरवीर्यः, कृत्स्नज्ञानदर्शनावरण- प्रलयादधिक के वलज्ञानदर्शनाभिधानतेजाः, समस्तमोहनीयाभावादत्यन्तनिर्विकारशुद्धचैतन्य- स्वभावमात्मानमासादयन् स्वयमेव स्वपरप्रकाशकत्वलक्षणं ज्ञानमनाकु लत्वलक्षणं सौख्यं च भूत्वा परिणमते । एवमात्मनो ज्ञानानन्दौ स्वभाव एव । स्वभावस्य तु परानपेक्षत्वादिन्द्रियै- र्विनाप्यात्मनो ज्ञानानन्दौ संभवतः ।।१९।। तावन्निश्चयेनानन्तज्ञानसुखस्वभावोऽपि व्यवहारेण संसारावस्थायां कर्मप्रच्छादितज्ञानसुखः सन् पश्चादिन्द्रियाधारेण किमप्यल्पज्ञानं सुखं च परिणमति । यदा पुनर्निर्विकल्पस्वसंवित्तिबलेन कर्माभावो भवति तदा क्षयोपशमाभावादिन्द्रियाणि न सन्ति स्वकीयातीन्द्रियज्ञानं सुखं चानुभवति । ततः स्थितं इन्द्रियाभावेऽपि स्वकीयानन्तज्ञानं सुखं चानुभवति । तदपि कस्मात् । स्वभावस्य परापेक्षा नास्तीत्यभिप्रायः ।।१९।। अथातीन्द्रियत्वादेव केवलिनः शरीराधारोद्भूतं भोजनादिसुखं क्षुधादिदुःखं च नास्तीति विचारयति — सोक्खं वा पुण दुक्खं केवलणाणिस्स णत्थि सुखं वा पुनर्दुःखं वा केवलज्ञानिनो
अन्वयार्थः — [प्रक्षीणघातिकर्मा] जेनां घातिकर्मो क्षय पाम्यां छे, [अतीन्द्रियः जातः] जे अतीन्द्रिय थयो छे, [अनंतवरवीर्यः] अनंत जेनुं उत्तम वीर्य छे अने [अधिकतेजाः] १अधिक जेनुं (केवळज्ञान अने केवळदर्शनरूप) तेज छे [सः] एवो ते (स्वयंभू आत्मा) [ज्ञानं सौख्यं च] ज्ञान अने सुखरूपे [परिणमति] परिणमे छे.
टीकाः — शुद्धोपयोगना सामर्थ्यथी जेनां घातिकर्मो क्षय पाम्यां छे, क्षायोपशमिक ज्ञान -दर्शन साथे असंपृक्त (संपर्क विनानो) होवाथी जे अतीन्द्रिय थयो छे, समस्त अंतरायनो क्षय थयो होवाथी अनंत जेनुं उत्तम वीर्य छे, समस्त ज्ञानावरण अने दर्शनावरणनो प्रलय थयो होवाथी अधिक जेनुं केवळज्ञान अने केवळदर्शन नामनुं तेज छे — एवो आ (स्वयंभू) आत्मा, समस्त मोहनीयना अभावने लीधे अत्यंत निर्विकार शुद्ध चैतन्य- स्वभाववाळा आत्माने ( – अत्यंत निर्विकार शुद्ध चैतन्य जेनो स्वभाव छे एवा आत्माने) अनुभवतो थको स्वयमेव (पोते ज) स्वपरप्रकाशकतालक्षण ज्ञान अने अनाकुळतालक्षण सुख थईने परिणमे छे. आ रीते आत्मानो, ज्ञान अने आनंद स्वभाव ज छे. अने स्वभाव तो परथी २अनपेक्ष होवाथी इन्द्रियो विना पण आत्माने ज्ञान अने आनंद होय छे. १. अधिक = उत्कृष्ट; असाधारण; अत्यंत. २. अनपेक्ष = स्वतंत्र; उदासीन; अपेक्षा विनानो. प्र. ५
Page 34 of 513
PDF/HTML Page 65 of 544
single page version
नास्ति । कथंभूतम् । देहगदं देहगतं देहाधारजिह्वेन्द्रियादिसमुत्पन्नं कवलाहारादिसुखम्, असातोदयजनितं क्षुधादिदुःखं च । कस्मान्नास्ति । जम्हा अदिंदियत्तं जादं यस्मान्मोहादिघातिकर्माभावे पञ्चेन्द्रिय- विषयव्यापाररहितत्वं जातम् । तम्हा दु तं णेयं तस्मादतीन्द्रियत्वाद्धेतोरतीन्द्रियमेव तज्ज्ञानं सुखं च ज्ञेयमिति । तद्यथा — लोहपिण्डसंसर्गाभावादग्निर्यथा घनघातपिट्टनं न लभते तथायमात्मापि लोहपिण्ड- स्थानीयेन्द्रियग्रामाभावात् सांसारिकसुखदुःखं नानुभवतीत्यर्थः । कश्चिदाह – केवलिनां भुक्तिरस्ति, औदारिकशरीरसद्भावात् । असद्वेद्यकर्मोदयसद्भावाद्वा । अस्मदादिवत् । परिहारमाह — तद्भगवतः शरीर- मौदारिकं न भवति किंतु परमौदारिकम् । तथा चोक्तं – ‘‘शुद्धस्फ टिकसंकाशं तेजोमूर्तिमयं वपुः । जायते क्षीणदोषस्य सप्तधातुविवर्जितम्’’ ।। यच्चोक्तमसद्वेद्योदयसद्भावात्तत्र परिहारमाह — यथा व्रीह्यादिबीजं जलसहकारिकारणसहितमङ्कुरादिकार्यं जनयति तथैवासद्वेद्यकर्म मोहनीयसहकारिकारणसहितं क्षुधादि- कार्यमुत्पादयति । क स्मात् । ‘मोहस्स बलेण घाददे जीवं’ इति वचनात् । यदि पुनर्मोहाभावेऽपि क्षुधादिपरीषहं जनयति तर्हि वधरोगादिपरीषहमपि जनयतु, न च तथा । तदपि कस्मात् । ‘भुक्त्युपसर्गाभावात्’ इति वचनात् । अन्यदपि दूषणमस्ति । यदि क्षुधाबाधास्ति तर्हि क्षुधाक्षीणशक्तेरनन्तवीर्यं नास्ति । तथैव क्षुधादुःखितस्यानन्तसुखमपि नास्ति । जिह्वेन्द्रियपरिच्छित्ति- रूपमतिज्ञानपरिणतस्य केवलज्ञानमपि न संभवति । अथवा अन्यदपि कारणमस्ति । असद्वेद्योदयापेक्षया सद्वेद्योदयोऽनन्तगुणोऽस्ति । ततः कारणात् शर्कराराशिमध्ये निम्बकणिकावदसद्वेद्योदयो विद्यमानोऽपि न ज्ञायते । तथैवान्यदपि बाधकमस्ति — यथा प्रमत्तसंयतादितपोधनानां वेदोदये विद्यमानेऽपि मन्दमोहोदयत्वादखण्डब्रह्मचारिणां स्त्रीपरीषहबाधा नास्ति, यथैव च नवग्रैवेयकाद्यहमिन्द्रदेवानां
भावार्थः — आत्माने ज्ञान अने सुखरूपे परिणमवामां इन्द्रियादि पर निमित्तोनी जरूर नथी; कारण के स्वपरनुं प्रकाशकपणुं जेनुं लक्षण अर्थात् स्वरूप छे एवुं ज्ञान अने अनाकुळपणुं जेनुं लक्षण छे एवुं सुख आत्मानो स्वभाव ज छे. १९.
हवे अतीन्द्रियपणाने लीधे ज शुद्ध आत्माने (केवळीभगवानने) शारीरिक सुखदुःख नथी एम व्यक्त करे छेः —
Page 35 of 513
PDF/HTML Page 66 of 544
single page version
वेदोदये विद्यमानेऽपि मन्दमोहोदयेन स्त्रीविषयबाधा नास्ति, तथा भगवत्यसद्वेद्योदये विद्यमानेऽपि निरवशेषमोहाभावात् क्षुधाबाधा नास्ति । यदि पुनरुच्यते भवद्भि ::::: — मिथ्यादृष्टयादिसयोग- केवलिपर्यन्तास्त्रयोदशगुणस्थानवर्तिनो जीवा आहारका भवन्तीत्याहारकमार्गणायामागमे भणितमास्ते, ततः कारणात् केवलिनामाहारोऽस्तीति । तदप्ययुक्तम् । ‘‘णोकम्म -कम्महारो कवलाहारो य लेप्पमाहारो । ओजमणो वि य कमसो आहारो छव्विहो णेयो’’ ।। इति गाथाकथितक्रमेण यद्यपि षट्प्रकार आहारो भवति तथापि नोकर्माहारापेक्षया केवलिनामाहारकत्वमवबोद्धव्यम् । न च कवलाहारापेक्षया । तथाहि — सूक्ष्माः सुरसाः सुगन्धा अन्यमनुजानामसंभविनः कवलाहारं विनापि किञ्चिदूनपूर्वकोटिपर्यन्तं शरीरस्थितिहेतवः सप्तधातुरहितपरमौदारिकशरीरनोकर्माहारयोग्या लाभान्त- रायकर्मनिरवशेषक्षयात् प्रतिक्षणं पुद्गला आस्रवन्तीति नवकेवललब्धिव्याख्यानकाले भणितं तिष्ठति । ततो ज्ञायते नोकर्माहारापेक्षया केवलिनामाहारकत्वम् । अथ मतम् – भवदीयकल्पनया आहारानाहारकत्वं नोकर्माहारापेक्षया, न च कवलाहारापेक्षया चेति कथं ज्ञायते । नैवम् । ‘‘एकं द्वौ त्रीन् वानाहारकः’’ इति तत्त्वार्थे कथितमास्ते । अस्य सूत्रस्यार्थः कथ्यते — भवान्तरगमनकाले विग्रहगतौ शरीराभावे सति नूतनशरीरधारणार्थं त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलपिण्डग्रहणं नोकर्माहार उच्यते । स च विग्रहगतौ कर्माहारे विद्यमानेऽप्येकद्वित्रिसमयपर्यन्तं नास्ति । ततो नोकर्माहारापेक्षयाऽऽहारा- नाहारकत्वमागमे ज्ञायते । यदि पुनः कवलाहारापेक्षया तर्हि भोजनकालं विहाय सर्वदैवानाहारक एव, समयत्रयनियमो न घटते । अथ मतम् – केवलिनां कवलाहारोऽस्ति मनुष्यत्वात् वर्तमानमनुष्यवत् । तदप्ययुक्त म् । तर्हि पूर्वकालपुरुषाणां सर्वज्ञत्वं नास्ति, रामरावणादिपुरुषाणां च विशेषसामर्थ्यं नास्ति वर्तमानमनुष्यवत् । न च तथा । किंच छद्मस्थतपोधना अपि सप्तधातुरहितपरमौदारिकशरीराभावे ‘छट्ठो त्ति पढमसण्णा’ इति वचनात् प्रमत्तसंयतषष्ठगुणस्थानवर्तिनो यद्यप्याहारं गृह्णन्ति तथापि ज्ञानसंयम- ध्यानसिद्धयर्थं, न च देहममत्वार्थम् । उक्तं च — ‘‘कायस्थित्यर्थमाहारः कायो ज्ञानार्थमिष्यते । ज्ञानं कर्मविनाशाय तन्नाशे परमं सुखम्’’ ।। ‘‘ण बलाउसाहणट्ठं ण सरीरस्स य चयट्ठ तेजट्ठं । णाणट्ठ संजमट्ठं झाणट्ठं चेव भुंजंति ।।’’ तस्य भगवतो ज्ञानसंयमध्यानादिगुणाः स्वभावेनैव तिष्ठन्ति न चाहारबलेन । यदि पुनर्देहममत्वेनाहारं गृह्णाति तर्हि छद्मस्थेभ्योऽप्यसौ हीनः प्राप्नोति । अथोच्यते — तस्यातिशयविशेषात्प्रकटा भुक्तिर्नास्ति प्रच्छन्ना विद्यते । तर्हि परमौदारिकशरीरत्वाद्भुक्तिरेव नास्त्ययमेवातिशयः किं न भवति । तत्र तु प्रच्छन्नभुक्तौ मायास्थानं दैन्यवृत्तिः, अन्येऽपि पिण्डशुद्धिकथिता दोषा बहवो भवन्ति । ते चान्यत्र तर्कशास्त्रे ज्ञातव्याः । अत्र
अन्वयार्थः — [केवलज्ञानिनः] केवळज्ञानीने [देहगतं] शरीर संबंधी [सौख्यं] सुख [वा पुनः दुःखं] के दुःख [नास्ति] नथी. [यस्मात्] कारण के [अतीन्द्रियत्वं जातं] अतीन्द्रियपणुं थयुं छे [तस्मात् तु तत् ज्ञेयम्] तेथी एम जाणवुं.
Page 36 of 513
PDF/HTML Page 67 of 544
single page version
यत एव शुद्धात्मनो जातवेदस इव कालायसगोलोत्कूलितपुद्गलाशेषविलासकल्पो नास्तीन्द्रियग्रामस्तत एव घोरघनघाताभिघातपरम्परास्थानीयं शरीरगतं सुखदुःखं न स्यात् ।।२०।।
अथ ज्ञानस्वरूपप्रपञ्चं सौख्यस्वरूपप्रपञ्चं च क्रमप्रवृत्तप्रबन्धद्वयेनाभिदधाति । तत्र केवलिनोऽतीन्द्रियज्ञानपरिणतत्वात्सर्वं प्रत्यक्षं भवतीति विभावयति —
चाध्यात्मग्रन्थत्वान्नोच्यन्त इति । अयमत्र भावार्थः — इदं वस्तुस्वरूपमेव ज्ञातव्यमत्राग्रहो न कर्तव्यः । कस्मात् । दुराग्रहे सति रागद्वेषोत्पत्तिर्भवति ततश्च निर्विकारचिदानन्दैकस्वभावपरमात्मभावनाविघातो भवतीति ।।२०।। एवमनन्तज्ञानसुखस्थापने प्रथमगाथा केवलिभुक्तिनिराकरणे द्वितीया चेति गाथाद्वयं गतम् ।
टीकाः — जेम अग्निने लोखंडना गोळाना तप्त पुद्गलोनो समस्त विलास नथी (अर्थात् अग्नि ते लोखंडना गोळाना पुद्गलोना विलासथी — तेमनी क्रियाथी — भिन्न छे) तेम शुद्ध आत्माने (अर्थात् केवळज्ञानी भगवानने) इन्द्रियसमूह नथी; तेथी ज जेम अग्निने घोर घणना घाना मारनी परंपरा नथी (अर्थात् लोखंडना गोळाना संसर्गनो अभाव थतां घणना भयंकर उपराछापरी घानो मार अग्निने पडतो नथी) तेम शुद्ध आत्माने शरीरसंबंधी सुखदुःख नथी.
भावार्थः — केवळीभगवानने शरीरसंबंधी क्षुधादिदुःख के भोजनादिसुख होतुं नथी तेथी तेमने कवलाहार होतो नथी. २०.
हवे, ज्ञानना स्वरूपनो विस्तार अने सुखना स्वरूपनो विस्तार क्रमे प्रवर्तता बे अधिकारो द्वारा कहे छे. तेमां (प्रथम), अतीन्द्रिय ज्ञानरूपे परिणमेला होवाथी केवळी- भगवानने बधुं प्रत्यक्ष छे एम प्रगट करे छेः —
Page 37 of 513
PDF/HTML Page 68 of 544
single page version
यतो न खल्विन्द्रियाण्यालम्ब्यावग्रहेहावायपूर्वकप्रक्रमेण केवली विजानाति, स्वयमेव समस्तावरणक्षयक्षण एवानाद्यनन्ताहेतुकासाधारणभूतज्ञानस्वभावमेव कारणत्वेनोपादाय तदुपरि प्रविक सत्केवलज्ञानोपयोगीभूय विपरिणमते, ततोऽस्याक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकाल- भावतया समक्षसंवेदनालम्बनभूताः सर्वद्रव्यपर्यायाः प्रत्यक्षा एव भवन्ति ।।२१।। केवलज्ञानस्य सर्वं प्रत्यक्षं भवतीति कथनमुख्यत्वेन ‘परिणमदो खलु’ इत्यादिगाथाद्वयम्, अथात्मज्ञानयोर्निश्चयेनासंख्यातप्रदेशत्वेऽपि व्यवहारेण सर्वगतत्वं भवतीत्यादिकथनमुख्यत्वेन ‘आदा णाणपमाणं’ इत्यादिगाथापञ्चकम्, ततः परं ज्ञानज्ञेययोः परस्परगमननिराकरणमुख्यतया ‘णाणी णाणसहावो’ इत्यादिगाथापञ्चकम्, अथ निश्चयव्यवहारकेवलिप्रतिपादनादिमुख्यत्वेन ‘जो हि सुदेण’ इत्यादिसूत्रचतुष्टयम्, अथ वर्तमानज्ञाने कालत्रयपर्यायपरिच्छित्तिकथनादिरूपेण ‘तक्कालिगेव सव्वे’ इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं बन्धकारणं न भवति रागादिविकल्परहितं छद्मस्थज्ञानमपि, किंतु रागादयो बन्धकारणमित्यादिनिरूपणमुख्यतया ‘परिणमदि णेयं’ इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं सर्वज्ञानं सर्वज्ञत्वेन प्रतिपादयतीत्यादिव्याख्यानमुख्यत्वेन ‘जं तक्कालियमिदरं’ इत्यादिगाथापञ्चकम्, अथ ज्ञानप्रपञ्चोपसंहारमुख्यत्वेन प्रथमगाथा, नमस्कारकथनेन द्वितीया चेति ‘णवि परिणमदि’ इत्यादि गाथाद्वयम् । एवं ज्ञानप्रपञ्चाभिधानतृतीयान्तराधिकारे त्रयस्त्रिंशद्गाथाभिः स्थलाष्टकेन समुदाय-
अन्वयार्थः — [खलु] खरेखर [ज्ञानं परिणममानस्य] ज्ञानरूपे (केवळज्ञानरूपे) परिणमता केवळीभगवानने [सर्वद्रव्यपर्यायाः] सर्व द्रव्य -पर्यायो [प्रत्यक्षाः] प्रत्यक्ष छे; [सः] ते [तान्] तेमने [अवग्रहपूर्वाभिः क्रियाभिः] अवग्रह आदि क्रियाओथी [नैव विजानाति] नथी जाणता.
टीकाः — इन्द्रियोने आलंबीने अवग्रह -ईहा -अवायपूर्वक क्रमथी केवळीभगवान जाणता नथी, (परंतु) स्वयमेव समस्त आवरणना क्षयनी क्षणे ज, अनादि अनंत, अहेतुक अने असाधारण ज्ञानस्वभावने ज कारणपणे ग्रहवाथी तुरत ज प्रगटता केवळ- ज्ञानोपयोगरूप थईने परिणमे छे; माटे तेमने समस्त द्रव्य, क्षेत्र, काळ अने भावनुं अक्रमे ग्रहण होवाथी समक्ष संवेदनने (-प्रत्यक्ष ज्ञानने) आलंबनभूत समस्त द्रव्य -पर्यायो प्रत्यक्ष ज छे.
भावार्थः — जेनो आदि नथी तेम ज अंत नथी, जेनुं कोई कारण नथी अने जे अन्य कोई द्रव्यमां नथी एवा ज्ञानस्वभावने ज उपादेय करीने, केवळज्ञाननी उत्पत्तिना बीजभूत शुक्लध्यान नामना स्वसंवेदनज्ञाने ज्यारे आत्मा परिणमे छे त्यारे तेना निमित्ते
Page 38 of 513
PDF/HTML Page 69 of 544
single page version
जालरहितस्वसंवेदनज्ञानेन यदायमात्मा परिणमति, तदा स्वसंवेदनज्ञानफलभूतकेवलज्ञान-
परिच्छित्त्याकारपरिणतस्य तस्मिन्नेव क्षणे क्रमप्रवृत्तक्षायोपशमिकज्ञानाभावादक्रमसमाक्रान्तसमस्त-
द्रव्यक्षेत्रकालभावतया सर्वद्रव्यगुणपर्याया अस्यात्मनः प्रत्यक्षा भवन्तीत्यभिप्रायः ।।२१।। अथ सर्वं
केवळज्ञानरूपे परिणमवा लागे छे. ते केवळज्ञानी भगवान क्षायोपशमिक ज्ञानवाळा जीवोनी
माफक अवग्रह, ईहा, अवाय अने धारणारूप क्रमथी जाणता नथी परंतु सर्व द्रव्य, क्षेत्र,
काळ, भावने युगपद् जाणे छे; ए रीते तेमने बधुंय प्रत्यक्ष वर्ते छे. २१.
हवे, अतीन्द्रिय ज्ञानरूपे परिणमेला होवाथी ज, आ भगवानने कांई पण परोक्ष नथी एवो अभिप्राय कहे छेः —
अन्वयार्थः — [सदा अक्षातीतस्य] जे सदा इन्द्रियातीत छे, [समन्ततः सर्वाक्ष- गुणसमृद्धस्य] जे सर्व तरफथी (-सर्व आत्मप्रदेशे) सर्व इन्द्रियगुणो वडे समृद्ध छे [स्वयम् एव हि ज्ञानजातस्य] अने जे स्वयमेव ज्ञानरूप थयेला छे, ते केवळीभगवानने [किंचिद् अपि] कांई पण [परोक्षं नास्ति] परोक्ष नथी.
Page 39 of 513
PDF/HTML Page 70 of 544
single page version
अस्य खलु भगवतः समस्तावरणक्षयक्षण एव सांसारिकपरिच्छित्तिनिष्पत्तिबलाधान- हेतुभूतानि प्रतिनियतविषयग्राहीण्यक्षाणि तैरतीतस्य, स्पर्शरसगन्धवर्णशब्दपरिच्छेदरूपैः समरसतया समन्ततः सर्वैर्रेवेन्द्रियगुणैः समृद्धस्य, स्वयमेव सामस्त्येन स्वपरप्रकाशनक्षममनश्वरं लोकोत्तरज्ञानं जातस्य, अक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकालभावतया न किंचनापि परोक्षमेव स्यात् ।।२२।। प्रत्यक्षं भवतीत्यन्वयरूपेण पूर्वसूत्रे भणितमिदानीं तु परोक्षं किमपि नास्तीति तमेवार्थं व्यतिरेकेण दृढयति — णत्थि परोक्खं किंचि वि अस्य भगवतः परोक्षं किमपि नास्ति । किंविशिष्टस्य । समंत सव्वक्खगुणसमिद्धस्स समन्ततः सर्वात्मप्रदेशैः सामस्त्येन वा स्पर्शरसगन्धवर्णशब्दपरिच्छित्तिरूप- सर्वेन्द्रियगुणसमृद्धस्य । तर्हि किमक्षसहितस्य । नैवम् । अक्खातीदस्स अक्षातीतस्येन्द्रियव्यापाररहितस्य, अथवा द्वितीयव्याख्यानम् — अक्ष्णोति ज्ञानेन व्याप्नोतीत्यक्ष आत्मा तद्गुणसमृद्धस्य । सदा सर्वदा सर्वकालम् । पुनरपि किंरूपस्य । सयमेव हि णाणजादस्स स्वयमेव हि स्फु टं केवलज्ञानरूपेण जातस्य परिणतस्येति । तद्यथा – अतीन्द्रियस्वभावपरमात्मनो विपरीतानि क्रमप्रवृत्तिहेतुभूतानीन्द्रियाण्यतिक्रान्तस्य जगत्त्रयकालत्रयवर्तिसमस्तपदार्थयुगपत्प्रत्यक्षप्रतीतिसमर्थमविनश्वरमखण्डैकप्रतिभासमयं केवलज्ञानं परिणतस्यास्य भगवतः परोक्षं किमपि नास्तीति भावार्थः ।।२२।। एवं केवलिनां समस्तं प्रत्यक्षं भवतीति कथनरूपेण प्रथमस्थले गाथाद्वयं गतम् । अथात्मा ज्ञानप्रमाणो भवतीति ज्ञानं च
टीकाः — समस्त आवरणना क्षयनी क्षणे ज जे (भगवान) सांसारिक ज्ञान निपजाववाना बळने अमलमां मूकवामां हेतुभूत एवी जे पोतपोताना निश्चित विषयोने ग्रहण करनारी इन्द्रियो तेमनाथी अतीत थया छे, जे स्पर्श, रस, गंध, वर्ण अने शब्दना ज्ञानरूप सर्व इन्द्रियगुणो वडे सर्व तरफथी समरसपणे समृद्ध छे (अर्थात् जे भगवान स्पर्श, रस, गंध, वर्ण तेम ज शब्दने सर्व आत्मप्रदेशेथी समानपणे जाणे छे) अने जे स्वयमेव समस्तपणे स्वपरने प्रकाशवामां समर्थ एवा अविनाशी लोकोत्तर ज्ञानरूप थया छे एवा आ (केवळी) भगवानने समस्त द्रव्य -क्षेत्र -काळ -भावनुं अक्रमे ग्रहण होवाथी कांई पण परोक्ष नथी.
भावार्थः — इन्द्रियनो गुण तो स्पर्शादि एक गुणने ज जाणवानो छे, जेम के चक्षुइन्द्रियनो गुण रूपने ज जाणवानो छे अर्थात् रूपने ज जाणवामां निमित्त थवानो छे. वळी इन्द्रियज्ञान क्रमिक छे. केवळीभगवान तो इन्द्रियोना निमित्त विना समस्त आत्मप्रदेशेथी स्पर्शादि सर्व विषयोने जाणे छे, अने जे समस्तपणे पोतानुं ने परनुं प्रकाशक छे एवा लोकोत्तर ज्ञानरूपे ( – लौकिकज्ञानथी भिन्न केवळज्ञानरूपे) स्वयमेव परिणम्या करे छे; माटे समस्त द्रव्य, क्षेत्र, काळ अने भावने अवग्रहादि क्रम विना जाणता होवाथी केवळीभगवानने कांई पण परोक्ष नथी. २२.
Page 40 of 513
PDF/HTML Page 71 of 544
single page version
आत्मा हि ‘समगुणपर्यायं द्रव्यम्’ इति वचनात् ज्ञानेन सह हीनाधिकत्वरहितत्वेन परिणतत्वात्तत्परिमाणः, ज्ञानं तु ज्ञेयनिष्ठत्वाद्दाह्यनिष्ठदहनवत्तत्परिमाणं; ज्ञेयं तु लोकालोकविभागविभक्तानन्तपर्यायमालिकालीढस्वरूपसूचिता विच्छेदोपदर्शितध्रौव्या षड्द्रव्यी व्यवहारेण सर्वगतमित्युपदिशति — आदा णाणपमाणं ज्ञानेन सह हीनाधिकत्वाभावादात्मा ज्ञानप्रमाणो भवति । तथाहि — ‘समगुणपर्यायं द्रव्यं भवति’ इति वचनाद्वर्तमानमनुष्यभवे वर्तमानमनुष्य- पर्यायप्रमाणः, तथैव मनुष्यपर्यायप्रदेशवर्तिज्ञानगुणप्रमाणश्च प्रत्यक्षेण दृश्यते यथायमात्मा, तथा निश्चयतः सर्वदैवाव्याबाधाक्षयसुखाद्यनन्तगुणाधारभूतो योऽसौ केवलज्ञानगुणस्तत्प्रमाणोऽयमात्मा । णाणं णेयप्पमाणमुद्दिट्ठं दाह्यनिष्ठदहनवत् ज्ञानं ज्ञेयप्रमाणमुद्दिष्टं कथितम् । णेयं लोयालोयं ज्ञेयं लोका-
अन्वयार्थः — [आत्मा] आत्मा [ज्ञानप्रमाणं] ज्ञानप्रमाण छे; [ज्ञानं] ज्ञान [ज्ञेयप्रमाणं] ज्ञेयप्रमाण [उद्दिष्टं] कह्युं छे. [ज्ञेयं लोकालोकं] ज्ञेय लोकालोक छे, [तस्मात्] तेथी [ज्ञानं तु] ज्ञान [सर्वगतं] सर्वगत (अर्थात् सर्वव्यापक) छे.
टीकाः — ‘समगुणपर्यायं द्रव्यम् (गुण -पर्यायो अर्थात् युगपद् सर्व गुणो अने पर्यायो ते ज द्रव्य छे)’ ए वचन प्रमाणे आत्मा ज्ञानथी हीनाधिकतारहितपणे परिणमतो होवाथी ज्ञानप्रमाण छे, अने ज्ञान १ज्ञेयनिष्ठ होवाथी, दाह्यनिष्ठ २दहननी जेम, ज्ञेयप्रमाण छे. ज्ञेय तो लोक अने अलोकना विभागथी ३विभक्त, ४अनंत पर्यायमाळाथी आलिंगित स्वरूपे सूचित ( – प्रगट, जणातो), नाशवंत देखातो छतां ध्रुव एवो षट्द्रव्य -समूह छे एटले के १. ज्ञेयनिष्ठ = ज्ञेयोने अवलंबतुं; ज्ञेयोमां तत्पर. २. दहन = बाळवुं ते; अग्नि. ३. विभक्त = विभागवाळो. (षट्द्रव्यना समूहमां लोक -अलोकरूप बे विभाग छे.) ४. अनंत पर्यायो द्रव्यने आलिंगे छे ( – द्रव्यमां थाय छे) एवा स्वरूपवाळुं दरेक द्रव्य जणाय छे.
Page 41 of 513
PDF/HTML Page 72 of 544
single page version
सर्वमिति यावत् । ततो निःशेषावरणक्षयक्षण एव लोकालोकविभागविभक्तसमस्तवस्त्वाकार- पारमुपगम्य तथैवाप्रच्युतत्वेन व्यवस्थितत्वात् ज्ञानं सर्वगतम् ।।२३।।
लोकं भवति । शुद्धबुद्धैकस्वभावसर्वप्रकारोपादेयभूतपरमात्मद्रव्यादिषड्द्रव्यात्मको लोकः, लोकाद्बहि- र्भागे शुद्धाकाशमलोकः, तच्च लोकालोकद्वयं स्वकीयस्वकीयानन्तपर्यायपरिणतिरूपेणानित्यमपि द्रव्यार्थिकनयेन नित्यम् । तम्हा णाणं तु सव्वगयं यस्मान्निश्चयरत्नत्रयात्मकशुद्धोपयोगभावनाबलेनोत्पन्नं यत्केवलज्ञानं तट्टङ्कोत्कीर्णाकारन्यायेन निरन्तरं पूर्वोक्तज्ञेयं जानाति, तस्माद्वयवहारेण तु ज्ञानं सर्वगतं भण्यते । ततः स्थितमेतदात्मा ज्ञानप्रमाणं ज्ञानं सर्वगतमिति ।।२३।। अथात्मानं ज्ञानप्रमाणं ये न मन्यन्ते तत्र हीनाधिकत्वे दूषणं ददाति — णाणप्पमाणमादा ण हवदि जस्सेह ज्ञानप्रमाणमात्मा न भवति बधुंय छे. (ज्ञेय तो छये द्रव्यनो समूह एटले के बधुंय छे.) माटे निःशेष आवरणना क्षयनी क्षणे ज लोक अने अलोकना विभागथी विभक्त समस्त वस्तुओना आकारोना पारने पामीने ए रीते ज अच्युतपणे रहेतुं होवाथी ज्ञान सर्वगत छे.
भावार्थः — गुण -पर्यायोथी द्रव्य अनन्य छे माटे आत्मा ज्ञानथी हीन -अधिक नहि होवाथी ज्ञान जेवडो ज छे; अने जेम दाह्यने (बळवायोग्य पदार्थने) अवलंबनार दहन दाह्यनी बराबर ज छे तेम ज्ञेयने अवलंबनार ज्ञान ज्ञेयनी बराबर ज छे. ज्ञेय तो समस्त लोकालोक अर्थात् बधुंय छे. माटे, सर्व आवरणनो क्षय थतां ज (ज्ञान) सर्वने जाणतुं होवाथी अने पछी कदी सर्वने जाणवामांथी च्युत नहि थतुं होवाथी ज्ञान सर्वव्यापक छे. २३.
जो हीन आत्मा होय, नव जाणे अचेतन ज्ञान ए,
प्र. ६
Page 42 of 513
PDF/HTML Page 73 of 544
single page version
ज्ञानप्रमाणमात्मा न भवति यस्येह तस्य स आत्मा । हीनो वा अधिको वा ज्ञानाद्भवति ध्रुवमेव ।।२४।। हीनो यदि स आत्मा तत् ज्ञानमचेतनं न जानाति । अधिको वा ज्ञानात् ज्ञानेन विना कथं जानाति ।।२५।। युगलम् ।
यदि खल्वयमात्मा हीनो ज्ञानादित्यभ्युपगम्यते तदात्मनोऽतिरिच्यमानं ज्ञानं स्वाश्रय- भूतचेतनद्रव्यसमवायाभावादचेतनं भवद्रूपादिगुणकल्पतामापन्नं न जानाति । यदि पुनर्ज्ञाना- दधिक इति पक्षः कक्षीक्रियते तदावश्यं ज्ञानादतिरिक्तत्वात् पृथग्भूतो भवन् घटपटादि- स्थानीयतामापन्नो ज्ञानमन्तरेण न जानाति । ततो ज्ञानप्रमाण एवायमात्माभ्युप- गन्तव्यः ।। २४ । २५ ।। यस्य वादिनो मतेऽत्र जगति तस्स सो आदा तस्य मते स आत्मा हीणो वा अहिओ वा णाणादो हवदि धुवमेव हीनो वा अधिको वा ज्ञानात्सकाशाद् भवति निश्चितमेवेति ।।२४।। हीणो जदि सो आदा तं णाणमचेदणं ण जाणादि हीनो यदि स आत्मा तदाग्नेरभावे सति उष्णगुणो यथा शीतलो भवति तथा स्वाश्रयभूतचेतनात्मकद्रव्यसमवायाभावात्तस्यात्मनो ज्ञानमचेतनं भवत्सत् किमपि न जानाति । अहिओ
अन्वयार्थः — [इह] आ जगतमां [यस्य] जेना मतमां [आत्मा] आत्मा [ज्ञानप्रमाणं] ज्ञानप्रमाण [न भवति] नथी, [तस्य] तेना मतमां [सः आत्मा] ते आत्मा [ध्रुवम् एव] अवश्य [ज्ञानात् हीनः वा] ज्ञानथी हीन [अधिकः वा भवति] अथवा अधिक होवो जोइए.
[यदि] जो [सः आत्मा] ते आत्मा [हीनः] ज्ञानथी हीन होय [तद्] तो [ज्ञानं] ज्ञान [अचेतनं] अचेतन थवाथी [न जानाति] जाणे नहि, [ज्ञानात् अधिकः वा] अने जो (आत्मा) ज्ञानथी अधिक होय तो [ज्ञानेन विना] (ते आत्मा) ज्ञान विना [कथं जानाति] केम जाणे?
टीकाः — जो आ आत्मा ज्ञानथी हीन छे एम स्वीकारवामां आवे तो आत्माथी आगळ वधी जतुं ज्ञान ( – आत्माना क्षेत्रथी आगळ वधीने तेनी बहार व्यापतुं ज्ञान) पोताना आश्रयभूत चेतनद्रव्यनो समवाय (संबंध) नहि रहेवाने लीधे अचेतन थयुं थकुं रूपादि गुण जेवुं थवाथी न जाणे; अने जो आ आत्मा ज्ञानथी अधिक छे एवो पक्ष स्वीकारवामां आवे तो अवश्य (आत्मा) ज्ञानथी आगळ वधी गयो होवाने लीधे ( – ज्ञानना क्षेत्रथी बहार व्यापतो होवाने लीधे) ज्ञानथी पृथक् थयो थको घटपटादि जेवो थवाथी ज्ञान सिवाय न जाणे. माटे आ आत्मा ज्ञानप्रमाण ज मानवायोग्य छे.
Page 43 of 513
PDF/HTML Page 74 of 544
single page version
न कथमपीति । अयमत्र भावार्थः ---ये केचनात्मानमङ्गुष्ठपर्वमात्रं, श्यामाकतण्डुलमात्रं,
भावार्थः — आत्मानुं क्षेत्र ज्ञानना क्षेत्रथी ओछुं मानवामां आवे तो आत्माना क्षेत्रनी बहार वर्ततुं ज्ञान चेतनद्रव्य साथे संबंध नहि होवाने लीधे अचेतन गुण जेवुं थवाथी जाणवानुं काम न करी शके, जेम वर्ण, गंध, रस, स्पर्श वगेरे अचेतन गुणो जाणी शकता नथी तेम. जो आत्मानुं क्षेत्र ज्ञानना क्षेत्रथी अधिक मानवामां आवे तो ज्ञानना क्षेत्रनी बहार वर्ततो ज्ञानशून्य आत्मा ज्ञान विना जाणवानुं काम न करी शके, जेम ज्ञानशून्य घडो, वस्त्र वगेरे पदार्थो जाणी शकता नथी तेम. माटे आत्मा ज्ञानथी हीन पण नथी, अधिक पण नथी, ज्ञान जेवडो ज छे. २४ -२५.
अन्वयार्थः — [जिनवृषभः] जिनवर [सर्वगतः] सर्वगत छे [च] अने [जगति] जगतना [सर्वे अपि अर्थाः] सर्व पदार्थो [तद्गताः] जिनवरगत (जिनवरमां प्राप्त) छे; [जिनः ज्ञानमयत्वात्] कारण के जिन ज्ञानमय छे [च] अने [ते] सर्व पदार्थो [विषयत्वात्] ज्ञानना विषय होवाथी [तस्य] जिनना विषय [भणिताः] कहेवामां आव्या छे.
Page 44 of 513
PDF/HTML Page 75 of 544
single page version
ज्ञानं हि त्रिसमयावच्छिन्नसर्वद्रव्यपर्यायरूपव्यवस्थितविश्वज्ञेयाकारानाक्रामत् सर्वगतमुक्तं, तथाभूतज्ञानमयीभूय व्यवस्थितत्वाद्भगवानपि सर्वगत एव । एवं सर्वगतज्ञानविषयत्वात्सर्वेऽर्था अपि सर्वगतज्ञानाव्यतिरिक्तस्य भगवतस्तस्य ते विषया इति भणितत्वात्तद्गता एव भवन्ति । तत्र निश्चयनयेनानाकुलत्वलक्षणसौख्यसंवेदनत्वाधिष्ठानत्वावच्छिन्नात्मप्रमाणज्ञानस्वतत्त्वा- परित्यागेन विश्वज्ञेयाकाराननुपगम्यावबुध्यमानोऽपि व्यवहारनयेन भगवान् सर्वगत इति व्यपदिश्यते । तथा नैमित्तिकभूतज्ञेयाकारानात्मस्थानवलोक्य सर्वेऽर्थास्तद्गता इत्युपचर्यन्ते, न च तेषां परमार्थतोऽन्योन्यगमनमस्ति, सर्वद्रव्याणां स्वरूपनिष्ठत्वात् । अयं क्रमो ज्ञानेऽपि निश्चेयः ।।२६।। सर्वज्ञः । कस्मात् सर्वगतो भवति । जिणो जिनः णाणमयादो य ज्ञानमयत्वाद्धेतोः सव्वे वि य तग्गया जगदि अट्ठा सर्वेऽपि च ये जगत्यर्थास्ते दर्पणे बिम्बवद् व्यवहारेण तत्र भगवति गता भवन्ति । कस्मात् । ते भणिदा तेऽर्थास्तत्र गता भणिताः विसयादो विषयत्वात्परिच्छेद्यत्वात् ज्ञेयत्वात् । कस्य । तस्स तस्य भगवत इति । तथाहि ---यदनन्तज्ञानमनाकुलत्वलक्षणानन्तसुखं च तदाधारभूतस्तावदात्मा । इत्थं- भूतात्मप्रमाणं ज्ञानमात्मनः स्वस्वरूपं भवति । इत्थंभूतं स्वस्वरूपं देहगतमपरित्यजन्नेव लोकालोकं परिच्छिनत्ति । ततः कारणाद्वयवहारेण सर्वगतो भण्यते भगवान् । येन च कारणेन नीलपीतादिबहिः- पदार्था आदर्शे बिम्बवत् परिच्छित्त्याकारेण ज्ञाने प्रतिफलन्ति ततः कारणादुपचारेणार्थकार्यभूता
टीकाः — ज्ञान त्रणे काळना सर्व द्रव्य -पर्यायरूप वर्तता समस्त ज्ञेयाकारोने पहोंची वळतुं ( – जाणतुं) होवाथी सर्वगत कहेवामां आव्युं छे; अने एवा (सर्वगत) ज्ञानमय थईने रहेला होवाथी भगवान पण सर्वगत ज छे. ए रीते सर्व पदार्थो पण सर्वगत ज्ञानना विषय होवाने लीधे, सर्वगत ज्ञानथी अभिन्न एवा ते भगवानना ते विषयो छे एम (शास्त्रमां) कह्युं छे; माटे सर्व पदार्थो भगवानगत ज ( – भगवानमां प्राप्त ज) छे.
त्यां (एम समजवुं के) — निश्चयनये अनाकुळतालक्षण सुखनुं जे संवेदन ते सुखसंवेदनना १अधिष्ठानपणा जेवडो ज आत्मा छे अने ते आत्मा जेवडुं ज ज्ञान स्वतत्त्व छे; ते आत्मप्रमाण ज्ञान के जे निज स्वरूप छे तेने छोड्या विना, समस्त २ज्ञेयाकारोनी समीप गया विना, भगवान (सर्व पदार्थोने) जाणे छे. निश्चयनये आम होवा छतां व्यवहारनये ‘भगवान सर्वगत छे’ एम कहेवाय छे. वळी १. अधिष्ठान = आधार; रहेठाण. (आत्मा सुखसंवेदननो आधार छे. जेटलामां सुखनुं वेदन थाय छे
तेवडो ज आत्मा छे.) २. ज्ञेयाकारो = पर पदार्थोनां द्रव्य -गुण -पर्यायो के जेओ ज्ञेय छे. (आ ज्ञेयाकारो परमार्थे आत्माथी
Page 45 of 513
PDF/HTML Page 76 of 544
single page version
अर्थाकारा अप्यर्था भण्यन्ते । ते च ज्ञाने तिष्ठन्तीत्युच्यमाने दोषो नास्तीत्यभिप्रायः ।।२६।। अथ ज्ञानमात्मा भवति, आत्मा तु ज्ञानं सुखादिकं वा भवतीति प्रतिपादयति — णाणं अप्प त्ति मदं ज्ञानमात्मा भवतीति मतं सम्मतम् । कस्मात् । वट्टदि णाणं विणा ण अप्पाणं ज्ञानं कर्तृ विनात्मानं जीवमन्यत्र १
(-आत्मामां) छे’ एम उपचार करवामां आवे छे; परंतु परमार्थे तेमनुं एक- बीजामां गमन नथी, कारण के सर्व द्रव्यो स्वरूपनिष्ठ ( – पोतपोताना स्वरूपमां निश्चळ रहेलां) छे.
आ क्रम ज्ञानमां पण नक्की करवो. (आत्मा अने ज्ञेयो विषे निश्चय -व्यवहारथी कह्युं तेम ज्ञान अने ज्ञेयो विषे पण समजवुं.) २६.
अन्वयार्थः — [ज्ञानं आत्मा] ज्ञान आत्मा छे [इति मतं] एम जिनदेवनो मत छे. [आत्मानं विना] आत्मा विना (बीजा कोई द्रव्यमां) [ज्ञानं न वर्तते] ज्ञान होतुं नथी [तस्मात्] तेथी [ज्ञानं आत्मा] ज्ञान आत्मा छे; [आत्मा] अने आत्मा तो [ज्ञानं वा] (ज्ञानगुण द्वारा) ज्ञान छे [अन्यत् वा] अथवा (सुखादि अन्य गुण द्वारा) अन्य छे. १. नैमित्तिकभूत ज्ञेयाकारो = ज्ञानमां थता (ज्ञाननी अवस्थारूप) ज्ञेयाकारो. (आ ज्ञेयाकारोने ज्ञानाकारो
छे अने पर पदार्थोनां द्रव्य -गुण -पर्यायो तेमनां निमित्त छे. आ ज्ञेयाकारोने आत्मामां देखीने ‘समस्त
पर पदार्थो आत्मामां छे’ एम उपचार करवामां आवे छे. आ वात ३१मी गाथानी टीकामां
दर्पणना द्रष्टांतथी समजावशे.)
Page 46 of 513
PDF/HTML Page 77 of 544
single page version
यतः शेषसमस्तचेतनाचेतनवस्तुसमवायसंबन्धनिरुत्सुक तयाऽनाद्यनन्तस्वभावसिद्ध- समवायसंबन्धमेक मात्मानमाभिमुख्येनावलम्ब्य प्रवृत्तत्वात् तं विना आत्मानं ज्ञानं न धारयति, ततो ज्ञानमात्मैव स्यात् । आत्मा त्वनन्तधर्माधिष्ठानत्वात् ज्ञानधर्मद्वारेण ज्ञानमन्यधर्म- द्वारेणान्यदपि स्यात् । किं चानेकान्तोऽत्र बलवान् । एकान्तेन ज्ञानमात्मेति ज्ञानस्या- भावोऽचेतनत्वमात्मनो विशेषगुणाभावादभावो वा स्यात् । सर्वथात्मा ज्ञानमिति निराश्रयत्वात् ज्ञानस्याभाव आत्मनः शेषपर्यायाभावस्तदविनाभाविनस्तस्याप्यभावः स्यात् ।।२७।। घटपटादौ न वर्तते । तम्हा णाणं अप्पा तस्मात् ज्ञायते कथंचिज्ज्ञानमात्मैव स्यात् । इति गाथापादत्रयेण ज्ञानस्य कथंचिदात्मत्वं स्थापितम् । अप्पा णाणं व अण्णं वा आत्मा तु ज्ञानधर्मद्वारेण ज्ञानं भवति, सुखवीर्यादिधर्मद्वारेणान्यद्वा नियमो नास्तीति । तद्यथा – यदि पुनरेकान्तेन ज्ञानमात्मेति भण्यते तदा ज्ञानगुणमात्र एवात्मा प्राप्तः सुखादिधर्माणामवकाशो नास्ति । तथा सुखवीर्यादिधर्मसमूहाभावादात्मा- भावः, आत्मन आधारभूतस्याभावादाधेयभूतस्य ज्ञानगुणस्याप्यभावः, इत्येकान्ते सति द्वयोरप्यभावः । तस्मात्कथंचिज्ज्ञानमात्मा न सर्वथेति । अयमत्राभिप्रायः — आत्मा व्यापको ज्ञानं व्याप्यं ततो ज्ञानमात्मा स्यात्, आत्मा तु ज्ञानमन्यद्वा भवतीति । तथा चोक्तम् — ‘व्यापकं तदतन्निष्ठं व्याप्यं
टीकाः — शेष समस्त चेतन तथा अचेतन वस्तुओ साथे *समवायसंबंध विनानुं होवाने लीधे, जेनी साथे अनादि -अनंत स्वभावसिद्ध समवायसंबंध छे एवा एक आत्माने अति निकटपणे (अभिन्नप्रदेशपणे) अवलंबीने प्रवर्ततुं होवाथी, आत्मा विना ज्ञान पोतानी हयाती राखी शकतुं नथी; माटे ज्ञान आत्मा ज छे. अने आत्मा तो अनंत धर्मोनुं अधिष्ठान ( – आधार) होवाथी ज्ञानधर्म द्वारा ज्ञान छे अने अन्य धर्म द्वारा अन्य पण छे.
वळी ते उपरांत (विशेष समजवुं के), अहीं अनेकांत बळवान छे. एकांते ज्ञान आत्मा छे एम मानवामां आवे तो, (ज्ञानगुण आत्मद्रव्य थइ जवाथी) ज्ञाननो अभाव थाय, (अने ज्ञानगुणनो अभाव थवाथी) आत्माने अचेतनपणुं आवे अथवा विशेष गुणनो अभाव थवाथी आत्मानो अभाव थाय. सर्वथा आत्मा ज्ञान छे एम मानवामां आवे तो, (आत्मद्रव्य एक ज्ञानगुणरूप थई जतां ज्ञानने कोई आधारभूत द्रव्य नहि रहेवाथी) निराश्रयपणाने लीधे ज्ञाननो अभाव थाय अथवा (आत्मद्रव्य एक ज्ञानगुणरूप थई जवाथी) आत्माना शेष पर्यायोनो (-सुख, वीर्यादि गुणोनो) अभाव *समवायसंबंध = गुण होय त्यां गुणी होय अने गुणी होय त्यां गुण होय, गुण न होय त्यां गुणी न होय अने गुणी न होय त्यां गुण न होय — आवो गुण -गुणीनो अभिन्नप्रदेशरूप संबंध;
Page 47 of 513
PDF/HTML Page 78 of 544
single page version
ज्ञानी चार्थाश्च स्वलक्षणभूतपृथक्त्वतो न मिथो वृत्तिमासादयन्ति किंतु तेषां ज्ञानज्ञेयस्वभावसंबन्धसाधितमन्योन्यवृत्तिमात्रमस्ति चक्षुरूपवत् । यथा हि चक्षूंषि तद्विषय- तन्निष्ठमेव च’ ।।२७।। इत्यात्मज्ञानयोरेकत्वं, ज्ञानस्य व्यवहारेण सर्वगतत्वमित्यादिकथनरूपेण द्वितीयस्थले गाथापञ्चकं गतम् । अथ ज्ञानं ज्ञेयसमीपे न गच्छतीति निश्चिनोति --णाणी णाणसहावो ज्ञानी सर्वज्ञः केवलज्ञानस्वभाव एव । अट्ठा णेयप्पगा हि णाणिस्स जगत्त्रयकालत्रयवर्तिपदार्था ज्ञेयात्मका एव भवन्ति न च ज्ञानात्मकाः । कस्य । ज्ञानिनः । रूवाणि व चक्खूणं णेवण्णोण्णेसु वट्टंति ज्ञानी पदार्थाश्चान्योन्यं परस्परमेकत्वेन न वर्तन्ते । कानीव, केषां संबंधित्वेन । रूपाणीव चक्षुषामिति । थाय अने तेमनी साथे अविनाभावी संबंधवाळा आत्मानो पण अभाव थाय (कारण के सुख, वीर्य वगेरे गुणो न होय त्यां आत्मा पण होतो नथी). २७.
हवे ज्ञान अने ज्ञेयना परस्पर गमनने रद करे छे (अर्थात् ज्ञान अने ज्ञेयो एकबीजामां प्रवेशतां नथी एम कहे छे)ः —
अन्वयार्थः — [ज्ञानी] आत्मा [ज्ञानस्वभावः] ज्ञानस्वभाव छे [अर्थाः हि] अने पदार्थो [ज्ञानिनः] आत्माना [ज्ञेयात्मकाः] ज्ञेयस्वरूप छे, [रूपाणि इव चक्षुषोः] जेम रूप ( – रूपी पदार्थो) नेत्रोनां ज्ञेय छे तेम. [अन्योन्येषु] तेओ एकबीजामां [न एव वर्तन्ते] वर्तता नथी.
टीकाः — आत्मा अने पदार्थो स्वलक्षणभूत पृथक्पणाने लीधे एकबीजामां वर्तता नथी परंतु तेमने मात्र ज्ञानज्ञेयस्वभाव -संबंधथी सधातुं एकबीजामां वर्तवुं छे, नेत्र अने रूपनी जेम. (अन्य द्रव्योथी भिन्नपणुं दरेक द्रव्यनुं लक्षण होवाथी आत्मा अने पदार्थो एकबीजामां वर्तता नथी, परंतु आत्मानो ज्ञानस्वभाव छे अने पदार्थोनो ज्ञेयस्वभाव छे — एवा ज्ञानज्ञेयस्वभावरूप संबंधना कारणे ज मात्र तेमनुं एकबीजामां वर्तवुं उपचारथी कही
Page 48 of 513
PDF/HTML Page 79 of 544
single page version
भूतरूपिद्रव्याणि च परस्परप्रवेशमन्तरेणापि ज्ञेयाकारग्रहणसमर्पणप्रवणान्येवमात्माऽर्थाश्चा- न्योन्यवृत्तिमन्तरेणापि विश्वज्ञेयाकारग्रहणसमर्पणप्रवणाः ।।२८।।
तथाहि ---यथा रूपिद्रव्याणि चक्षुषा सह परस्परं संबन्धाभावेऽपि स्वाकारसमर्पणे समर्थानि, चक्षूंषि च तदाकारग्रहणे समर्थानि भवन्ति, तथा त्रैलोक्योदरविवरवर्तिपदार्थाः कालत्रयपर्यायपरिणता ज्ञानेन सह परस्परप्रदेशसंसर्गाभावेऽपि स्वकीयाकारसमर्पणे समर्था भवन्ति, अखण्डैकप्रतिभासमयं केवलज्ञानं तु तदाकारग्रहणे समर्थमिति भावार्थः ।।२८।। अथ ज्ञानी ज्ञेयपदार्थेषु निश्चयनयेनाप्रविष्टोऽपि व्यवहारेण प्रविष्ट इव प्रतिभातीति शक्तिवैचित्र्यं दर्शयति ---ण पविट्ठो निश्चयनयेन न प्रविष्टः, णाविट्ठो व्यवहारेण च नाप्रविष्टः किंतु प्रविष्ट एव । स कः कर्ता । णाणी ज्ञानी । केषु मध्ये । णेयेसु ज्ञेयपदार्थेषु । किमिव । रूवमिव चक्खू रूपविषये चक्षुरिव । एवंभूतस्सन् किं करोति । जाणदि पस्सदि जानाति पश्यति च । णियदं निश्चितं संशयरहितं । किंविशिष्टः सन् । अक्खातीदो अक्षातीतः । किं जानाति पश्यति । जगमसेसं शकाय छे; नेत्र अने रूपी पदार्थोनी जेम.) जेम नेत्रो अने तेमना विषयभूत रूपी द्रव्यो परस्पर प्रवेश विना पण ज्ञेयाकारोने ग्रहवाना अने अर्पवाना स्वभाववाळां छे, तेम आत्मा अने पदार्थो एकबीजामां वर्त्या विना पण समस्त ज्ञेयाकारोने ग्रहवाना अने अर्पवाना स्वभाववाळा छे. (जेवी रीते आंख रूपी पदार्थोमां प्रवेशती नथी अने रूपी पदार्थो आंखमां प्रवेशता नथी तोपण आंख रूपी पदार्थोना ज्ञेयाकारोने ग्रहण करवाना — जाणवाना — स्वभाववाळी छे अने रूपी पदार्थो पोताना ज्ञेयाकारोने अर्पवाना — जणाववाना — स्वभाववाळा छे, तेवी रीते आत्मा पदार्थोमां प्रवेशतो नथी अने पदार्थो आत्मामां प्रवेशता नथी तोपण आत्मा पदार्थोना समस्त ज्ञेयाकारोने ग्रहण करवाना — जाणवाना — स्वभाववाळो छे अने पदार्थो पोताना समस्त ज्ञेयाकारोने अर्पवाना — जणाववाना — स्वभाववाळा छे.) २८.
हवे आत्मा पदार्थोमां नहि वर्ततो होवा छतां जेनाथी (जे शक्तिवैचित्र्यथी) तेने पदार्थोमां वर्तवुं सिद्ध थाय छे ते शक्तिवैचित्र्यने प्रकाशे (-दर्शावे) छेः —
Page 49 of 513
PDF/HTML Page 80 of 544
single page version
यथा हि चक्षू रूपिद्रव्याणि स्वप्रदेशैरसंस्पृशदप्रविष्टं परिच्छेद्यमाकारमात्मसात्कुर्वन्न चाप्रविष्टं जानाति पश्यति च, एवमात्माप्यक्षातीतत्वात्प्राप्यकारिताविचारगोचरदूरतामवाप्तो ज्ञेयतामापन्नानि समस्तवस्तूनि स्वप्रदेशैरसंस्पृशन्न प्रविष्टः शक्तिवैचित्र्यवशतो वस्तुवर्तिनः समस्तज्ञेयाकारानुन्मूल्य इव क वलयन्न चाप्रविष्टो जानाति पश्यति च । एवमस्य विचित्रशक्ति योगिनो ज्ञानिनोऽर्थेष्वप्रवेश इव प्रवेशोऽपि सिद्धिमवतरति ।।२९।। जगदशेषमिति । तथा हि ---यथा लोचनं कर्तृ रूपिद्रव्याणि यद्यपि निश्चयेन न स्पृशति तथापि व्यवहारेण स्पृशतीति प्रतिभाति लोके । तथायमात्मा मिथ्यात्वरागाद्यास्रवाणामात्मनश्च संबन्धि यत्केवलज्ञानात्पूर्वं विशिष्टभेदज्ञानं तेनोत्पन्नं यत्केवलज्ञानदर्शनद्वयं तेन जगत्त्रयकालत्रयवर्तिपदार्थान्निश्चयेनास्पृशन्नपि व्यवहारेण स्पृशति, तथा स्पृशन्निव ज्ञानेन जानाति दर्शनेन पश्यति च । कथंभूतस्सन् । अतीन्द्रियसुखास्वादपरिणतः सन्नक्षातीत इति । ततो ज्ञायते निश्चयेनाप्रवेश इव व्यवहारेण ज्ञेयपदार्थेषु
अन्वयार्थः — [चक्षुः रूपं इव] जेवी रीते चक्षु रूपने (ज्ञेयोमां अप्रवेशेलुं रहीने तेम ज अप्रवेशेलुं नहि रहीने जाणे – देखे छे) तेवी रीते [ज्ञानी] आत्मा [अक्षातीतः] इन्द्रियातीत थयो थको [अशेषं जगत्] अशेष जगतने ( – समस्त लोकालोकने) [ज्ञेयेषु] ज्ञेयोमां [न प्रविष्टः] अप्रविष्ट रहीने [न अविष्टः] तेम ज अप्रविष्ट नहि रहीने [नियतं] निरंतर [जानाति पश्यति] जाणे -देखे छे.
टीकाः — जेवी रीते चक्षु रूपी द्रव्योने स्वप्रदेशो वडे अणस्पर्शतुं होवाथी अप्रविष्ट रहीने (जाणे – देखे छे) तेम ज ज्ञेय आकारोने आत्मसात् (-पोतारूप) करतुं होवाथी अप्रविष्ट नहि रहीने जाणे – देखे छे; तेवी रीते आत्मा पण, इन्द्रियातीतपणाने लीधे *प्राप्यकारिताना विचारगोचरपणाथी (पण) दूर थयो थको ज्ञेयभूत समस्त वस्तुओने स्वप्रदेशोथी अणस्पर्शतो होवाथी अप्रविष्ट रहीने (जाणे – देखे छे) तेम ज शक्तिवैचित्र्यने लीधे वस्तुमां वर्तता समस्त ज्ञेयाकारोने जाणे के मूळमांथी उखेडीने कोळियो करी जतो होवाथी अप्रविष्ट नहि रहीने जाणे -देखे छे. आ रीते आ विचित्र शक्तिवाळा आत्माने पदार्थोमां अप्रवेशनी जेम प्रवेश पण सिद्ध थाय छे.
भावार्थः — जोके आंख पोताना प्रदेशो वडे रूपी पदार्थोने स्पर्शती नहि होवाथी निश्चयथी तो ते ज्ञेयोमां अप्रविष्ट छे तोपण ते रूपी पदार्थोने जाणती – देखती होवाथी *प्राप्यकारिता = ज्ञेय विषयोने स्पर्शीने ज कार्य करी शकवुं — जाणी शकवुं — ते. (इन्द्रियातीत थयेला
आत्मामां प्राप्यकारिताना विचारनो पण अवकाश नथी.) प्र. ७