Page 10 of 513
PDF/HTML Page 41 of 544
single page version
सम्पद्यते हि दर्शनज्ञानप्रधानाच्चारित्राद्वीतरागान्मोक्षः; तत एव च सरागाद्देवासुर- मनुजराजविभवक्लेशरूपो बन्धः । अतो मुमुक्षुणेष्टफलत्वाद्वीतरागचारित्रमुपादेयमनिष्टफलत्वा- त्सरागचारित्रं हेयम् ।।६।।
निश्चलशुद्धात्मानुभूतिस्वरूपं वीतरागचारित्रमहमाश्रयामीति भावार्थः । एवं प्रथमस्थले नमस्कारमुख्य- त्वेन गाथापञ्चकं गतम् ।।५।। अथोपादेयभूतस्यातीन्द्रियसुखस्य कारणत्वाद्वीतरागचारित्रमुपादेयम् । अतीन्द्रियसुखापेक्षया हेयस्येन्द्रियसुखस्य कारणत्वात्सरागचारित्रं हेयमित्युपदिशति — संपज्जदि सम्पद्यते । किम् । णिव्वाणं निर्वाणम् । कथम् । सह । कैः । देवासुरमणुयरायविहवेहिं देवासुरमनुष्यराजविभवैः । कस्य । जीवस्स जीवस्य । कस्मात् । चरित्तादो चारित्रात् । कथंभूतात् । दंसणणाणप्पहाणादो सम्यग्दर्शन- ज्ञानप्रधानादिति । तद्यथा ---आत्माधीनज्ञानसुखस्वभावे शुद्धात्मद्रव्ये यन्निश्चलनिर्विकारानुभूतिरूपम-
anvayārthaḥ — [ जीवस्य ] jīvane [ दर्शनज्ञानप्रधानात् ] darshanagnānapradhān [ चरित्रात् ] chāritrathī [ देवासुरमनुजराजविभवैः ] devendra, asurendra ne narendranā vaibhavo sahit [ निर्वाणं ] nirvāṇ [ सम्पद्यते ] prāpta thāy chhe. (jīvane sarāgachāritrathī devendra vagerenā vaibhavanī ane vītarāgachāritrathī nirvāṇanī prāpti thāy chhe.)
ṭīkāḥ — darshanagnānapradhān chāritrathī, jo te (chāritra) vītarāg hoy to, mokṣha prāpta thāy chhe; ane tenāthī ja, jo te sarāg hoy to, devendra -asurendra -narendranā vaibhavaklesharūp bandh prāpta thāy chhe. āthī mumukṣhue iṣhṭa phaḷavāḷun hovāthī vītarāgachāritra grahaṇ karavāyogya (upādey) chhe, ane aniṣhṭa phaḷavāḷun hovāthī sarāgachāritra chhoḍavāyogya (hey) chhe. 6.
Page 11 of 513
PDF/HTML Page 42 of 544
single page version
स्वरूपे चरणं चारित्रं, स्वसमयप्रवृत्तिरित्यर्थः । तदेव वस्तुस्वभावत्वाद्धर्मः, शुद्ध- चैतन्यप्रकाशनमित्यर्थः । तदेव च यथावस्थितात्मगुणत्वात्साम्यम् । साम्यं तु दर्शनचारित्र – मोहनीयोदयापादितसमस्तमोहक्षोभाभावादत्यन्तनिर्विकारो जीवस्य परिणामः ।।७।। वस्थानं तल्लक्षणनिश्चयचारित्राज्जीवस्य समुत्पद्यते । किम् । पराधीनेन्द्रियजनितज्ञानसुखविलक्षणं, स्वाधीनातीन्द्रियरूपपरमज्ञानसुखलक्षणं निर्वाणम् । सरागचारित्रात्पुनर्देवासुरमनुष्यराजविभूतिजनको मुख्यवृत्त्या विशिष्टपुण्यबन्धो भवति, परम्परया निर्वाणं चेति । असुरेषु मध्ये सम्यग्दृष्टिः कथमुत्पद्यते इति चेत् – निदानबन्धेन सम्यक्त्वविराधनां कृत्वा तत्रोत्पद्यत इति ज्ञातव्यम् । अत्र निश्चयेन वीतरागचारित्रमुपादेयं सरागं हेयमिति भावार्थः ।।६।। अथ निश्चयचारित्रस्य पर्यायनामानि कथयामीत्यभिप्रायं मनसि संप्रधार्य सूत्रमिंद निरूपयति, एवमग्रेऽपि विवक्षितसूत्रार्थं मनसि धृत्वाथवास्य सूत्रस्याग्रे सूत्रमिदमुचितं भवत्येवं निश्चित्य सूत्रमिदं प्रतिपादयतीति पातनिकालक्षणं यथासंभवं सर्वत्र ज्ञातव्यम् --चारित्तं चारित्रं कर्तृ खलु धम्मो खलु स्फु टं धर्मो भवति । धम्मो जो सो समो त्ति णिद्दिट्ठो धर्मो यः स तु शम इति निर्दिष्टः । समो यस्तु शमः सः मोहक्खोहविहीणो परिणामो अप्पणो
anvayārthaḥ — [चारित्रं] chāritra [खलु] kharekhar [धर्मः] dharma chhe. [यः धर्मः] je dharma chhe [तत् साम्यम्] te sāmya chhe [इति निर्दिष्टम्] em (shāstramān) kahyun chhe. [साम्यं हि] sāmya [मोहक्षोभविहीनः] mohakṣhobharahit evo [आत्मनः परिणामः] ātmāno pariṇām (bhāv) chhe.
ṭīkāḥ — svarūpamān charavun (-ramavun) te chāritra chhe; svasamayamān pravr̥utti (arthāt potānā svabhāvamān pravartavun) evo teno artha chhe. te ja vastuno svabhāv hovāthī dharma chhe; shuddha chaitanyanun prakāshavun evo teno artha chhe. te ja yathāvasthit ātmaguṇ hovāthī (arthāt viṣhamatā vināno – susthit – ātmāno guṇ hovāthī) sāmya chhe. ane sāmya, darshanamohanīy tathā chāritramohanīyanā udayathī utpanna thatā samasta moh ane kṣhobhanā abhāvane līdhe atyant nirvikār evo jīvano pariṇām chhe.
bhāvārthaḥ — shuddha ātmānī shraddhārūp samyaktvathī viruddha bhāv (arthāt mithyātva) te moh, ane nirvikār nishchaḷ chaitanyapariṇatirūp chāritrathī viruddha bhāv (arthāt asthiratā) te kṣhobh. moh ane kṣhobh rahit pariṇām, sāmya, dharma ane chāritra e badhān ekārthavāchak chhe. 7.
Page 12 of 513
PDF/HTML Page 43 of 544
single page version
हु मोहक्षोभविहीनः परिणामः । कस्य । आत्मनः । हु स्फु टमिति । तथाहि --शुद्धचित्स्वरूपे चरणं चारित्रं, तदेव चारित्रं मिथ्यात्वरागादिसंसरणरूपे भावसंसारे पतन्तं प्राणिनमुद्धृत्य निर्विकारशुद्धचैतन्ये धरतीति धर्मः । स एव धर्मः स्वात्मभावनोत्थसुखामृतशीतजलेन कामक्रोधादिरूपाग्निजनितस्य संसारदुःख- दाहस्योपशमकत्वात् शम इति । ततश्च शुद्धात्मश्रद्धानरूपसम्यक्त्वस्य विनाशको दर्शनमोहाभिधानो मोह इत्युच्यते । निर्विकारनिश्चलचित्तवृत्तिरूपचारित्रस्य विनाशकश्चारित्रमोहाभिधानः क्षोभ इत्युच्यते । तयोर्विध्वंसकत्वात्स एव शमो मोहक्षोभविहीनः शुद्धात्मपरिणामो भण्यत इत्यभिप्रायः ।।७।। अथाभेदनयेन धर्मपरिणत आत्मैव धर्मो भवतीत्यावेदयति ---परिणमदि जेण दव्वं तक्काले तम्मयं ति पण्णत्तं परिणमति येन पर्यायेण द्रव्यं कर्तृ तत्काले तन्मयं भवतीति प्रज्ञप्तं यतः कारणात्, तम्हा धम्मपरिणदो आदा धम्मो मुणेदव्वो ततः कारणात् धर्मेण परिणत आत्मैव धर्मो मन्तव्य इति । तद्यथा – निजशुद्धात्मपरिणतिरूपो निश्चयधर्मो भवति । पञ्चपरमेष्ठयादिभक्तिपरिणामरूपो व्यवहार- धर्मस्तावदुच्यते । यतस्तेन तेन विवक्षिताविवक्षितपर्यायेण परिणतं द्रव्यं तन्मयं भवति, ततः पूर्वोक्तधर्मद्वयेन परिणतस्तप्तायःपिण्डवदभेदनयेनात्मैव धर्मो भवतीति ज्ञातव्यम् । तदपि कस्मात् । उपादानकारणसद्रशं हि कार्यमिति वचनात् । तच्च पुनरुपादानकारणं शुद्धाशुद्धभेदेन द्विधा । रागादिविकल्परहितस्वसंवेदनज्ञानमागमभाषया शुक्लध्यानं वा केवलज्ञानोत्पत्तौ शुद्धोपादानकारणं भवति । अशुद्धात्मा तु रागादीनामशुद्धनिश्चयेनाशुद्धोपादानकारणं भवतीति सूत्रार्थः । एवं चारित्रस्य
anvayārthaḥ — [द्रव्यं] dravya je kāḷe [येन] je bhāvarūpe [परिणमति] pariṇame chhe [तत्कालं] te kāḷe [तन्मयं] te -may chhe [इति] em [प्रज्ञप्तं] (jinendradeve) kahyun chhe; [तस्मात्] tethī [धर्मपरिणतः आत्मा] dharmapariṇat ātmā [धर्मः मन्तव्यः] dharma jāṇavo.
Page 13 of 513
PDF/HTML Page 44 of 544
single page version
यत्खलु द्रव्यं यस्मिन्काले येन भावेन परिणमति तत् तस्मिन् काले किलौष्ण्य- परिणतायःपिण्डवत्तन्मयं भवति । ततोऽयमात्मा धर्मेण परिणतो धर्म एव भवतीति सिद्धमात्मनश्चारित्रत्वम् ।।८।।
ṭīkāḥ — kharekhar je dravya je kāḷe je bhāvarūpe pariṇame chhe te dravya te kāḷe, uṣhṇatārūpe pariṇamelā lokhaṇḍanā goḷānī jem, te -may chhe; tethī ā ātmā dharme pariṇamyo thako dharma ja chhe. ā rīte ātmānun chāritrapaṇun siddha thayun.
bhāvārthaḥ — chāritra ātmāno ja bhāv chhe em 7mī gāthāmān kahyun hatun. ā gāthāmān abhedanaye em kahyun ke jem uṣhṇatābhāve pariṇamelo lokhaṇḍano goḷo te pote ja uṣhṇatā chhe — lokhaṇḍano goḷo ne uṣhṇatā judān nathī, tem chāritrabhāve pariṇamelo ātmā pote ja chāritra chhe. 8.
have jīvanun shubhapaṇun, ashubhapaṇun ane shuddhapaṇun (arthāt jīv ja shubh, ashubh ane shuddha chhe em) nakkī kare chheḥ —
anvayārthaḥ — [जीवः] jīv, [परिणामस्वभावः] pariṇāmasvabhāvī hovāthī, [यदा] jyāre [शुभेन वा अशुभेन] shubh ke ashubh bhāve [परिणमति] pariṇame chhe [शुभः अशुभः] tyāre shubh ke ashubh (pote ja) thāy chhe [शुद्धेन] ane jyāre shuddha bhāve pariṇame chhe [तदा शुद्धः हि भवति] tyāre shuddha thāy chhe.
Page 14 of 513
PDF/HTML Page 45 of 544
single page version
यदाऽयमात्मा शुभेनाशुभेन वा रागभावेन परिणमति तदा जपातापिच्छराग- परिणतस्फ टिकवत् परिणामस्वभावः सन् शुभोऽशुभश्च भवति । यदा पुनः शुद्धेनारागभावेन परिणमति तदा शुद्धारागपरिणतस्फ टिकवत्परिणामस्वभावः सन् शुद्धो भवतीति सिद्धं जीवस्य शुभाशुभशुद्धत्वम् ।।९।। परिणामसब्भावो परिणामसद्भावः सन्निति । तद्यथा --यथा स्फ टिकमणिविशेषो निर्मलोऽपि जपापुष्पादि- रक्तकृष्णश्वेतोपाधिवशेन रक्तकृष्णश्वेतवर्णो भवति, तथाऽयं जीवः स्वभावेन शुद्धबुद्धैकस्वरूपोऽपि व्यवहारेण गृहस्थापेक्षया यथासंभवं सरागसम्यक्त्वपूर्वकदानपूजादिशुभानुष्ठानेन, तपोधनापेक्षया तु मूलोत्तरगुणादिशुभानुष्ठानेन परिणतः शुभो ज्ञातव्य इति । मिथ्यात्वाविरतिप्रमादकषाययोगपञ्चप्रत्यय- रूपाशुभोपयोगेनाशुभो विज्ञेयः । निश्चयरत्नत्रयात्मकशुद्धोपयोगेन परिणतः शुद्धो ज्ञातव्य इति । किंच जीवस्यासंख्येयलोकमात्रपरिणामाः सिद्धान्ते मध्यमप्रतिपत्त्या मिथ्यादृष्टयादिचतुर्दशगुणस्थानरूपेण कथिताः । अत्र प्राभृतशास्त्रे तान्येव गुणस्थानानि संक्षेपेणाशुभशुभशुद्धोपयोगरूपेण कथितानि । कथमिति चेत् ---मिथ्यात्वसासादनमिश्रगुणस्थानत्रये तारतम्येनाशुभोपयोगः, तदनन्तरमसंयतसम्यग्द्रष्टि- देशविरतप्रमत्तसंयतगुणस्थानत्रये तारतम्येन शुभोपयोगः, तदनन्तरमप्रमत्तादिक्षीणकषायान्तगुणस्थान- षटके तारतम्येन शुद्धोपयोगः, तदनन्तरं सयोग्ययोगिजिनगुणस्थानद्वये शुद्धोपयोगफलमिति
ṭīkāḥ — jyāre ā ātmā shubh ke ashubh rāgabhāve pariṇame chhe tyāre jāsud- puṣhpanā ke tamālapuṣhpanā (lāl ke kāḷā) raṅge pariṇamelā sphaṭikanī jem, pariṇāmasvabhāvī hovāthī, shubh ke ashubh thāy chhe (arthāt te vakhate ātmā pote ja shubh ke ashubh chhe); ane jyāre shuddha arāgabhāve pariṇame chhe tyāre shuddha araṅge (raṅgarahitapaṇe) pariṇamelā sphaṭikanī jem, pariṇāmasvabhāvī hovāthī, shuddha thāy chhe. (arthāt te vakhate ātmā pote ja shuddha chhe). e rīte jīvanun shubhapaṇun, ashubhapaṇun ane shuddhapaṇun siddha thayun.
bhāvārthaḥ — ātmā sarvathā kūṭastha nathī, paṇ ṭakīne pariṇamavun teno svabhāv chhe; tethī jevā jevā bhāve te pariṇame chhe tevo tevo te pote thaī jāy chhe. jem sphaṭikamaṇi svabhāve nirmaḷ hovā chhatān jyāre lāl ke kāḷā phūlanā sanyoganimitte pariṇame chhe tyāre lāl ke kāḷo pote ja thāy chhe, tem ātmā svabhāve shuddhabuddha -ekasvarūpī hovā chhatān vyavahāre jyāre gr̥uhasthadashāmān samyaktvapūrvak dānapūjādi shubh anuṣhṭhānarūp shubhopayoge ane munidashāmān mūḷ guṇ tathā uttar guṇ vagere shubh anuṣhṭhānarūp shubhopayoge pariṇame chhe tyāre pote ja shubh thāy chhe, ane mithyātvādi pāñch pratyayarūp ashubhopayoge pariṇame chhe tyāre pote ja ashubh thāy chhe. vaḷī jem sphaṭikamaṇi potānā svābhāvik nirmaḷ raṅge pariṇame chhe tyāre pote ja shuddha thāy chhe tem ātmā paṇ nishchayaratnatrayātmak shuddhopayoge pariṇame chhe tyāre pote ja shuddha thāy chhe.
Page 15 of 513
PDF/HTML Page 46 of 544
single page version
न खलु परिणाममन्तरेण वस्तु सत्तामालम्बते । वस्तुनो द्रव्यादिभिः परिणामात् पृथगुपलम्भाभावान्निःपरिणामस्य खरश्रृङ्गकल्पत्वाद् द्रश्यमानगोरसादिपरिणामविरोधाच्च । भावार्थः ।।९।। अथ नित्यैकान्तक्षणिकैकान्तनिषेधार्थं परिणामपरिणामिनोः परस्परं कथंचिदभेदं दर्शयति — णत्थि विणा परिणामं अत्थो मुक्तजीवे तावत्कथ्यते, सिद्धपर्यायरूपशुद्धपरिणामं विना शुद्धजीवपदार्थो नास्ति । कस्मात् । संज्ञालक्षणप्रयोजनादिभेदेऽपि प्रदेशभेदाभावात् । अत्थं विणेह परिणामो मुक्तात्मपदार्थं विना इह जगति शुद्धात्मोपलम्भलक्षणः सिद्धपर्यायरूपः शुद्धपरिणामो नास्ति । कस्मात् । संज्ञादिभेदेऽपि प्रदेशभेदाभावात् । दव्वगुणपज्जयत्थो आत्मस्वरूपं द्रव्यं, तत्रैव केवलज्ञानादयो गुणाः, सिद्धरूपः पर्यायश्च, इत्युक्तलक्षणेषु द्रव्यगुणपर्यायेषु तिष्ठतीति द्रव्यगुणपर्यायस्थो भवति । स
siddhāntamān jīvanā asaṅkhya pariṇāmone madhyam varṇanathī 14 guṇasthānarūpe kahevāmān āvyā chhe. te guṇasthānone saṅkṣhepathī ‘upayog’rūpe varṇavatān, pratham traṇ guṇasthānomān tāratamyapūrvak ghaṭato ghaṭato ashubhopayog, chothāthī chhaṭhṭhā guṇasthān sudhī tāratamyapūrvak (vadhato vadhato) shubhopayog, sātamāthī bāramā guṇasthān sudhī tāratamyapūrvak shuddhopayog ane chhellān be guṇasthānomān shuddhopayoganun phaḷ — āvun varṇan kathañchit thaī shake chhe. 9.
anvayārthaḥ — [इह] ā lokamān [परिणामं विना] pariṇām vinā [अर्थः नास्ति] padārtha nathī, [अर्थं विना] padārtha vinā [परिणामः] pariṇām nathī; [अर्थः] padārtha [द्रव्यगुणपर्यायस्थः] dravya -guṇ -paryāyamān rahelo ane [अस्तित्वनिर्वृत्तः] (utpādavyay dhrauvyamay) astitvathī banelo chhe.
ṭīkāḥ — pariṇām vinā vastu hayātī dharatī nathī, kāraṇ ke vastu dravyādi vaḍe (arthāt dravya -kṣhetra -kāḷ -bhāve) pariṇāmathī judī anubhavamān (jovāmān) āvatī nathī; kem
Page 16 of 513
PDF/HTML Page 47 of 544
single page version
अन्तरेण वस्तु परिणामोऽपि न सत्तामालम्बते । स्वाश्रयभूतस्य वस्तुनोऽभावे निराश्रयस्य परिणामस्य शून्यत्वप्रसङ्गात् । वस्तु पुनरूर्ध्वतासामान्यलक्षणे द्रव्ये सहभाविविशेषलक्षणेषु गुणेषु क्रमभाविविशेषलक्षणेषु पर्यायेषु व्यवस्थितमुत्पादव्ययध्रौव्यमयास्तित्वेन निर्वर्तित- निर्वृत्तिमच्च । अतः परिणामस्वभावमेव ।।१०।। कः कर्ता । अत्थो परमात्मपदार्थः, सुवर्णद्रव्यपीतत्वादिगुणकुण्डलादिपर्यायस्थसुवर्णपदार्थवत् । पुनश्च किंरूपः । अत्थित्तणिव्वत्तो शुद्धद्रव्यगुणपर्यायाधारभूतं यच्छुद्धास्तित्वं तेन निर्वृत्तोऽस्तित्वनिर्वृत्तः, सुवर्णद्रव्यगुणपर्यायास्तित्वनिर्वृत्तसुवर्णपदार्थवदिति । अयमत्र तात्पर्यार्थः । यथा ---मुक्तजीवे द्रव्यगुण- पर्यायत्रयं परस्पराविनाभूतं दर्शितं तथा संसारिजीवेऽपि मतिज्ञानादिविभावगुणेषु नरनारकादि- विभावपर्यायेषु नयविभागेन यथासंभवं विज्ञेयम्, तथैव पुद्गलादिष्वपि । एवं शुभाशुभ- शुद्धपरिणामव्याख्यानमुख्यत्वेन तृतीयस्थले गाथाद्वयं गतम् ।।१०।। अथ वीतरागसरागचारित्रसंज्ञयोः ke (1) pariṇām vinānī vastu gadheḍānān shiṅgaḍān samān chhe (2) tathā tene, jovāmān āvatā goras vagerenā (dūdh, dahīn ādi) pariṇāmo sāthe 1virodh āve chhe. (jem pariṇām vinā vastu hayātī dharatī nathī tem) vastu vinā pariṇām paṇ hayātī dharatā nathī, kāraṇ ke sva -āshrayabhūt vastunā abhāvamān (arthāt potāne āshrayarūp je vastu te na hoy to) nirāshray pariṇāmane shūnyapaṇāno prasaṅg āve chhe.
vaḷī vastu to 2ūrdhvatāsāmānyasvarūp dravyamān, sahabhāvī visheṣhasvarūp (sāthe sāthe rahenārā visheṣho – bhedo jemanun svarūp chhe evā) guṇomān ane kramabhāvī visheṣhasvarūp paryāyomān rahelī ane utpād -vyay -dhrauvyamay astitvathī banelī chhe; māṭe vastu pariṇām- svabhāvavāḷī ja chhe.
bhāvārthaḥ — jyān jyān vastu jovāmān āve chhe tyān tyān pariṇām jovāmān āve chhe; jem ke — goras tenā dūdh, dahīn, ghī, chhāsh vagere pariṇām sahit ja jovāmān āve chhe. jyān pariṇām nathī tyān vastu paṇ nathī; jem ke — kāḷāsh, sumvāḷap vagere pariṇām nathī to gadheḍānān shiṅgaḍānrūp vastu paṇ nathī. māṭe siddha thayun ke vastu pariṇām vinā hotī ja nathī. jem vastu pariṇām vinā hotī nathī tem pariṇām paṇ vastu vinā hotā nathī; kāraṇ ke vasturūp āshray vinā pariṇām konā ādhāre rahe? gorasarūp āshray vinā dūdh, dahīn vagere pariṇām konā ādhāre thāy?
1. jo vastune pariṇām vinānī mānavāmān āve to goras vagere vastuonā dūdh, dahīn ādi pariṇāmo pratyakṣha dekhāy chhe tenī sāthe virodh āve.
2. kāḷanī apekṣhāe ṭakavun tene arthāt kāḷ -apekṣhit pravāhane ūñchāī athavā ūrdhvatā kahevāmān āve chhe. ūrdhvatāsāmānya arthāt anādi -anant ūñcho (kāḷ -apekṣhit) pravāhasāmānya te dravya.
Page 17 of 513
PDF/HTML Page 48 of 544
single page version
अथ चारित्रपरिणामसंपर्कसम्भववतोः शुद्धशुभपरिणामयोरुपादानहानाय फल- मालोचयति —
वस्तुस्वभावश्चेति गृह्यते । स एव धर्मः पर्यायान्तरेण चारित्रं भण्यते । ‘चारित्तं खलु धम्मो’ इति
vaḷī vastu to dravya -guṇ -paryāyamay chhe. tyān traikālik ūrdhva pravāhasāmānya te dravya chhe, sāthe sāthe rahenārā bhedo te guṇo chhe ane krame krame thatā bhedo te paryāyo chhe. āvān dravya, guṇ ne paryāyanī ekatā vinānī koī vastu hotī nathī. bījī rīte kahīe to, vastu utpād -vyay -dhrauvyamay chhe arthāt te ūpaje chhe, viṇase chhe ane ṭake chhe. ām te dravya- guṇ -paryāyamay ane utpād -vyay -dhrauvyamay hovāthī, temān kriyā (pariṇaman) thayā ja kare chhe. māṭe pariṇām vastuno svabhāv ja chhe. 10.
have jemane chāritrapariṇām sāthe samparka (sambandh) chhe evā je shuddha ane shubh (be prakāranā) pariṇāmo temanā grahaṇ tathā tyāg māṭe ( – shuddha pariṇāmane grahavā ane shubh pariṇāmane chhoḍavā māṭe) temanun phaḷ vichāre chheḥ —
anvayārthaḥ — [धर्मेण परिणतात्मा] dharme pariṇamelā svarūpavāḷo [आत्मा] ātmā [यदि] jo [शुद्धसंप्रयोगयुतः] shuddha upayogamān joḍāyelo hoy to [निर्वाणसुखं] mokṣhanā sukhane [प्राप्नोति] pāme chhe [शुभोपयुक्तः वा] ane jo shubh upayogavāḷo hoy to [स्वर्गसुखं] svarganā sukhane (bandhane) pāme chhe. pra. 3
Page 18 of 513
PDF/HTML Page 49 of 544
single page version
यदायमात्मा धर्मपरिणतस्वभावः शुद्धोपयोगपरिणतिमुद्वहति तदा निःप्रत्यनीकशक्तितया स्वकार्यकरणसमर्थचारित्रः साक्षान्मोक्षमवाप्नोति । यदा तु धर्मपरिणतस्वभावोऽपि शुभोप- योगपरिणत्या संगच्छते तदा सप्रत्यनीकशक्तितया स्वकार्यकरणासमर्थः कथंचिद्विरुद्ध- कार्यकारिचारित्रः शिखितप्तघृतोपसिक्तपुरुषो दाहदुःखमिव स्वर्गसुखबन्धमवाप्नोति । अतः शुद्धोपयोग उपादेयः शुभोपयोगो हेयः ।।११।।
च द्विधा भवति । तत्र यच्छुद्धसंप्रयोगशब्दवाच्यं शुद्धोपयोगस्वरूपं वीतरागचारित्रं तेन निर्वाणं लभते । निर्विकल्पसमाधिरूपशुद्धोपयोगशक्त्यभावे सति यदा शुभोपयोगरूपसरागचारित्रेण परिणमति तदा
ṭīkāḥ — jyāre ā ātmā dharmapariṇat svabhāvavāḷo vartato thako shuddhopayog- pariṇatine vahan kare chhe — ṭakāvī rākhe chhe tyāre, je virodhī shakti vinānun hovāne līdhe potānun kārya karavāne samartha chhe evā chāritravāḷo hovāthī, (te) sākṣhāt mokṣhane pāme chhe; ane jyāre te dharmapariṇat svabhāvavāḷo hovā chhatān shubhopayogapariṇati sāthe joḍāy chhe tyāre, je ✽
viruddha kārya karanārun chhe evā chāritravāḷo hovāthī, jem agnithī garam thayelun ghī jenā upar chhāṇṭavāmān āvyun hoy te puruṣh dāhaduḥkhane pāme chhe tem, svargasukhanā bandhane pāme chhe. āthī shuddhopayog upādey chhe ane shubhopayog hey chhe.
bhāvārthaḥ — jem ghī svabhāve shītaḷatā utpanna karanārun hovā chhatān garam ghīthī dajhāy chhe, tem chāritra svabhāve mokṣha karanārun hovā chhatān sarāg chāritrathī bandh thāy chhe. jem ṭhaṇḍun ghī shītaḷatā utpanna kare chhe, tem vītarāg chāritra sākṣhāt mokṣhanun kāraṇ chhe. 11.
have chāritrapariṇām sāthe samparka vināno hovāthī je atyant hey chhe evā ashubh pariṇāmanun phaḷ vichāre chheḥ —
Page 19 of 513
PDF/HTML Page 50 of 544
single page version
यदायमात्मा मनागपि धर्मपरिणतिमनासादयन्नशुभोपयोगपरिणतिमालम्बते तदा कुमनुष्यतिर्यङ्नारकभ्रमणरूपं दुःखसहस्रबन्धमनुभवति । ततश्चारित्रलवस्याप्यभावादत्यन्तहेय एवायमशुभोपयोग इति ।।१२।।
एवमयमपास्तसमस्तशुभाशुभोपयोगवृत्तिः शुद्धोपयोगवृत्तिमात्मसात्कुर्वाणः शुद्धोपयोगा- धिकारमारभते । तत्र शुद्धोपयोगफलमात्मनः प्रोत्साहनार्थमभिष्टौति — पूर्वमनाकुलत्वलक्षणपारमार्थिकसुखविपरीतमाकुलत्वोत्पादकं स्वर्गसुखं लभते । पश्चात् परम- समाधिसामग्रीसद्भावे मोक्षं च लभते इति सूत्रार्थः ।।११।। अथ चारित्रपरिणामासंभवादत्यन्त- हेयस्याशुभोपयोगस्य फलं दर्शयति ---असुहोदएण अशुभोदयेन आदा आत्मा कुणरो तिरियो भवीय णेरइयो कुनरस्तिर्यङ्नारको भूत्वा । किं करोति । दुक्खसहस्सेहिं सदा अभिद्दुदो भमदि अच्चंतं दुःखसहस्रैः सदा सर्वकालमभिद्रुतः कदर्थितः पीडितः सन् संसारे अत्यन्तं भ्रमतीति । तथाहि ---निर्विकारशुद्धात्म- तत्त्वरुचिरूपनिश्चयसम्यक्त्वस्य तत्रैव शुद्धात्मन्यविक्षिप्तचित्तवृत्तिरूपनिश्चयचारित्रस्य च विलक्षणेन विपरीताभिनिवेशजनकेन द्रष्टश्रुतानुभूतपञ्चेन्द्रियविषयाभिलाषतीव्रसंक्लेशरूपेण चाशुभोपयोगेन यदुपार्जितं पापकर्म तदुदयेनायमात्मा सहजशुद्धात्मानन्दैकलक्षणपारमार्थिकसुखविपरीतेन दुःखेन दुःखितः सन् स्वस्वभावभावनाच्युतो भूत्वा संसारेऽत्यन्तं भ्रमतीति तात्पर्यार्थः । एवमुपयोगत्रय- फलकथनरूपेण चतुर्थस्थले गाथाद्वयं गतम् ।।१२।। अथ शुभाशुभोपयोगद्वयं निश्चयनयेन हेयं ज्ञात्वा शुद्धोपयोगाधिकारं प्रारभमाणः, शुद्धात्मभावनामात्मसात्कुर्वाणः सन् जीवस्य प्रोत्साहनार्थं शुद्धो- पयोगफलं प्रकाशयति । अथवा द्वितीयपातनीका --यद्यपि शुद्धोपयोगफलमग्रे ज्ञानं सुखं च संक्षेपेण
anvayārthaḥ — [अशुभोदयेन] ashubh udayathī [आत्मा] ātmā [कुनरः] kumanuṣhya (halako manuṣhya), [तिर्यग्] tiryañch [नैरयिकः] ane nārak [भूत्वा] thaīne [दुःखसहस्रैः] hajāro duḥkhothī [सदा अभिद्रुतः] sadā pīḍit thato [अत्यंतं भ्रमति] (sansāramān) atyant bhame chhe.
ṭīkāḥ — jyāre ā ātmā jarā paṇ dharmapariṇatine nahi prāpta karato thako ashubhopayogapariṇatine avalambe chhe, tyāre te kumanuṣhyapaṇe, tiryañchapaṇe ane nārakapaṇe paribhramaṇarūp hajāro duḥkhonā bandhane anubhave chhe; tethī chāritranā leshamātrano paṇ abhāv hovāthī ā ashubhopayog atyant hey ja chhe. 12.
ā rīte ā (bhagavān kundakundāchāryadev) samasta shubhāshubhopayogavr̥uttine (shubh upayogarūp ane ashubh upayogarūp pariṇatine) ✽apāsta karīne ( – tiraskārīne)
Page 20 of 513
PDF/HTML Page 51 of 544
single page version
अइसयमादसमुत्थं विसयातीदं अणोवममणंतं । अव्वुच्छिण्णं च सुहं सुद्धुवओगप्पसिद्धाणं ।।१३।।
आसंसारापूर्वपरमाद्भुताह्लादरूपत्वादात्मानमेवाश्रित्य प्रवृत्तत्वात्पराश्रयनिरपेक्षत्वादत्यन्त- विलक्षणत्वात्समस्तायतिनिरपायित्वान्नैरन्तर्यप्रवर्तमानत्वाच्चातिशयवदात्मसमुत्थं विषयातीत- विस्तरेण च कथयति तथाप्यत्रापि पीठिकायां सूचनां करोति । अथवा तृतीयपातनिका ---पूर्वं शुद्धोपयोगफलं निर्वाणं भणितमिदानीं पुनर्निर्वाणस्य फलमनन्तसुखं कथयतीति पातनिकात्रयस्यार्थं मनसि धृत्वा सूत्रमिदं प्रतिपादयति ---अइसयं आसंसाराद्देवेन्द्रादिसुखेभ्योऽप्यपूर्वाद्भुतपरमाह्लादरूपत्वाद- तिशयस्वरूपं, आदसमुत्थं रागादिविकल्परहितस्वशुद्धात्मसंवित्तिसमुत्पन्नत्वादात्मसमुत्थं, विसयातीदं निर्विषयपरमात्मतत्त्वप्रतिपक्षभूतपञ्चेन्द्रियविषयातीतत्वाद्विषयातीतं, अणोवमं निरुपमपरमानन्दैकलक्षण- त्वेनोपमारहितत्वादनुपमं, अणंतं अनन्तागामिकाले विनाशाभावादप्रमितत्वाद्वाऽनन्तं, अव्वुच्छिण्णं च shuddhopayogavr̥uttine ātmasāt (ātmarūp, potārūp) karatā thakā shuddhopayog -adhikār sharū kare chhe. temān (pratham) shuddhopayoganā phaḷane ātmānā protsāhan māṭe prashanse chheḥ –
anvayārthaḥ — [शुद्धोपयोगप्रसिद्धानां] shuddhopayogathī ✽niṣhpanna thayelā ātmāonun (kevaḷībhagavantonun ane siddhabhagavantonun) [सुखं] sukh [अतिशयं] atishay, [आत्मसमुत्थं] ātmotpanna, [विषयातीतं] viṣhayātīt (atīndriy), [अनौपम्यं] anupam (upamā vinānun), [अनन्तं] anant [अव्युच्छिन्नं च] ane avichchhinna (atūṭak) chhe.
ṭīkāḥ — (1) anādi sansārathī je āhlād pūrve kadī anubhavāyo nathī evā apūrva, param adbhut āhlādarūp hovāthī ‘atishay’, (2) ātmāne ja āshray karīne (svāshrit) pravartatun hovāthī ‘ātmotpanna’, (3) parāshrayathī nirapekṣha hovāthī ( – sparsha, ras, gandh, varṇa ane shabdanā tathā saṅkalpa -vikalpanā āshrayanī apekṣhā vinānun hovāthī) ‘viṣhayātīt’, (4) atyant vilakṣhaṇ hovāthī (arthāt bījān sukhothī taddan bhinna lakṣhaṇavāḷun *niṣhpanna thavun = nīpajavun; phaḷarūp thavun; siddha thavun. (shuddhopayogathī niṣhpanna thayelā eṭale shuddhopayogarūp kāraṇathī kāryarūp thayelā.)
Page 21 of 513
PDF/HTML Page 52 of 544
single page version
मनौपम्यमनन्तमव्युच्छिन्नं च शुद्धोपयोगनिष्पन्नानां सुखमतस्तत्सर्वथा प्रार्थनीयम् ।।१३।।
प्रतपनाद्विजयनात्तपःसंयुक्तः । विगदरागो वीतरागशुद्धात्मभावनाबलेन समस्तरागादिदोषरहितत्वाद्वि-
ane (6) antar paḍyā vinā pravartatun hovāthī ‘avichchhinna’ — āvun shuddhopayogathī niṣhpanna
anvayārthaḥ — [सुविदितपदार्थ सूत्रः] jemaṇe (nij shuddha ātmādi) padārthone ane sūtrone sārī rīte jāṇyān chhe, [संयमतपःसंयुतः] je sanyam ane tap sahit chhe, [विगतरागः] je vītarāg arthāt rāgarahit chhe [समसुखदुःखः] ane jemane sukh -duḥkh samān chhe, [श्रमणः] evā shramaṇane (munivarane) [शुद्धोपयोगः इति भणितः] ‘shuddhopayogī’ kahevāmān āvyā chhe.
Page 22 of 513
PDF/HTML Page 53 of 544
single page version
सूत्रार्थज्ञानबलेन स्वपरद्रव्यविभागपरिज्ञानश्रद्धानविधानसमर्थत्वात्सुविदितपदार्थसूत्रः । सकलषड्जीवनिकायनिशुम्भनविकल्पात्पंचेन्द्रियाभिलाषविकल्पाच्च व्यावर्त्यात्मनः शुद्धस्वरूपे संयमनात्, स्वरूपविश्रान्तनिस्तरङ्गचैतन्यप्रतपनाच्च संयमतपःसंयुतः । सकलमोहनीयविपाक- विवेकभावनासौष्ठवस्फु टीकृतनिर्विकारात्मस्वरूपत्वाद्विगतरागः । परमकलावलोकनाननुभूयमान- गतरागः । समसुहदुक्खो निर्विकारनिर्विकल्पसमाधेरुद्गता समुत्पन्ना तथैव परमानन्दसुखरसे लीना तल्लया निर्विकारस्वसंवित्तिरूपा या तु परमकला तदवष्टम्भेनेष्टानिष्टेन्द्रियविषयेषु हर्षविषादरहितत्वात्सम- सुखदुःखः । समणो एवंगुणविशिष्टः श्रमणः परममुनिः भणिदो सुद्धोवओगो त्ति शुद्धोपयोगो भणित इत्यभिप्रायः ।।१४।। एवं शुद्धोपयोगफलभूतानन्तसुखस्य शुद्धोपयोगपरिणतपुरुषस्य च कथनरूपेण पञ्चमस्थले गाथाद्वयं गतम् ।।
ṭīkāḥ — sūtronā arthanā gnānabaḷ vaḍe svadravya ane paradravyanā vibhāganā 1parignānamān, shraddhānamān ane vidhānamān (ācharaṇamān) samartha hovāthī (arthāt svadravya ne paradravyanun bhinnapaṇun jāṇyun hovāthī, shraddhyun hovāthī ane amalamān mūkyun hovāthī) je (shramaṇ) ‘padārthone ane (padārthonā pratipādak) sūtrone jemaṇe sārī rīte jāṇyān chhe evā’ chhe, samasta chha jīvanikāyane haṇavānā vikalpathī ane pāñch indriyo sambandhī abhilāṣhānā vikalpathī ātmāne 2vyāvr̥utta karīne ātmānun shuddha svarūpamān sanyaman karyun hovāthī ane 3svarūpavishrānt 4nistaraṅg chaitanya 5pratapatun hovāthī je ‘sanyam ane tap sahit’ chhe, sakaḷ mohanīyanā vipākathī bhedanī bhāvanānā utkr̥uṣhṭapaṇā vaḍe (arthāt samasta mohanīyakarmanā udayathī bhinnapaṇānī utkr̥uṣhṭa bhāvanā vaḍe) nirvikār ātmasvarūpane pragaṭ karyun hovāthī je ‘vītarāg’ chhe, ane param kaḷānā avalokanane līdhe shātāvedanīy tathā ashātāvedanīyanā vipākathī nīpajatān je sukh -duḥkh te sukh -duḥkhajanit pariṇāmanī viṣhamatā nahi anubhavātī hovāthī (arthāt param sukh -rasamān līn nirvikār svasamvedanarūp param kaḷānā anubhavane 1. parignān = pūrun gnān; gnān. 2. vyāvr̥utta karīne = pāchho vāḷīne; aṭakāvīne; alag karīne. 3. svarūpavishrānt = svarūpamān ṭharī gayelun. 4. nistaraṅg = taraṅg vinānun; chañchaḷatā rahit; shānt; vikalpa vagaranun. 5. pratapavun = pratāpavant hovun; jhaḷahaḷavun; dedīpyamān hovun.
Page 23 of 513
PDF/HTML Page 54 of 544
single page version
सातासातवेदनीयविपाकनिर्वर्तितसुखदुःखजनितपरिणामवैषम्यत्वात्समसुखदुःखः श्रमणः शुद्धो- पयोग इत्यभिधीयते ।।१४।।
चेति ‘पक्खीणघाइकम्मो’ इति प्रभृति गाथाद्वयम् । एवं द्वितीयान्तराधिकारे स्थलचतुष्टयेन समुदाय-
have shuddhopayoganī prāpti pachhī turat ja (antar paḍyā vinā) thatī shuddha ātma- svabhāvanī (kevaḷagnānanī) prāptine prashanse chhe.
anvayārthaḥ — [यः] je [उपयोगविशुद्धः] upayogavishuddha (arthāt shuddhopayogī) chhe, [आत्मा] te ātmā [विगतावरणान्तरायमोहरजाः] gnānāvaraṇ, darshanāvaraṇ, antarāy ane moharūp rajathī rahit [स्वयमेव भूतः] svayamev thayo thako [ज्ञेयभूतानां] gneyabhūt padārthonā [पारं याति] pārane pāme chhe. 1. samasukhaduḥkh = sukh ane duḥkh (arthāt iṣhṭa tem ja aniṣhṭa sanyog) banne jemane samān chhe
Page 24 of 513
PDF/HTML Page 55 of 544
single page version
यो हि नाम चैतन्यपरिणामलक्षणेनोपयोगेन यथाशक्ति विशुद्धो भूत्वा वर्तते स खलु प्रतिपदमुद्भिद्यमानविशिष्टविशुद्धिशक्तिरुद्ग्रन्थितासंसारबद्धदृढतरमोहग्रन्थितयात्यन्तनिर्विकारचैतन्यो निरस्तसमस्तज्ञानदर्शनावरणान्तरायतया निःप्रतिघविजृम्भितात्मशक्तिश्च स्वयमेव भूतो ज्ञेयत्वमापन्नानामन्तमवाप्नोति । इह कि लात्मा ज्ञानस्वभावो ज्ञानं तु ज्ञेयमात्रं; ततः समस्त- ज्ञेयान्तर्वर्तिज्ञानस्वभावमात्मानमात्मा शुद्धोपयोगप्रसादादेवासादयति ।।१५।। पातनिका । तद्यथा ---अथ शुद्धोपयोगलाभानन्तरं केवलज्ञानं भवतीति कथयति । अथवा द्वितीयपातनिका ---कुन्दकुन्दाचार्यदेवाः सम्बोधनं कुर्वन्ति, हे शिवकुमारमहाराज, कोऽप्यासन्नभव्यः संक्षेपरुचिः पीठिकाव्याख्यानमेव श्रुत्वात्मकार्यं करोति, अन्यः कोऽपि पुनर्विस्तररुचिः शुद्धोपयोगेन संजातसर्वज्ञस्य ज्ञानसुखादिकं विचार्य पश्चादात्मकार्यं करोतीति व्याख्याति ---उवओगविसुद्धो जो उपयोगेन शुद्धोपयोगेन परिणामेन विशुद्धो भूत्वा वर्तते यः विगदावरणंतरायमोहरओ भूदो विगतावरणान्तरायमोहरजोभूतः सन् । कथम् । सयमेव निश्चयेन स्वयमेव आदा स पूर्वोक्त आत्मा जादि याति गच्छति । किं । परं पारमवसानम् । केषाम् । णेयभूदाणं ज्ञेयभूतपदार्थानाम् । सर्वं जानातीत्यर्थः । अतो विस्तर : — यो निर्मोहशुद्धात्मसंवित्तिलक्षणेन शुद्धोपयोगसंज्ञेनागमभाषया पृथक्त्ववितर्क- वीचारप्रथमशुक्लध्यानेन पूर्वं निरवशेषमोहक्षपणं कृत्वा तदनन्तरं रागादिविकल्पोपाधिरहितस्वसंवित्ति- लक्षणेनैकत्ववितर्कावीचारसंज्ञद्वितीयशुक्लध्यानेन क्षीणकषायगुणस्थानेऽन्तर्मुहूर्तकालं स्थित्वा तस्यै- वान्त्यसमये ज्ञानदर्शनावरणवीर्यान्तरायाभिधानघातिकर्मत्रयं युगपद्विनाशयति, स जगत्त्रयकालत्रय- वर्तिसमस्तवस्तुगतानन्तधर्माणां युगपत्प्रकाशकं केवलज्ञानं प्राप्नोति । ततः स्थितं शुद्धोपयोगात्सर्वज्ञो भवतीति ।।१५।। अथ शुद्धोपयोगजन्यस्य शुद्धात्मस्वभावलाभस्य भिन्नकारक निरपेक्षत्वेनात्माधीनत्वं
ṭīkāḥ — je (ātmā) chaitanyapariṇāmasvarūp upayog vaḍe yathāshakti vishuddha thaīne varte chhe te (ātmā), jene pade pade ( – pagale pagale, paryāye paryāye) *vishiṣhṭa vishuddhishakti pragaṭ thatī jāy chhe evo hovāne līdhe, anādi sansārathī bandhāyelī draḍhatar mohagranthi chhūṭī javāthī atyant nirvikār chaitanyavāḷo ane samasta gnānāvaraṇ, darshanāvaraṇ tathā antarāy naṣhṭa thavāthī nirvighna khīlelī ātmashaktivāḷo svayamev thayo thako, gneyapaṇāne pāmelā (padārtho)nā antane pāme chhe.
ahīn (em kahyun ke), ātmā gnānasvabhāv chhe ane gnān gneyapramāṇ chhe; tethī samasta gneyonī andar pesanārun (arthāt temane jāṇanārun) gnān jeno svabhāv chhe evā ātmāne ātmā shuddhopayoganā prasādathī ja prāpta kare chhe.
Page 25 of 513
PDF/HTML Page 56 of 544
single page version
अथ शुद्धोपयोगजन्यस्य शुद्धात्मस्वभावलाभस्य कारकान्तरनिरपेक्षतयाऽत्यन्त- मात्मायत्तत्वं द्योतयति —
अयं खल्वात्मा शुद्धोपयोगभावनानुभावप्रत्यस्तमितसमस्तघातिकर्मतया समुपलब्ध- शुद्धानन्तशक्तिचित्स्वभावः, शुद्धानन्तशक्तिज्ञायकस्वभावेन स्वतन्त्रत्वाद्गृहीतकर्तृत्वाधिकारः, प्रकाशयति — तह सो लद्धसहावो यथा निश्चयरत्नत्रयलक्षणशुद्धोपयोगप्रसादात्सर्वं जानाति तथैव सः पूर्वोक्तलब्धशुद्धात्मस्वभावः सन् आदा अयमात्मा हवदि सयंभु त्ति णिद्दिट्ठो स्वयम्भूर्भवतीति निर्दिष्टः कथितः । किंविशिष्टो भूतः । सव्वण्हू सव्वलोगपदिमहिदो भूदो सर्वज्ञः सर्वलोकपतिमहितश्च भूतः संजातः । e rīte mohano kṣhay karī nirvikār chetanāvāḷo thaīne, bāramā guṇasthānanā chhellā samaye gnānāvaraṇ, darshanāvaraṇ ane antarāyano yugapad kṣhay karī sarva gneyone jāṇanārā kevaḷagnānane prāpta kare chhe. ā rīte shuddhopayogathī ja shuddhātmasvabhāvano lābh thāy chhe. 15.
have shuddhopayogathī thatī shuddhātmasvabhāvanī prāpti anya kārakothī nirapekṣha ( – svatantra) hovāthī atyant ātmādhīn chhe ( – leshamātra parādhīn nathī) em prakāshe chheḥ —
anvayārthaḥ — [तथा] e rīte [सः आत्मा] te ātmā [लब्धस्वभावः] svabhāvane pāmelo, [सर्वज्ञः] sarvagna [सर्वलोकपतिमहितः] ane 1sarva (traṇe) lokanā adhipatiothī pūjit [स्वयमेव भूतः] svayamev thayo hovāthī [स्वयंभूः भवति] ‘svayambhū’ chhe [इति निर्दिष्टः] em jinendradeve kahyun chhe.
ṭīkāḥ — shuddha upayoganī bhāvanānā prabhāvathī samasta ghātikarmo naṣhṭa thayān hovāthī jeṇe shuddha anantashaktivāḷo chaitanyasvabhāv prāpta karyo chhe evo ā (pūrvokta) ātmā, (1) shuddha anantashaktivāḷā gnāyakasvabhāvane līdhe svatantra hovāthī jeṇe kartāpaṇāno adhikār 1. sarva lokanā adhipatio = traṇe lokanā svāmīo — surendro, asurendro ne chakravartīo. pra. 4
Page 26 of 513
PDF/HTML Page 57 of 544
single page version
शुद्धानन्तशक्तिज्ञानविपरिणमनस्वभावेन प्राप्यत्वात् कर्मत्वं कलयन्, शुद्धानन्तशक्तिज्ञान- विपरिणमनस्वभावेन साधकतमत्वात् करणत्वमनुबिभ्राणः, शुद्धानन्तशक्तिज्ञानविपरिणमन- स्वभावेन कर्मणा समाश्रियमाणत्वात् संप्रदानत्वं दधानः, शुद्धानन्तशक्तिज्ञानविपरिणमनसमये पूर्वप्रवृत्तविकलज्ञानस्वभावापगमेऽपि सहजज्ञानस्वभावेन ध्रुवत्वालम्बनादपादानत्वमुपाददानः, शुद्धानन्तशक्तिज्ञानविपरिणमनस्वभावस्याधारभूतत्वादधिकरणत्वमात्मसात्कुर्वाणः, स्वयमेव षटकारकीरूपेणोपजायमानः, उत्पत्तिव्यपेक्षया द्रव्यभावभेदभिन्नघातिकर्माण्यपास्य स्वयमेवा- विर्भूतत्वाद्वा स्वयंभूरिति निर्दिश्यते । अतो न निश्चयतः परेण सहात्मनः कारकत्व- कथम् । सयमेव निश्चयेन स्वयमेवेति । तथाहि — अभिन्नकारकचिदानन्दैकचैतन्यस्वभावेन स्वतन्त्रत्वात् कर्ता भवति । नित्यानन्दैकस्वभावेन स्वयं प्राप्यत्वात् कर्मकारकं भवति । शुद्धचैतन्यस्वभावेन साधकतमत्वात्करणकारकं भवति । निर्विकारपरमानन्दैकपरिणतिलक्षणेन शुद्धात्मभावरूपकर्मणा grahaṇ karyo chhe evo, (2) shuddha anantashaktivāḷā gnānarūpe pariṇamavānā svabhāvane līdhe pote ja prāpya hovāthī ( – pote ja prāpta thato hovāthī) karmapaṇāne anubhavato, (3) shuddha anantashaktivāḷā gnānarūpe pariṇamavānā svabhāvane līdhe pote ja sādhakatam ( – utkr̥uṣhṭa sādhan) hovāthī karaṇapaṇāne dharato, (4) shuddha anantashaktivāḷā gnānarūpe pariṇamavānā svabhāvane līdhe pote ja karma vaḍe samāshrit thato hovāthī (arthāt karma potāne ja devāmān āvatun hovāthī) sampradānapaṇāne dhāraṇ karato, (5) shuddha anantashaktivāḷā gnānarūpe pariṇamavānā samaye pūrve pravartelā 1vikaḷagnānasvabhāvano nāsh thavā chhatān sahajagnānasvabhāv vaḍe pote ja dhruvapaṇāne avalambato hovāthī apādānapaṇāne dhāraṇ karato, ane (6) shuddha anantashaktivāḷā gnānarūpe pariṇamavānā svabhāvano pote ja ādhār hovāthī adhikaraṇapaṇāne ātmasāt karato — (e rīte) svayamev chha kārakarūp thato hovāthī, athavā utpatti -apekṣhāe 2dravya -bhāvabhede bhinna ghātikarmone dūr karīne svayamev āvirbhūt thayo hovāthī, ‘svayambhū’ kahevāy chhe.
āthī em kahyun ke — nishchayathī paranī sāthe ātmāne kārakapaṇāno sambandh nathī, ke jethī shuddhātmasvabhāvanī prāptine māṭe sāmagrī ( – bāhya sādhano) shodhavānī vyagratāthī jīvo (nakāmā) paratantra thāy chhe. 1. vikaḷ gnān = apūrṇa (mati -shrutādi) gnān 2. dravya -bhāvabhede bhinna ghātikarmo = dravya ne bhāv — evā be bhedavāḷān ghātikarmo; dravya ghātikarmo
Page 27 of 513
PDF/HTML Page 58 of 544
single page version
सम्बन्धोऽस्ति, यतः शुद्धात्मस्वभावलाभाय सामग्रीमार्गणव्यग्रतया परतंत्रैर्भूयते ।।१६।। समाश्रियमाणत्वात्संप्रदानं भवति । तथैव पूर्वमत्यादिज्ञानविकल्पविनाशेऽप्यखण्डितैकचैतन्य- प्रकाशेनाविनश्वरत्वादपादानं भवति । निश्चयशुद्धचैतन्यादिगुणस्वभावात्मनः स्वयमेवाधारत्वादधिकरणं भवतीत्यभेदषट्कारकीरूपेण स्वत एव परिणममाणः सन्नयमात्मा परमात्मस्वभाव-
bhāvārthaḥ — kartā, karma, karaṇ, sampradān, apādān ane adhikaraṇ — e chha kārakonān nām chhe. je svatantrapaṇe (svādhīnapaṇe) kare te kartā; kartā jene pahoñche — prāpta kare te karma; sādhakatam arthāt utkr̥uṣhṭa sādhan te karaṇ; karma jene devāmān āve athavā jenā māṭe karavāmān āve te sampradān; jemānthī karma karavāmān āve evī dhruv vastu te apādān; jemān arthāt jenā ādhāre karma karavāmān āve te adhikaraṇ. ā chha kārako vyavahār ane nishchay em be prakāranān chhe. jyān paranā nimittathī kāryanī siddhi kahevāmān āve tyān vyavahār kārako chhe ane jyān potānā ja upādān kāraṇathī kāryanī siddhi kahevāmān āve tyān nishchay kārako chhe.
vyavahār kārakonun draṣhṭānt ā pramāṇe chheḥ kumbhār kartā chhe; ghaḍo karma chhe; daṇḍ, chakra, dorī vagere karaṇ chhe; jaḷ bharanār māṭe kumbhār ghaḍo kare chhe tethī jaḷ bharanār sampradān chhe; ṭopalāmānthī māṭī laīne ghaḍo kare chhe tethī ṭopalo apādān chhe; jamīnanā ādhāre ghaḍo kare chhe tethī jamīn adhikaraṇ chhe. āmān badhāy kārako judān judān chhe. anya kartā chhe, anya karma chhe, anya karaṇ chhe, anya sampradān, anya apādān ane anya adhikaraṇ chhe. paramārthe koī dravya koīnun kartāhartā thaī shaktun nathī māṭe ā vyavahār chha kārako asatya chhe. teo mātra upacharit asadbhūt vyavahāranayathī kahevāmān āve chhe. nishchayathī koī dravyane anya dravya sāthe kārakapaṇāno sambandh chhe ja nahi.
nishchay kārakonun draṣhṭānt ā pramāṇe chheḥ māṭī svatantrapaṇe ghaḍārūp kāryane pahoñche chhe — prāpta kare chhe tethī māṭī kartā chhe ane ghaḍo karma chhe; athavā, ghaḍo māṭīthī abhinna hovāthī māṭī pote ja karma chhe; potānā pariṇamanasvabhāvathī māṭīe ghaḍo karyo tethī māṭī pote ja karaṇ chhe; māṭīe ghaḍārūp karma potāne ja āpyun tethī māṭī pote ja sampradān chhe; māṭīe potānāmānthī piṇḍarūp avasthā naṣhṭa karīne ghaḍārūp karma karyun ane pote to dhruv rahī tethī pote ja apādān chhe; māṭīe potānā ja ādhāre ghaḍo karyo tethī pote ja adhikaraṇ chhe. ā rīte nishchayathī chha ye kārako ek ja dravyamān chhe. paramārthe ek dravya bījāne sahāy nahi karī shakatun hovāthī ane dravya pote ja, potāne, potānāthī, potāne māṭe, potānāmānthī, potānāmān karatun hovāthī ā nishchay chha kārako ja param satya chhe.
uparyukta rīte dravya pote ja potānī anant shaktirūp sampadāthī paripūrṇa hovāthī pote ja chha kārakarūp thaīne potānun kārya nipajāvavāne samartha chhe; tene bāhya sāmagrī kāī
Page 28 of 513
PDF/HTML Page 59 of 544
single page version
अथ स्वायम्भुवस्यास्य शुद्धात्मस्वभावलाभस्यात्यन्तमनपायित्वं कथंचिदुत्पाद- व्ययध्रौव्ययुक्तत्वं चालोचयति —
केवलज्ञानोत्पत्तिप्रस्तावे यतो भिन्नकारकं नापेक्षते ततः स्वयंभूर्भवतीति भावार्थः ।।१६।। एवं सर्वज्ञमुख्यत्वेन प्रथमगाथा । स्वयंभूमुख्यत्वेन द्वितीया चेति प्रथमस्थले गाथाद्वयं गतम् ।। अथास्य भगवतो द्रव्यार्थिकनयेन नित्यत्वेऽपि पर्यायार्थिकनयेनानित्यत्वमुपदिशति — भंगविहूणो य भवो भङ्ग- विहीनश्च भवः जीवितमरणादिसमताभावलक्षणपरमोपेक्षासंयमरूपशुद्धोपयोगेनोत्पन्नो योऽसौ भवः केवलज्ञानोत्पादः । स किंविशिष्टः । भङ्गविहिनो विनाशरहितः । संभवपरिवज्जिदो विणासो त्ति संभवपरिवर्जितो विनाश इति । योऽसौ मिथ्यात्वरागादिसंसरणरूपसंसारपर्यायस्य विनाशः । स madad karī shakatī nathī. māṭe kevaḷagnān prāpta karavā ichchhanār ātmāe bāhya sāmagrīnī apekṣhā rākhī paratantra thavun nirarthak chhe. shuddhopayogamān līn ātmā pote ja chha kārakarūp thaīne kevaḷagnān prāpta kare chhe. te ātmā pote anant shaktivāḷā gnāyakasvabhāv vaḍe svatantra hovāthī pote ja kartā chhe; pote anant shaktivāḷā kevaḷagnānane prāpta karato hovāthī kevaḷagnān karma chhe, athavā kevaḷagnānathī pote abhinna hovāthī ātmā pote ja karma chhe; potānā anant shaktivāḷā pariṇamanasvabhāvarūp utkr̥uṣhṭa sādhan vaḍe kevaḷagnān karato hovāthī ātmā pote ja karaṇ chhe; potāne ja kevaḷagnān deto hovāthī ātmā pote ja sampradān chhe; potānāmānthī mati -shrutādi apūrṇa gnān dūr karīne kevaḷagnān karato hovāthī ane pote sahaj gnānasvabhāv vaḍe dhruv raheto hovāthī pote ja apādān chhe; potānāmān ja arthāt potānā ja ādhāre kevaḷagnān karato hovāthī pote ja adhikaraṇ chhe. ā rīte svayam (pote ja) chha kārakarūp thato hovāthī te ‘svayambhū’ kahevāy chhe. athavā, anādi kāḷathī ati draḍh bandhāyelān (gnānāvaraṇ, darshanāvaraṇ, mohanīy ane antarāyarūp) dravya tem ja bhāv ghātikarmone naṣhṭa karīne svayamev āvirbhūt thayo arthāt koīnī sahāy vinā potānī meḷe ja pote pragaṭ thayo tethī te ‘svayambhū’ kahevāy chhe. 16.
have ā svayambhūne shuddhātmasvabhāvanī prāptinun atyant avināshīpaṇun ane kathañchit (koī prakāre) utpād -vyay -dhrauvyayuktapaṇun vichāre chheḥ —
Page 29 of 513
PDF/HTML Page 60 of 544
single page version
अस्य खल्वात्मनः शुद्धोपयोगप्रसादात् शुद्धात्मस्वभावेन यो भवः स पुनस्तेन रूपेण प्रलयाभावाद्भङ्गविहीनः । यस्त्वशुद्धात्मस्वभावेन विनाशः स पुनरुत्पादाभावात्संभवपरिवर्जितः । अतोऽस्य सिद्धत्वेनानपायित्वम् । एवमपि स्थितिसंभवनाशसमवायोऽस्य न विप्रतिषिध्यते, भङ्गरहितोत्पादेन संभववर्जितविनाशेन तद्द्वयाधारभूतद्रव्येण च समवेतत्वात् ।।१७।। किंविशिष्टः । संभवविहीनः निर्विकारात्मतत्त्वविलक्षणरागादिपरिणामाभावादुत्पत्तिरहितः । तस्माज्ज्ञायते तस्यैव भगवतः सिद्धस्वरूपतो द्रव्यार्थिकनयेन विनाशो नास्ति । विज्जदि तस्सेव पुणो ठिदिसंभव- णाससमवाओ विद्यते तस्यैव पुनः स्थितिसंभवनाशसमवायः । तस्यैव भगवतः पर्यायार्थिकनयेन
anvayārthaḥ — [भंगविहीनः च भवः] tene ( – shuddhātmasvabhāvane pāmelā ātmāne) vināsh rahit utpād chhe ane [संभवपरिवर्जितः विनाशः हि] utpād rahit vināsh chhe. [तस्य एव पुनः] tene ja vaḷī [स्थितिसंभवनाशसमवायः विद्यते] sthiti, utpād ane vināshano samavāy ( – meḷāp, ekaṭhāpaṇun) chhe.
ṭīkāḥ — kharekhar ā (shuddhātmasvabhāvane pāmelā) ātmāne shuddhopayoganā prasādathī thayelo je shuddhātmasvabhāve (shuddhātmasvabhāvarūpe) utpād te, pharīne te rūpe pralayano abhāv hovāthī, vināsharahit chhe; ane (te ātmāne shuddhopayoganā prasādathī thayelo) je ashuddhātmasvabhāve vināsh te, pharīne utpattino abhāv hovāthī, utpādarahit chhe. āthī (em kahyun ke) te ātmāne siddhapaṇe avināshīpaṇun chhe. ām hovā chhatān te ātmāne dhrauvya, utpād ane vināshano samavāy virodh pāmato nathī, kāraṇ ke te vināsharahit utpād sāthe, utpādarahit vināsh sāthe ane te bannenā ādhārabhūt dravya sāthe samavet (tanmayapaṇe joḍāyelo – ekamek) chhe.
bhāvārthaḥ — svayambhū sarvagnabhagavānane je shuddhātmasvabhāv utpanna thayo te kadī nāsh pāmato nathī tethī temane vināsh vināno utpād chhe; ane anādi avidyājanit vibhāvapariṇām ek vār sarvathā nāsh pāmyā pachhī pharīne ūpajatā nathī tethī temane utpād vināno vināsh chhe. ā rīte ahīn em kahyun ke siddhapaṇe teo avināshī chhe. ām avināshī hovā chhatān teo utpād -vyay -dhrauvya sahit chhe; kāraṇ ke shuddha paryāyanī apekṣhāe temane utpād chhe, ashuddha paryāyanī apekṣhāe vyay chhe ane te bannenā ādhārabhūt ātmāpaṇānī apekṣhāe dhrauvya chhe. 17.