Page 290 of 513
PDF/HTML Page 321 of 544
single page version
इंदियपाणो य तधा बलपाणो तह य आउपाणो य । आणप्पाणप्पाणो जीवाणं होंति पाणा ते ।।१४६।।
स्पर्शनरसनघ्राणचक्षुःश्रोत्रपञ्चकमिन्द्रियप्राणाः, कायवाङ्मनस्त्रयं बलप्राणाः, भव- धारणनिमित्तमायुःप्राणः, उदञ्चनन्यञ्चनात्मको मरुदानपानप्राणः ।।१४६।।
अथ प्राणानां निरुक्त्या जीवत्वहेतुत्वं पौद्गलिकत्वं च सूत्रयति — अनाद्यनन्तस्वभावात्परमात्मपदार्थाद्विपरीतः साद्यन्त आयुःप्राणः, उच्छ्वासनिश्वासजनितखेदरहिता- च्छुद्धात्मतत्त्वात्प्रतिपक्षभूत आनपानप्राणः । एवमायुरिन्द्रियबलोच्छ्वासरूपेणाभेदनयेन जीवानां संबन्धिनश्चत्वारः प्राणा भवन्ति । ते च शुद्धनयेन जीवाद्भिन्ना भावयितव्या इति ।।१४६।। अथ त एव प्राणा भेदनयेन दशविधा भवन्तीत्यावेदयति —
anvayārthaḥ — [इन्द्रियप्राणः च] indriyaprāṇ, [तथा बलप्राणः] baḷaprāṇ, [तथा च आयुःप्राणः] āyuprāṇ [च] tathā [आनपानप्राणः] shvāsochchhvāsaprāṇ — [ते] e (chār) [जीवानां] jīvonā [प्राणाः] prāṇo [भवन्ति] chhe.
ṭīkāḥ — sparshan, rasanā, ghrāṇ, chakṣhu ane shrotra e pāñch, indriyaprāṇ chhe; kāy, vachan ane man e traṇ, baḷaprāṇ chhe; bhavadhāraṇanun nimitta (arthāt manuṣhyādiparyāyanī sthitinun nimitta) te āyuprāṇ chhe; nīche tathā ūñche javun te jenun svarūp chhe evo vāyu (shvās) te shvāsochchhvāsaprāṇ chhe. 146.
have vyutpattithī prāṇone jīvatvanun hetupaṇun tathā temanun paudgalikapaṇun sūtra dvārā kahe chhe (arthāt prāṇo jīvatvanā hetu chhe em vyutpattithī darshāve chhe tathā prāṇo paudgalik chhe em kahe chhe)ḥ —
Page 291 of 513
PDF/HTML Page 322 of 544
single page version
प्राणसामान्येन जीवति जीविष्यति जीवितवांश्च पूर्वमिति जीवः । एवमनादि- संतानप्रवर्तमानतया त्रिसमयावस्थत्वात्प्राणसामान्यं जीवस्य जीवत्वहेतुरस्त्येव । तथापि तन्न जीवस्य स्वभावत्वमवाप्नोति पुद्गलद्रव्यनिर्वृत्तत्वात् ।।१४७।।
इन्द्रियप्राणः पञ्चविधः, त्रिधा बलप्राणः, पुनश्चैक आनपानप्राणः, आयुःप्राणश्चेति भेदेन दश प्राणास्तेऽपि चिदानन्दैकस्वभावात्परमात्मनो निश्चयेन भिन्ना ज्ञातव्या इत्यभिप्रायः ।।“१२।। अथ प्राणशब्दव्युत्पत्त्या जीवस्य जीवत्वं प्राणानां पुद्गलस्वरूपत्वं च निरूपयति — पाणेहिं चदुहिं जीवदि यद्यपि निश्चयेन सत्ताचैतन्यसुखबोधादिशुद्धभावप्राणैर्जीवति तथापि व्यवहारेण वर्तमानकाले द्रव्यभाव- रूपैश्चतुर्भिरशुद्धप्राणैर्जीवति जीविस्सदि जीविष्यति भाविकाले जो हि जीविदो यो हि स्फु टं जीवितः पुव्वं पूर्वकाले सो जीवो स जीवो भवति । ते पाणा ते पूर्वोक्ताः प्राणाः पोग्गलदव्वेहिं णिव्वत्ता उदयागत- पुद्गलकर्मणा निर्वृत्ता निष्पन्ना इति । तत एव कारणात्पुद्गलद्रव्यविपरीतादनन्तज्ञानदर्शनसुख-
anvayārthaḥ — [यः हि] je [चतुर्भिः प्राणैः] chār prāṇothī [जीवति] jīve chhe, [जीविष्यति] jīvashe [जीवितः पूर्वं] ane pūrve jīvato hato, [सः जीवः] te jīv chhe. [पुनः] ām chhatān [प्राणाः] prāṇo to [पुद्गलद्रव्यैः निर्वृत्ताः] pudgaladravyothī niṣhpanna chhe.
ṭīkāḥ — (vyutpatti pramāṇe) prāṇasāmānyathī jīve chhe, jīvashe ane pūrve jīvato hato, te jīv chhe. e rīte (prāṇasāmānya) anādi santānarūpe (-pravāharūpe) pravartatā hovāne līdhe (sansāradashāmān) traṇe kāḷ ṭakatā hovāthī prāṇasāmānya jīvane jīvatvanā hetu chhe ja. tathāpi te (prāṇasāmānya) jīvano svabhāv nathī kāraṇ ke pudgaladravyathī nīpajelā — rachāyelā chhe.
bhāvārthaḥ — joke nishchayathī jīv sadāy bhāvaprāṇathī jīve chhe, topaṇ sansār- dashāmān vyavahārathī tene vyavahārajīvatvanā kāraṇabhūt indriyādi dravyaprāṇothī jīvato
Page 292 of 513
PDF/HTML Page 323 of 544
single page version
यतो मोहादिभिः पौद्गलिककर्मभिर्बद्धत्वाज्जीवः प्राणनिबद्धो भवति, यतश्च प्राणनिबद्धत्वात्पौद्गलिककर्मफलमुपभुञ्जानः पुनरप्यन्यैः पौद्गलिककर्मभिर्बध्यते, ततः वीर्याद्यनन्तगुणस्वभावात्परमात्मतत्त्वाद्भिन्ना भावयितव्या इति भावः ।।१४७।। अथ प्राणानां यत्पूर्व- सूत्रोदितं पौद्गलिकत्वं तदेव दर्शयति — जीवो पाणणिबद्धो जीवः कर्ता चतुर्भिः प्राणैर्निबद्धः संबद्धो भवति । कथंभूतः सन् । बद्धो शुद्धात्मोपलम्भलक्षणमोक्षाद्विलक्षणैर्बद्धः । कैर्बद्धः । मोहादिएहिं कम्मेहिं मोहनीयादिकर्मभिर्बद्धस्ततो ज्ञायते मोहादिकर्मभिर्बद्धः सन् प्राणनिबद्धो भवति, न च कर्मबन्धरहित इति । तत एव ज्ञायते प्राणाः पुद्गलकर्मोदयजनिता इति । तथाविधः सन् किं करोति । उवभुंजदि कम्मफलं परमसमाधिसमुत्पन्ननित्यानन्दैकलक्षणसुखामृतभोजनमलभमानः सन् कटुकविषसमानमपि कर्मफलमुपभुङ्क्ते । बज्झदि अण्णेहिं कम्मेहिं तत्कर्मफलमुपभुञ्जानः सन्नयं जीवः कर्मरहितात्मनो विसदृशैरन्यकर्मभिर्नवतरकर्मभिर्बध्यते । यतः कारणात्कर्मफलं भुञ्जानो नवतर कर्माणि बध्नाति, kahevāmān āve chhe. ām chhatān te dravyaprāṇo ātmānun svarūp bilakul nathī kāraṇ ke teo pudgaladravyathī banelā chhe. 147.
anvayārthaḥ — [मोहादिकैः कर्मभिः] mohādik karmo vaḍe [बद्धः] bandhāyo hovāne līdhe [जीवः] jīv [प्राणनिबद्धः] prāṇothī sanyukta thayo thako [कर्मफलम् उपभुंजानः] karmaphaḷane bhogavatān [अन्यैः कर्मभिः] anya karmo vaḍe [बध्यते] bandhāy chhe.
ṭīkāḥ — (1) mohādik paudgalik karmo vaḍe bandhāyo hovāne līdhe jīv prāṇothī sanyukta thāy chhe ane (2) prāṇothī sanyukta thavāne līdhe paudgalik karmaphaḷane (mohī -rāgī- dveṣhī jīv moh -rāg -dveṣhapūrvak) bhogavato thako pharīne paṇ anya paudgalik karmo vaḍe bandhāy
Page 293 of 513
PDF/HTML Page 324 of 544
single page version
पौद्गलिककर्मकार्यत्वात्पौद्गलिककर्मकारणत्वाच्च पौद्गलिका एव प्राणा निश्चीयन्ते ।।१४८।।
ततो ज्ञायते प्राणा नवतरपुद्गलकर्मणां कारणभूता इति ।।१४८।। अथ प्राणा नवतरपुद्गलकर्मबन्धस्य कारणं भवन्तीति पूर्वोक्तमेवार्थं विशेषेण समर्थयति — पाणाबाधं आयुरादिप्राणानां बाधां पीडां कुणदि करोति । स कः । जीवो जीवः । काभ्यां कृत्वा । मोहपदेसेहिं सक लविमलके वलज्ञानप्रदीपेन मोहान्धकार- विनाशकात्परमात्मनो विपरीताभ्यां मोहप्रद्वेषाभ्यां । केषां प्राणबाधां करोति । जीवाणं एकेन्द्रियप्रमुखजीवानाम् । जदि यदि चेत् सो हवदि बंधो तदा स्वात्मोपलम्भप्राप्तिरूपान्मोक्षाद्विपरीतो मूलोत्तरप्रकृत्यादिभेदभिन्नः स परमागमप्रसिद्धो हि स्फु टं बन्धो भवति । कैः कृत्वा । णाणावरणादिकम्मेहिं ज्ञानावरणादिकर्मभिरिति । ततो ज्ञायते प्राणाः पुद्गलकर्मबन्धकारणं भवन्तीति । अयमत्रार्थः — यथा कोऽपि तप्तलोहपिण्डेन परं हन्तुकामः सन् पूर्वं तावदात्मानमेव हन्ति, पश्चादन्यघाते नियमो नास्ति, तथायमज्ञानी जीवोऽपि तप्तलोहपिण्डस्थानीयमोहादिपरिणामेन परिणतः सन् पूर्वं निर्विकारस्वसंवेदन- chhe, tethī (1) paudgalik karmanān kārya hovāne līdhe ane (2) paudgalik karmanān kāraṇ hovāne līdhe prāṇo paudgalik ja nishchit (nakkī) thāy chhe. 148.
have prāṇone paudgalik karmanun kāraṇapaṇun (arthāt prāṇo paudgalik karmanā kāraṇ kaī rīte chhe te) pragaṭ kare chheḥ —
anvayārthaḥ — [यदि] jo [जीवः] jīv [मोहप्रद्वेषाभ्यां] moh ane dveṣh vaḍe [जीवयोः] jīvonā (-svajīvanā tathā parajīvanā) [प्राणाबाधं करोति] prāṇone bādhā kare chhe, [सः हि] to pūrve kahelo [ज्ञानावरणादिकर्मभिः बन्धः] gnānāvaraṇādik karmo vaḍe bandh [भवति] thāy chhe.
Page 294 of 513
PDF/HTML Page 325 of 544
single page version
प्राणैर्हि तावज्जीवः कर्मफलमुपभुंक्ते; तदुपभुञ्जानो मोहप्रद्वेषावाप्नोति; ताभ्यां स्वजीव- परजीवयोः प्राणाबाधं विदधाति । तदा कदाचित्परस्य द्रव्यप्राणानाबाध्य कदाचिदनाबाध्य स्वस्य भावप्राणानुपरक्तत्वेन बाधमानो ज्ञानावरणादीनि कर्माणि बध्नाति । एवं प्राणाः पौद्गलिककर्मकारणतामुपयान्ति ।।१४९।।
ज्ञानस्वरूपं स्वकीयशुद्धप्राणं हन्ति, पश्चादुत्तरकाले परप्राणघाते नियमो नास्तीति ।।१४९।। अथेन्द्रि- यादिप्राणोत्पत्तेरन्तरङ्गहेतुमुपदिशति — आदा कम्ममलिमसो अयमात्मा स्वभावेन भावकर्मद्रव्यकर्मनोकर्म- मलरहितत्वेनात्यन्तनिर्मलोऽपि व्यवहारेणानादिकर्मबन्धवशान्मलीमसो भवति । तथाभूतः सन् किं करोति । धरेदि पाणे पुणो पुणो अण्णे धारयति प्राणान् पुनःपुनः अन्यान्नवतरान् । यावत्किम् । ण चयदि
ṭīkāḥ — pratham to prāṇothī jīv karmaphaḷane bhogave chhe; tene bhogavato thako moh tathā dveṣhane pāme chhe; moh tathā dveṣhathī svajīv ane parajīvanā prāṇone 1bādhā kare chhe. tyān, kadāchit ( – koī vār) paranā dravyaprāṇone bādhā karīne ane kadāchit (paranā dravyaprāṇone) bādhā nahi karīne, potānā bhāvaprāṇone to 2uparaktapaṇā vaḍe (avashya) bādhā karato thako, (jīv) gnānāvaraṇādi karmo bāndhe chhe. ā pramāṇe prāṇo paudgalik karmonā kāraṇapaṇāne pāme chhe. 149.
have paudgalik prāṇonī santatinī (-pravāhanī, paramparānī) pravr̥uttino antaraṅg hetu sūtra dvārā kahe chheḥ —
2. uparaktapaṇun = malinapaṇun; vikārīpaṇun; mohādipariṇāme pariṇamavun te. [jem koī puruṣh tapelā
( – pote potānā ja hāthane bāḷe chhe), pachhī parane to ījā thāy ke na thāy — niyam nathī; tem
svasamvedanagnānasvarūp nij shuddha bhāvaprāṇane ja ījā kare chhe, pachhī paranā dravyaprāṇone to ījā
thāy ke na thāy — niyam nathī.]
Page 295 of 513
PDF/HTML Page 326 of 544
single page version
येयमात्मनः पौद्गलिकप्राणानां संतानेन प्रवृत्तिः, तस्या अनादिपौद्गलकर्ममूलं शरीरादिममत्वरूपमुपरक्तत्वमन्तरङ्गो हेतुः ।।१५०।।
जाव ममत्तिं निस्नेहचिच्चमत्कारपरिणतेर्विपरीतां ममतां यावत्कालं न त्यजति । केषु विषयेषु । देहपधाणेसु विसयेसु देहविषयरहितपरमचैतन्यप्रकाशपरिणतेः प्रतिपक्षभूतेषु देहप्रधानेषु पञ्चेन्द्रियविषयेष्विति । ततः स्थितमेतत् — इन्द्रियादिप्राणोत्पत्तेर्देहादिममत्वमेवान्तरङ्गकारणमिति ।।१५०।। अथेन्द्रियादिप्राणानामभ्यन्तरं विनाशकारणमावेदयति — जो इंदियादिविजई भवीय यः कर्तातीन्द्रियात्मोत्थसुखामृतसंतोषबलेन जितेन्द्रियत्वेन निःकषायनिर्मलानुभूतिबलेन कषायजयेन चेन्द्रियादिविजयी भूत्वा उवओगमप्पगं झादि
anvayārthaḥ — [यावत्] jyān sudhī [देहप्रधानेषु विषयेषु] dehapradhān viṣhayomān [ममत्वं] mamatva [न त्यजति] chhoḍato nathī, [कर्ममलीमसः आत्मा] tyān sudhī karmathī malin ātmā [पुनः पुनः] pharī pharīne [अन्यान् प्राणान्] anya anya prāṇo [धारयति] dhāraṇ kare chhe.
ṭīkāḥ — je ā ātmāne paudgalik prāṇonī santānarūpe pravr̥utti chhe, teno antaraṅg hetu anādi paudgalik karma jenun mūḷ (-nimitta) chhe evun sharīrādinā mamatvarūp uparaktapaṇun chhe.
bhāvārthaḥ — dravyaprāṇonī paramparā chālyā karavānun antaraṅg kāraṇ anādi pudgalakarmanā nimitte thatun jīvanun vikārī pariṇaman chhe. jyān sudhī jīv dehādik viṣhayomān mamatvarūp evun te vikārī pariṇaman chhoḍato nathī, tyān sudhī tenā nimitte pharī pharī pudgalakarma bandhāyā kare chhe ane tethī pharī pharī dravyaprāṇono sambandh thayā kare chhe. 150.
Page 296 of 513
PDF/HTML Page 327 of 544
single page version
पुद्गलप्राणसंततिनिवृत्तेरन्तरङ्गो हेतुर्हि पौद्गलिककर्ममूलस्योपरक्तत्वस्याभावः । स तु समस्तेन्द्रियादिपरद्रव्यानुवृत्तिविजयिनो भूत्वा समस्तोपाश्रयानुवृत्तिव्यावृत्तस्य स्फ टिकमणे- रिवात्यन्तविशुद्धमुपयोगमात्रमात्मानं सुनिश्चलं केवलमधिवसतः स्यात् । इदमत्र तात्पर्यं — आत्मनोऽत्यन्तविभक्तत्वसिद्धये व्यवहारजीवत्वहेतवः पुद्गलप्राणा एवमुच्छेत्तव्याः ।।१५१।। केवलज्ञानदर्शनोपयोगं निजात्मानं ध्यायति, कम्मेहिं सो ण रज्जदि कर्मभिश्चिच्चमत्कारात्मनः प्रतिबन्ध- कैर्ज्ञानावरणादिकर्मभिः स न रज्यते, न बध्यते । किह तं पाणा अणुचरंति कर्मबन्धाभावे सति तं पुरुषं
anvayārthaḥ — [यः] je [इन्द्रियादिविजयी भूत्वा] indriyādino vijayī thaīne [उपयोगम् आत्मकं] upayogamātra ātmāne [ध्यायति] dhyāve chhe, [सः] te [कर्मभिः] karmo vaḍe [न रज्यते] rañjit thato nathī; [तं] tene [प्राणाः] prāṇo [कथं] kaī rīte [अनुचरन्ति] anusare? (arthāt tene prāṇono sambandh thato nathī.)
ṭīkāḥ — kharekhar paudgalik prāṇonī santatinī nivr̥uttino antaraṅg hetu paudgalik karma jenun kāraṇ ( – nimitta) chhe evā *uparaktapaṇāno abhāv chhe. ane te abhāv je jīv samasta indriyādik paradravyo anusār pariṇatino vijayī thaīne, (anek varṇovāḷā) 1āshray anusār saghaḷī pariṇatithī 2vyāvr̥utta thayelā sphaṭikamaṇinī māphak, atyant vishuddha upayogamātra ātmāmān ekalāmān sunishchaḷapaṇe vase chhe, te jīvane hoy chhe.
ā ahīn tātparya chhe ke — ātmānun atyant vibhaktapaṇun sādhavā māṭe vyavahār- jīvatvanā hetubhūt paudgalik prāṇo ā rīte uchchhedavāyogya chhe.
bhāvārthaḥ — jem anek raṅgavāḷī āshrayabhūt vastu anusār je (sphaṭikamaṇinun) anekaraṅgī pariṇaman tenāthī taddan vyāvr̥utta thayelā sphaṭikamaṇine uparaktapaṇāno abhāv chhe, tem anek prakāranān karma, indriyo ityādi anusār je (ātmānun) anek prakāranun vikārī pariṇaman tenāthī taddan vyāvr̥utta thayelā ātmāne ( – ke je ekalā upayogamātra ātmāmān *uparaktapaṇun = vikr̥utapaṇun; malinapaṇun; rañjitapaṇun; uparāgavāḷāpaṇun. (uparāgano artha 248mā pāne padaṭippaṇamān juo.) 1. āshray = jemān sphaṭikamaṇi mūkelo hoy te vastu. 2. vyāvr̥utta thavun = judā thavun; aṭakavun; rahit thavun; pāchhā pharavun.
Page 297 of 513
PDF/HTML Page 328 of 544
single page version
अथ पुनरप्यात्मनोऽत्यन्तविभक्तत्वसिद्धये गतिविशिष्टव्यवहारजीवत्वहेतुपर्यायस्वरूप- मुपवर्णयति —
गाथात्रयम् । तदनन्तरं तेषां संयोगकारणं ‘अप्पा उवओगप्पा’ इत्यादि गाथाद्वयम् । तदनन्तरं
ā rītathī paudgalik prāṇono uchchhed karavāyogya chhe. 151. have pharīne paṇ, ātmānun atyant vibhaktapaṇun sādhavā māṭe, vyavahārajīvatvanā hetu evā je gativishiṣhṭa (dev -manuṣhyādi) paryāyo temanun svarūp varṇave chheḥ —
anvayārthaḥ — [अस्तित्वनिश्चितस्य अर्थस्य हि] astitvathī nishchit arthano (dravyano) [अर्थान्तरे संभूतः] anya arthamān (-dravyamān) ūpajato [अर्थः] je artha (-bhāv) [सः पर्यायः] te paryāy chhe — [संस्थानादिप्रभेदैः] ke je sansthānādi bhedo sahit hoy chhe. pra. 38
Page 298 of 513
PDF/HTML Page 329 of 544
single page version
स्वलक्षणभूतस्वरूपास्तित्वनिश्चितस्यैकस्यार्थस्य स्वलक्षणभूतस्वरूपास्तित्वनिश्चित एवान्य- स्मिन्नर्थे विशिष्टरूपतया संभावितात्मलाभोऽर्थोऽनेकद्रव्यात्मकः पर्यायः । स खलु पुद्गलस्य पुद्गलान्तर इव जीवस्य पुद्गले संस्थानादिविशिष्टतया समुपजायमानः संभाव्यत एव । उपपन्नश्चैवंविधः पर्यायः । अनेकद्रव्यसंयोगात्मत्वेन केवलजीवव्यतिरेक मात्रस्यैकद्रव्यपर्यायस्या- स्खलितस्यान्तरवभासनात् ।।१५२।।
अथ पर्यायव्यक्तीर्दर्शयति — प्रथमविशेषान्तराधिकारे समुदायपातनिका । तद्यथा — अथ पुनरपि शुद्धात्मनो विशेषभेदभावनार्थं नरनारकादिपर्यायरूपं व्यवहारजीवत्वहेतुं दर्शयति — अत्थित्तणिच्छिदस्स हि चिदानन्दैकलक्षणस्वरूपास्ति- त्वेन निश्चितस्य ज्ञातस्य हि स्फु टम् । कस्य । अत्थस्स परमात्मपदार्थस्य अत्थंतरम्हि शुद्धात्मार्थादन्यस्मिन् ज्ञानावरणादिकर्मरूपे अर्थान्तरे संभूदो संजात उत्पन्नः अत्थो यो नरनारकादिरूपोऽर्थः, पज्जाओ सो निर्विकारशुद्धात्मानुभूतिलक्षणस्वभावव्यञ्जनपर्यायादन्यादृशः सन् विभावव्यञ्जनपर्यायो भवति स इत्थंभूतपर्यायो जीवस्य । कैः कृत्वा जातः । संठाणादिप्पभेदेहिं संस्थानादिरहितपरमात्मद्रव्यविलक्षणैः संस्थानसंहननशरीरादिप्रभेदैरिति ।।१५२।। अथ तानेव पर्यायभेदान् व्यक्तीकरोति — णरणारयतिरियसुरा
ṭīkāḥ — svalakṣhaṇabhūt svarūp -astitvathī nishchit (-nakkī thatā) ek arthano (-dravyano), svalakṣhaṇabhūt svarūp -astitvathī ja nishchit evā anya arthamān (-dravyamān) vishiṣhṭarūpe (-bhinna bhinna rūpe) ūpajato je artha (-bhāv), te anekadravyātmak paryāy chhe. te anekadravyātmak paryāy kharekhar, jem pudgalano anya pudgalamān (anekadravyātmak paryāy) ūpajato jovāmān āve chhe tem, jīvano pudgalamān sansthānādithī vishiṣhṭapaṇe (-sansthān vagerenā bhedo sahit) ūpajato anubhavamān āve ja chhe. ane āvo paryāy upapanna (-yogya, ghaṭit, nyāyayukta) chhe; kāraṇ ke je kevaḷ jīvano vyatirekamātra chhe evo askhalit ekadravyaparyāy ja anek dravyonā sanyogātmakapaṇe andaramān avabhāse (-jaṇāy) chhe.
bhāvārthaḥ — joke darek dravyanun svarūp -astitva sadāy bhinna bhinna rahe chhe topaṇ, jem pudgalano anya pudgalanā sambandhe skandharūp paryāy thāy chhe tem jīvano pudgalonā sambandhe devādik paryāy thāy chhe. jīvano āvo anekadravyātmak devādiparyāy ayukta nathī; kāraṇ ke andaramān jotān, anek dravyono sanyog hovā chhatān paṇ, jīv kāī pudgalo sāthe ekarūp paryāy karato nathī, parantu tyān paṇ ekalā jīvano (-pudgalaparyāyathī judo-) askhalit (-potāthī nahi chyut thato) ekadravyaparyāy ja sadāy vartyā kare chhe. 152.
Page 299 of 513
PDF/HTML Page 330 of 544
single page version
नारकस्तिर्यङ्मनुष्यो देव इति किल पर्याया जीवानाम् । ते खलु नामकर्मपुद्गल- विपाककारणत्वेनानेकद्रव्यसंयोगात्मकत्वात् कुकूलाङ्गारादिपर्याया जातवेदसः क्षोदखिल्व- संस्थानादिभिरिव संस्थानादिभिरन्यथैव भूता भवन्ति ।।१५३।। नरनारकतिर्यग्देवरूपा अवस्थाविशेषाः । संठाणादीहिं अण्णहा जादा संस्थानादिभिरन्यथा जाताः, मनुष्यभवे यत्समचतुरस्रादिसंस्थानमौदारिकशरीरादिकं च तदपेक्षया भवान्तरेऽन्यद्विसद्रशं संस्थानादिकं भवति । तेन कारणेन ते नरनारकादिपर्याया अन्यथा जाता भिन्ना भण्यन्ते; न च शुद्धबुद्धैकस्वभावपरमात्मद्रव्यत्वेन । कस्मात् । तृणकाष्ठपत्राकारादिभेदभिन्नस्याग्नेरिव स्वरूपं तदेव । पज्जाया जीवाणं ते च नरनारकादयो जीवानां विभावव्यञ्जनपर्याया भण्यन्ते । कैः कृत्वा । उदयादिहिं णामकम्मस्स उदयादिभिर्नामकर्मणो निर्दोषपरमात्मशब्दवाच्यान्निर्णामनिर्गोत्रादिलक्षणाच्छुद्धात्मद्रव्याद- न्यादृशैर्नामकर्मजनितैर्बन्धोदयोदीरणादिभिरिति । यत एव ते कर्मोदयजनितास्ततो ज्ञायते
anvayārthaḥ — [नरनारकतिर्यक्सुराः] manuṣhya, nārak, tiryañch ane dev — e, [नामकर्मणः उदयादिभिः] nāmakarmanā udayādikane līdhe [जीवानां पर्यायाः] jīvonā paryāy chhe — [संस्थानादिभिः] ke jeo sansthānādi vaḍe [अन्यथा जाताः] anya anya prakāranā hoy chhe.
ṭīkāḥ — nārak, tiryañch, manuṣhya ane dev — e jīvonā paryāy chhe. teo nām- karmarūp pudgalanā vipākane kāraṇe anek dravyanā sanyogātmak chhe, tethī jem +tuṣhānal, aṅgār vagere agninā paryāyo bhūkārūp, gāṅgaḍārūp ityādi sansthāno (ākāro) vaḍe anya anya prakāranā hoy chhe, tem jīvanā te nārakādiparyāyo sansthānādi vaḍe anya anya prakāranā ja hoy chhe. 153. +tuṣhānal = photarānno agni. [tuṣhānal bhūkānā ākāre hoy chhe ane aṅgāro gāṅgaḍānā ākāre hoy chhe.]
Page 300 of 513
PDF/HTML Page 331 of 544
single page version
यत्खलु स्वलक्षणभूतं स्वरूपास्तित्वमर्थनिश्चायकमाख्यातं स खलु द्रव्यस्य स्वभाव एव, सद्भावनिबद्धत्वाद्द्रव्यस्वभावस्य । यथासौ द्रव्यस्वभावो द्रव्यगुणपर्यायत्वेन स्थित्युत्पादव्ययत्वेन च त्रितयीं विकल्पभूमिकामधिरूढः परिज्ञायमानः परद्रव्ये मोहमपोह्य स्वपरविभागहेतुर्भवति, शुद्धात्मस्वरूपं न संभवन्तीति ।।१५३।। अथ स्वरूपास्तित्वलक्षणं परमात्मद्रव्यं योऽसौ जानाति स परद्रव्ये मोहं न करोतीति प्रकाशयति — जाणदि जानाति । जो यः कर्ता । कम् । तं पूर्वोक्तं दव्वसहावं परमात्मद्रव्यस्वभावम् । किंविशिष्टम् । सब्भावणिबद्धं स्वभावः स्वरूपसत्ता तत्र निबद्धमाधीनं तन्मयं
have, ātmānun anya dravya sāthe sanyuktapaṇun hovā chhatān, *arthanishchāyak astitvane sva -paranā vibhāganā hetu tarīke samajāve chheḥ —
anvayārthaḥ — [यः] je jīv [तं] te (pūrvokta) [सद्भावनिबद्धं] astitvaniṣhpanna, [त्रिधा समाख्यातं] traṇ prakāre kahelā, [सविकल्पं] bhedovāḷā [द्रव्यस्वभावं] dravyasvabhāvane [जानाति] jāṇe chhe, [सः] te [अन्यद्रव्ये] anya dravyamān [न मुह्यति] moh pāmato nathī.
ṭīkāḥ — je, dravyane nakkī karanārun, svalakṣhaṇabhūt svarūp -astitva kahevāmān āvyun, te kharekhar dravyano svabhāv ja chhe; kāraṇ ke dravyano svabhāv astitvaniṣhpanna (astitvano banelo) chhe. dravya -guṇ -paryāyapaṇe tathā dhrauvya -utpād -vyayapaṇe +trayātmak bhedabhūmikāmān ārūḍh evo ā dravyasvabhāv jaṇāto thako paradravya pratyenā mohane dūr karīne sva -paranā *arthanishchāyak = dravyano nishchay karanārun; dravyane nakkī karanārun. (dravyano nirṇay karavānun sādhan je svarūp -astitva te sva -parano bhed pāḍavāmān sādhanabhūt chhe em ā gāthāmān samajāve chhe.) +trayātmak = traṇasvarūp; traṇanā samūhasvarūp. (dravyano svabhāv dravya, guṇ ne paryāy evā traṇ bhedovāḷo tathā dhrauvya, utpād ne vyay evā traṇ bhedovāḷo chhe.)
Page 301 of 513
PDF/HTML Page 332 of 544
single page version
ततः स्वरूपास्तित्वमेव स्वपरविभागसिद्धये प्रतिपदमवधार्यम् । तथाहि — यच्चेतनत्वान्वयलक्षणं द्रव्यं, यश्चेतनाविशेषत्वलक्षणो गुणो, यश्चेतनत्वव्यतिरेकलक्षणः पर्यायस्तत्त्रयात्मकं, या पूर्वोत्तरव्यतिरेकस्पर्शिना चेतनत्वेन स्थितिर्यावुत्तरपूर्वव्यतिरेकत्वेन चेतनस्योत्पादव्ययौ तत्त्रयात्मकं च स्वरूपास्तित्वं यस्य नु स्वभावोऽहं स खल्वयमन्यः । यच्चाचेतनत्वान्वयलक्षणं द्रव्यं, योऽचेतनाविशेषत्वलक्षणो गुणो, योऽचेतनत्वव्यतिरेकलक्षणः पर्यायस्तत्त्रयात्मकं, या पूर्वोत्तरव्यतिरेकस्पर्शिनाचेतनत्वेन स्थितिर्यावुत्तरपूर्वव्यतिरेकत्वेनाचेतनस्योत्पादव्ययौ तत्त्रयात्मकं च स्वरूपास्तित्वं यस्य तु स्वभावः पुद्गलस्य स खल्वयमन्यः । नास्ति मे मोहोऽस्ति स्वपरविभागः ।।१५४।। सद्भावनिबद्धम् । पुनरपि किंविशिष्टम् । तिहा समक्खादं त्रिधा समाख्यातं कथितम् । केवलज्ञानादयो गुणाः सिद्धत्वादिविशुद्धपर्यायास्तदुभयाधारभूतं परमात्मद्रव्यत्वमित्युक्तलक्षणत्रयात्मकं तथैव शुद्धोत्पादव्ययध्रौव्यत्रयात्मकं च यत्पूर्वोक्तं स्वरूपास्तित्वं तेन कृत्वा त्रिधा सम्यगाख्यातं कथितं प्रतिपादितम् । पुनरपि कथंभूतं आत्मस्वभावम् । सवियप्पं सविकल्पं पूर्वोक्तद्रव्यगुणपर्यायरूपेण सभेदम् । य इत्थंभूतमात्मस्वभावं जानाति, ण मुहदि सो अण्णदवियम्हि न मुह्यति सोऽन्यद्रव्ये, स तु vibhāgano hetu thāy chhe, tethī svarūp -astitva ja sva -paranā vibhāganī siddhi māṭe pade pade avadhāravun (-khyālamān levun). te ā pramāṇeḥ
(1) chetanapaṇāno anvay jenun lakṣhaṇ chhe evun je dravya, (2) chetanāvisheṣhatva (-chetanānun visheṣhapaṇun) jenun lakṣhaṇ chhe evo je guṇ ane (3) chetanapaṇāno vyatirek jenun lakṣhaṇ chhe evo je paryāy — e trayātmak (evun svarūp -astitva), tathā (1) *pūrva ne uttar vyatirekane sparshanārā chetanapaṇe je dhrauvya ane (2 -3) chetananā uttar ne pūrva vyatirekapaṇe je utpād ne vyay — e trayātmak (evun) svarūp -astitva jeno svabhāv chhe evo hun te kharekhar ā anya chhun (arthāt hun pudgalathī ā judo rahyo). ane (1) achetanapaṇāno anvay jenun lakṣhaṇ chhe evun je dravya, (2) achetanāvisheṣhatva jenun lakṣhaṇ chhe evo je guṇ ane (3) achetanapaṇāno vyatirek jenun lakṣhaṇ chhe evo je paryāy — e trayātmak (evun svarūp -astitva) tathā (1) pūrva ne uttar vyatirekane sparshanārā achetanapaṇe je dhrauvya ane (2 -3) achetananā uttar ne pūrva vyatirekapaṇe je utpād ne vyay — e trayātmak (evun) svarūp -astitva je pudgalano svabhāv chhe te kharekhar ā (mārāthī) anya chhe. (māṭe) mane moh nathī; sva -parano vibhāg chhe. *pūrva eṭale pahelānno; uttar eṭale pachhīno. (chetan pahelānnā ane pachhīnā banne paryāyone sparshe chhe tethī te apekṣhāe dhrauvya chhe, pachhīnā arthāt vartamān paryāyanī apekṣhāe utpād chhe ane
Page 302 of 513
PDF/HTML Page 333 of 544
single page version
भेदज्ञानी विशुद्धज्ञानदर्शनस्वभावमात्मतत्त्वं विहाय देहरागादिपरद्रव्ये मोहं न गच्छतीत्यर्थः ।।१५४।। एवं नरनारकादिपर्यायैः सह परमात्मनो विशेषभेदकथनरूपेण प्रथमस्थले गाथात्रयं गतम् । अथात्मनः पूर्वोक्तप्रकारेण नरनारकादिपर्यायैः सह भिन्नत्वपरिज्ञानं जातं, तावदिदानीं तेषां संयोगकारणं कथ्यते — अप्पा आत्मा भवति । कथंभूतः । उवओगप्पा चैतन्यानुविधायी योऽसावुपयोगस्तेन निर्वृत्तत्वादुपयोगात्मा । उवओगो णाणदंसणं भणिदो स चोपयोगः सविकल्पं ज्ञानं निर्विकल्पं दर्शनमिति भणितः । सो वि सुहो सोऽपि ज्ञानदर्शनोपयोगो धर्मानुरागरूपः शुभः, असुहो विषयानुरागरूपो
bhāvārthaḥ — manuṣhya, dev vagere anekadravyātmak paryāyomān paṇ jīvanun svarūp- astitva ane darek paramāṇunun svarūp -astitva taddan bhinnabhinna chhe. sūkṣhmatāthī jotān tyān jīv ane pudgalanun svarūp -astitva (arthāt potapotānān dravya -guṇ -paryāy ane dhrauvya- utpād -vyay) spaṣhṭapaṇe bhinna jāṇī shakāy chhe. sva -parano bhed pāḍavā māṭe jīve ā svarūp -astitvane pagale pagale khyālamān levun yogya chhe. te ā pramāṇeḥ ā (jāṇavāmān āvatān) chetan dravya -guṇ -paryāy ane chetan dhrauvya -utpād -vyay jeno svabhāv chhe evo hun ā (pudgalathī) judo rahyo; ane ā achetan dravya -guṇ -paryāy ane achetan dhrauvya -utpād- vyay jeno svabhāv chhe evun pudgal ā (mārāthī) judun rahyun. māṭe mane par pratye moh nathī; sva -parano bhed chhe. 154.
have ātmāne atyant vibhakta karavā māṭe paradravyanā sanyoganā kāraṇanun svarūp vichāre chheḥ —
anvayārthaḥ — [आत्मा उपयोगात्मा] ātmā upayogātmak chhe; [उपयोगः] upayog [ज्ञानदर्शनं भणितः] gnān -darshan kahel chhe; [अपि] ane [आत्मनः] ātmāno [सः उपयोगः] te upayog [शुभः अशुभः वा] shubh athavā ashubh [भवति] hoy chhe.
Page 303 of 513
PDF/HTML Page 334 of 544
single page version
आत्मनो हि परद्रव्यसंयोगकारणमुपयोगविशेषः । उपयोगो हि तावदात्मनः स्वभाव- श्चैतन्यानुविधायिपरिणामत्वात् । स तु ज्ञानं दर्शनं च, साकारनिराकारत्वेनोभयरूपत्वा- च्चैतन्यस्य । अथायमुपयोगो द्वेधा विशिष्यते शुद्धाशुद्धत्वेन । तत्र शुद्धो निरुपरागः, अशुद्धः सोपरागः । स तु विशुद्धिसंक्लेशरूपत्वेन द्वैविध्यादुपरागस्य द्विविधः शुभोऽशुभश्च ।।१५५।।
द्वेषमोहरूपश्चाशुभः । वा वा शब्देन शुभाशुभानुरागरहितत्वेन शुद्धः । उवओगो अप्पणो हवदि इत्थं- भूतस्त्रिलक्षण उपयोग आत्मनः संबन्धी भवतीत्यर्थः ।।१५५।। अथोपयोगस्तावन्नरनारकादिपर्याय- कारणभूतस्य कर्मरूपस्य परद्रव्यस्य संयोगकारणं भवति । तावदिदानीं कस्य कर्मणः क उपयोगः कारणं
ṭīkāḥ — kharekhar ātmāne paradravyanā sanyoganun kāraṇ *upayogavisheṣh chhe. pratham to upayog kharekhar ātmāno svabhāv chhe kāraṇ ke te chaitanya -anuvidhāyī pariṇām chhe (arthāt upayog chaitanyane anusarīne thato pariṇām chhe). ane te (upayog) gnān ne darshan chhe, kāraṇ ke chaitanya 1sākār ne 2nirākār em ubhayarūp chhe. have ā upayoganā shuddha ane ashuddha evā be bhed pāḍavāmān āve chhe. temān, shuddha upayog niruparāg (-nirvikār) chhe; ashuddha upayog soparāg (-savikār) chhe. ane te ashuddha upayog shubh ane ashubh em be prakārano chhe, kāraṇ ke uparāg vishuddhirūp ane saṅklesharūp em be prakārano chhe (arthāt vikār mandakaṣhāyarūp ane tīvrakaṣhāyarūp em be prakārano chhe).
bhāvārthaḥ — ātmā upayogasvarūp chhe. pratham to upayoganā be bhed chheḥ shuddha ane ashuddha. pāchhā ashuddha upayoganā be bhed chheḥ shubh ane ashubh. 155.
paradravyanā sanyoganun kāraṇ chhe em 156mī gāthāmān kaheshe.)
2. nirākār = ākāro vinānun; bhedo vinānun; nirvikalpa; sāmānya.
Page 304 of 513
PDF/HTML Page 335 of 544
single page version
उपयोगो हि जीवस्य परद्रव्यसंयोगकारणमशुद्धः । स तु विशुद्धिसंक्लेशरूपोपरागवशात् शुभाशुभत्वेनोपात्तद्वैविध्यः, पुण्यपापत्वेनोपात्तद्वैविध्यस्य परद्रव्यस्य संयोगकारणत्वेन निर्वर्त- यति । यदा तु द्विविधस्याप्यस्याशुद्धस्याभावः क्रियते तदा खलूपयोगः शुद्ध एवावतिष्ठते । स पुनरकारणमेव परद्रव्यसंयोगस्य ।।१५६।।
अथ शुभोपयोगस्वरूपं प्ररूपयति — भवतीति विचारयति — उवओगो जदि हि सुहो उपयोगो यदि चेत् हि स्फु टं शुभो भवति । पुण्णं जीवस्स संचयं जादि तदा काले द्रव्यपुण्यं कर्तृ जीवस्य संचयमुपचयं वृद्धिं याति बध्यत इत्यर्थः । असुहो वा तह पावं अशुभोपयोगो वा तथा तेनैव प्रकारेण पुण्यवद्द्रव्यपापं संचयं याति । तेसिमभावे ण चयमत्थि तयोरभावे न चयोऽस्ति । निर्दोषिनिजपरमात्मभावनारूपेण शुद्धोपयोगबलेन यदा तयोर्द्वयोः शुभाशुभो- पयोगयोरभावः क्रियते तदोभयः संचयः कर्मबन्धो नास्तीत्यर्थः ।।१५६।। एवं शुभाशुभशुद्धोपयोग- त्रयस्य सामान्यकथनरूपेण द्वितीयस्थले गाथाद्वयं गतम् । अथ विशेषेण शुभोपयोगस्वरूपं
anvayārthaḥ — [उपयोगः] upayog [यदि हि] jo [शुभः] shubh hoy [जीवस्य] to jīvane [पुण्यं] puṇya [संचयं याति] sañchay pāme chhe [तथा वा अशुभः] ane jo ashubh hoy [पापं] to pāp sañchay pāme chhe. [तयोः अभावे] temanā (bannenā) abhāvamān [चयः न अस्ति] sañchay thato nathī.
ṭīkāḥ — jīvane paradravyanā sanyoganun kāraṇ ashuddha upayog chhe. ane te (ashuddha upayog) vishuddhi ane saṅklesharūp uparāgane līdhe shubh ane ashubhapaṇe dvividhatāne pāmyo thako, je puṇya ane pāpapaṇe dvividhatāne pāme chhe evun je paradravya tenā sanyoganā kāraṇ tarīke kām kare chhe. (uparāg mandakaṣhāyarūp ane tīvrakaṣhāyarūp em be prakārano hovāthī ashuddha upayog paṇ shubh ane ashubh evā be prakārano chhe; temān, shubh upayog puṇyarūp paradravyanā sanyoganun kāraṇ thāy chhe ane ashubh upayog pāparūp paradravyanā sanyoganun kāraṇ thāy chhe.) parantu jyāre banne prakāranā ā ashuddha upayogano abhāv karavāmān āve chhe tyāre kharekhar upayog shuddha ja rahe chhe; ane te to paradravyanā sanyoganun akāraṇ ja chhe (arthāt shuddha upayog paradravyanā sanyoganun kāraṇ nathī). 156.
Page 305 of 513
PDF/HTML Page 336 of 544
single page version
विशिष्टक्षयोपशमदशाविश्रान्तदर्शनचारित्रमोहनीयपुद्गलानुवृत्तिपरत्वेन परिगृहीत- शोभनोपरागत्वात् परमभट्टारकमहादेवाधिदेवपरमेश्वरार्हत्सिद्धसाधुश्रद्धाने समस्तभूतग्रामानु- कम्पाचरणे च प्रवृत्तः शुभ उपयोगः ।।१५७।।
अथाशुभोपयोगस्वरूपं प्ररूपयति — व्याख्याति — जो जाणादि जिणिंदे यः कर्ता जानाति । कान् । अनन्तज्ञानादिचतुष्टयसहितान् क्षुधाद्यष्टा- दशदोषरहितांश्च जिनेन्द्रान् । पेच्छदि सिद्धे पश्यति । कान् । ज्ञानावरणाद्यष्टकर्मरहितान्सम्यक्त्वाद्यष्ट- गुणान्तर्भूतानन्तगुणसहितांश्च सिद्धान् । तहेव अणगारे तथैवानागारान् । अनागारशब्दवाच्यान्निश्चय- व्यवहारपञ्चाचारादियथोक्तलक्षणानाचार्योपाध्यायसाधून् । जीवेसु साणुकंपो त्रसस्थावरजीवेषु सानुकम्पः सदयः । उवओगो सो सुहो स इत्थंभूत उपयोगः शुभो भण्यते । स च कस्य भवति । तस्स तस्य पूर्वोक्त-
anvayārthaḥ — [यः] je [जिनेन्द्रान्] jinenndrone [जानाति] jāṇe chhe, [सिद्धान् तथैव अनागारान्] siddhone tathā aṇagārone (āchāryo, upādhyāyo ane sādhuone) [पश्यति] shraddhe chhe, [जीवेषु सानुकम्पः] jīvo pratye anukampāyukta chhe, [तस्य] tene [सः] te [शुभः उपयोगः] shubh upayog chhe.
ṭīkāḥ — vishiṣhṭa (khās prakāranī) kṣhayopashamadashāmān rahelān darshanamohanīy ane chāritramohanīyarūp pudgalo anusār pariṇatimān lāgelo hovāne līdhe shubh *uparāg grahyo hovāthī, je (upayog) param bhaṭṭārak, mahā devādhidev, parameshvar evā arhantanī, siddhanī ane sādhunī shraddhā karavāmān tathā samasta jīvasamūhanī anukampā ācharavāmān pravarte chhe, te shubh upayog chhe. 157.
have ashubh upayoganun svarūp prarūpe chheḥ — *uparāgano artha 248mā pāne padaṭippaṇamān juo. pra. 39
Page 306 of 513
PDF/HTML Page 337 of 544
single page version
विसयकसाओगाढो दुस्सुदिदुच्चित्तदुट्ठगोट्ठिजुदो । उग्गो उम्मग्गपरो उवओगो जस्स सो असुहो ।।१५८।।
विशिष्टोदयदशाविश्रान्तदर्शनचारित्रमोहनीयपुद्गलानुवृत्तिपरत्वेन परिगृहीताशोभनोप- रागत्वात्परमभट्टारकमहादेवाधिदेवपरमेश्वरार्हत्सिद्धसाधुभ्योऽन्यत्रोन्मार्गश्रद्धाने विषयकषाय- दुःश्रवणदुराशयदुष्टसेवनोग्रताचरणे च प्रवृत्तोऽशुभोपयोगः ।।१५८।। लक्षणजीवस्येत्यभिप्रायः ।।१५७।। अथाशुभोपयोगस्वरूपं निरूपयति — विसयकसाओगाढो विषय- कषायावगाढः । दुस्सुदिदुच्चित्तदुट्ठगोट्ठिजुदो दुःश्रुतिदुश्चित्तदुष्टगोष्ठियुतः । उग्गो उग्रः । उम्मग्गपरो उन्मार्गपरः । उवओगो एवं विशेषणचतुष्टययुक्त उपयोगः परिणामः जस्स यस्य जीवस्य भवति सो असुहो स उपयोगस्त्वशुभो भण्यते, अभेदेन पुरुषो वा । तथाहि — विषयकषायरहितशुद्धचैतन्यपरिणतेः प्रतिपक्ष- भूतो विषयकषायावगाढो विषयकषायपरिणतः । शुद्धात्मतत्त्वप्रतिपादिका श्रुतिः सुश्रुतिस्तद्विलक्षणा दुःश्रुतिः मिथ्याशास्त्रश्रुतिर्वा; निश्चिन्तात्मध्यानपरिणतं सुचित्तं, तद्विनाशकं दुश्चित्तं, स्वपरनिमित्तेष्ट- कामभोगचिन्तापरिणतं रागाद्यपध्यानं वा; परमचैतन्यपरिणतेर्विनाशिका दुष्टगोष्ठी, तत्प्रतिपक्षभूत- कुशीलपुरुषगोष्ठी वा । इत्थंभूतदुःश्रुतिदुश्चित्तदुष्टगोष्ठीभिर्युतो दुःश्रुतिदुश्चित्तदुष्टगोष्ठियुक्तः । परमोपशम-
anvayārthaḥ — [यस्य उपयोगः] jeno upayog [विषयकषायावगाढः] viṣhay -kaṣhāyamān avagāḍh (magna) chhe, [दुःश्रुतिदुश्चित्तदुष्टगोष्ठियुतः] kushruti, kuvichār ane kusaṅgatimān joḍāyelo chhe, [उग्रः] ugra chhe tathā [उन्मार्गपरः] unmārgamān lāgelo chhe, [सः अशुभः] tene te ashubh upayog chhe.
ṭīkāḥ — vishiṣhṭa udayadashāmān rahelān darshanamohanīy ane chāritramohanīyarūp pudgalo anusār pariṇatimān lāgelo hovāne līdhe ashubh uparāg grahyo hovāthī, je (upayog) param bhaṭṭārak, mahā devādhidev, parameshvar evā arhant, siddha ane sādhu sivāy anyanī — unmārganī — shraddhā karavāmān tathā viṣhay, kaṣhāy, kushravaṇ, kuvichār, kusaṅg ane ugratā ācharavāmān pravarte chhe, te ashubh upayog chhe. 158.
Page 307 of 513
PDF/HTML Page 338 of 544
single page version
यो हि नामायं परद्रव्यसंयोगकारणत्वेनोपन्यस्तोऽशुद्ध उपयोगः स खलु मन्द- तीव्रोदयदशाविश्रान्तपरद्रव्यानुवृत्तितन्त्रत्वादेव प्रवर्तते, न पुनरन्यस्मात् । ततोऽहमेष सर्वस्मिन्नेव परद्रव्ये मध्यस्थो भवामि । एवं भवंश्चाहं परद्रव्यानुवृत्तितन्त्रत्वाभावात् शुभेनाशुभेन वाशुद्धोप- भावपरिणतपरमचैतन्यस्वभावात्प्रतिकूलः उग्रः । वीतरागसर्वज्ञप्रणीतनिश्चयव्यवहारमोक्षमार्गाद्विलक्षण उन्मार्गपरः । इत्थंभूतविशेषणचतुष्टयसहित उपयोगः परिणामः तत्परिणतपुरुषो वेत्यशुभोपयोगो भण्यत इत्यर्थः ।।१५८।। अथ शुभाशुभरहितशुद्धोपयोगं प्ररूपयति — असुहोवओगरहिदो अशुभोपयोगरहितो भवामि । स कः अहं अहं कर्ता । पुनरपि कथंभूतः । सुहोवजुत्तो ण शुभोपयोगयुक्तः परिणतो न भवामि । क्व विषयेऽसौ शुभोपयोगः । अण्णदवियम्हि निजपरमात्मद्रव्यादन्यद्रव्ये । तर्हि कथंभूतो भवामि । होज्जं मज्झत्थो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिन्दाप्रशंसादिविषये मध्यस्थो भवामि । इत्थंभूतः सन् किं करोमि । णाणप्पगमप्पगं झाए ज्ञानात्मकमात्मानं ध्यायामि । ज्ञानेन निर्वृत्तं ज्ञानात्मकं
have paradravyanā sanyoganun je kāraṇ (ashuddha upayog) tenā vināshane abhyāse chheḥ —
anvayārthaḥ — [अन्यद्रव्ये] anya dravyamān [मध्यस्थः] madhyastha [भवन्] thato [अहम्] hun [अशुभोपयोगरहितः] ashubhopayog rahit thayo thako tem ja [शुभोपयुक्तः न] shubhopayukta nahi thayo thako [ज्ञानात्मक म्] gnānātmak [आत्मकं] ātmāne [ध्यायामि] dhyāun chhun.
ṭīkāḥ — je ā, (156mī gāthāmān) paradravyanā sanyoganā kāraṇ tarīke kahevāmān āvelo ashuddha upayog, te kharekhar mand -tīvra udayadashāmān rahelā paradravya anusār pariṇatine ādhīn thavāthī ja pravarte chhe, parantu anya (koī) kāraṇathī nahi. māṭe badhāy paradravyamān hun ā madhyastha thāun. ane em madhyastha thato hun paradravya anusār
Page 308 of 513
PDF/HTML Page 339 of 544
single page version
योगेन निर्मुक्तो भूत्वा केवलस्वद्रव्यानुवृत्तिपरिग्रहात् प्रसिद्धशुद्धोपयोग उपयोगात्मनात्मन्येव नित्यं निश्चलमुपयुक्तस्तिष्ठामि । एष मे परद्रव्यसंयोगकारणविनाशाभ्यासः ।।१५९।।
ध्यायामीति शुद्धोपयोगलक्षणं ज्ञातव्यम् ।।१५९।। एवं शुभाशुभशुद्धोपयोगविवरणरूपेण तृतीयस्थले
mukta thaīne, kevaḷ svadravya anusār pariṇatine grahavāthī jene shuddhopayog siddha thayo chhe
evo thayo thako, upayogātmā vaḍe (upayogarūp nij svarūp vaḍe) ātmāmān ja sadā
nishchaḷapaṇe upayukta rahun chhun. ā māro paradravyanā sanyoganā kāraṇanā vināshano abhyās
chhe. 159.
anvayārthaḥ — [अहं देहः न] hun deh nathī, [मनः न] man nathī, [च एव] tem ja [वाणी न] vāṇī nathī; [तेषां कारणं न] temanun kāraṇ nathī, [कर्ता न] kartā nathī, [कारयिता न] kārayitā (karāvanār) nathī, [कर्तॄणाम् अनुमन्ता न एव] kartāno anumodak nathī.
Page 309 of 513
PDF/HTML Page 340 of 544
single page version
शरीरं च वाचं च मनश्च परद्रव्यत्वेनाहं प्रपद्ये; ततो न तेषु कश्चिदपि मम पक्षपातोऽस्ति, सर्वत्राप्यहमत्यन्तं मध्यस्थोऽस्मि । तथाहि — न खल्वहं शरीरवाङ्मनसां स्वरूपाधारभूतमचेतनद्रव्यमस्मि; तानि खलु मां स्वरूपाधारमन्तरेणाप्यात्मनः स्वरूपं धारयन्ति । ततोऽहं शरीरवाङ्मनःपक्षपातमपास्यात्यन्तं मध्यस्थोऽस्मि । न च मे शरीरवाङ्मनःकारणा- चेतनद्रव्यत्वमस्ति; तानि खलु मां कारणमन्तरेणापि कारणवन्ति भवन्ति । ततोऽहं तत्कारणत्वपक्षपातमपास्यास्म्ययमत्यन्तं मध्यस्थः । न च मे स्वतन्त्रशरीरवाङ्मनःकारकाचेतन- द्रव्यत्वमस्ति; तानि खलु मां कर्तारमन्तरेणापि क्रियमाणानि । ततोऽहं तत्कर्तृत्व- पक्षपातमपास्यास्म्ययमत्यन्तं मध्यस्थः । न च मे स्वतन्त्रशरीरवाङ्मनःकारकाचेतनद्रव्य- प्रयोजकत्वमस्ति; तानि खलु मां कारकप्रयोजकमन्तरेणापि क्रियमाणानि । ततोऽहं तत्कारक- प्रयोजकत्वपक्षपातमपास्यास्म्ययमत्यन्तं मध्यस्थः । न च मे स्वतन्त्रशरीरवाङ्मनःकारका- स्वशुद्धात्मभावनाविषये यत्कृतकारितानुमतस्वरूपं तद्विलक्षणं यन्मनोवचनकायविषये कृतकारितानु- मतस्वरूपं तन्नाहं भवामि । ततः कारणात्तत्पक्षपातं मुक्त्वात्यन्तमध्यस्थोऽस्मीति तात्पर्यम् ।।१६०।।
ṭīkāḥ — sharīr, vāṇī ane manane hun paradravyapaṇe samajun chhun; tethī temanān pratye mane kāī paṇ pakṣhapāt nathī, (te) badhāy pratye hun atyant madhyastha chhun. te ā pramāṇeḥ
kharekhar hun sharīr, vāṇī ane mananā svarūpanā ādhārabhūt evun achetanadravya nathī; hun svarūp -ādhār vinā paṇ (arthāt hun temanā svarūpano ādhār hoyā vinā paṇ) teo kharekhar potānā svarūpane dhāre chhe. māṭe hun sharīr, vāṇī ane manano pakṣhapāt chhoḍī atyant madhyastha chhun.
vaḷī hun sharīr, vāṇī ane mananun kāraṇ evun achetanadravya nathī; hun kāraṇ vinā paṇ (arthāt hun kāraṇ hoyā vinā paṇ) teo kharekhar kāraṇavāḷān chhe. māṭe temanā kāraṇapaṇāno pakṣhapāt chhoḍī hun ā atyant madhyastha chhun.
vaḷī hun svatantrapaṇe sharīr, vāṇī ane mananun kārak ( – karanārun, kartā) evun achetanadravya nathī; hun kartā vinā paṇ teo kharekhar karāy chhe. māṭe temanā kartāpaṇāno pakṣhapāt chhoḍī hun ā atyant madhyastha chhun.
vaḷī hun svatantrapaṇe sharīr, vāṇī ane mananun kārak ( – karanārun, kartā) evun je achetanadravya teno prayojak nathī; hun kartā -prayojak vinā paṇ (arthāt hun temanā kartāno prayojak — temano karāvanār – hoyā vinā paṇ) teo kharekhar karāy chhe. māṭe temanā kartānā prayojakapaṇāno (karāvanārapaṇāno) pakṣhapāt chhoḍī hun ā atyant madhyastha chhun.