Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 18-29 ; Gnan Adhikar.

< Previous Page   Next Page >


Combined PDF/HTML Page 4 of 28

 

Page 30 of 513
PDF/HTML Page 61 of 544
single page version

अथोत्पादादित्रयं सर्वद्रव्यसाधारणत्वेन शुद्धात्मनोऽप्यवश्यंभावीति विभावयति
उप्पादो य विणासो विज्जदि सव्वस्स अट्ठजादस्स
पज्जाएण दु केणवि अट्ठो खलु होदि सब्भूदो ।।१८।।
उत्पादश्च विनाशो विद्यते सर्वस्यार्थजातस्य
पर्यायेण तु केनाप्यर्थः खलु भवति सद्भूतः ।।१८।।

यथाहि जात्यजाम्बूनदस्याङ्गदपर्यायेणोत्पत्तिद्रर्ष्टा, पूर्वव्यवस्थिताङ्गुलीयकादिपर्यायेण च शुद्धव्यञ्जनपर्यायापेक्षया सिद्धपर्यायेणोत्पादः, संसारपर्यायेण विनाशः, केवलज्ञानादिगुणाधारद्रव्यत्वेन ध्रौव्यमिति ततः स्थितं द्रव्यार्थिकनयेन नित्यत्वेऽपि पर्यायार्थिकनयेनोत्पादव्ययध्रौव्यत्रयं संभवतीति ।।१७।। अथोत्पादादित्रयं यथा सुवर्णादिमूर्तपदार्थेषु दृश्यते तथैवामूर्तेऽपि सिद्धस्वरूपे विज्ञेयं पदार्थत्वादिति निरूपयतिउप्पादो य विणासो विज्जदि सव्वस्स अट्ठजादस्स उत्पादश्च विनाशश्च विद्यते तावत्सर्वस्यार्थजातस्य पदार्थसमूहस्य केन कृत्वा पज्जाएण दु केणवि पर्यायेण तु केनापि विवक्षितेनार्थव्यञ्जनरूपेण स्वभावविभावरूपेण वा स चार्थः किंविशिष्टः अट्ठो खलु होदि सब्भूदो अर्थः खलु स्फु टं सत्ताभूतः सत्ताया अभिन्नो भवतीति तथाहिसुवर्णगोरसमृत्तिकापुरुषादिमूर्त- पदार्थेषु यथोत्पादादित्रयं लोके प्रसिद्धं तथैवामूर्तेऽपि मुक्तजीवे यद्यपि शुद्धात्मरुचिपरिच्छित्ति-

have utpād ādi tray (utpād, vyay ane dhrauvya) sarva dravyone sādhāraṇ hovāthī shuddha ātmāne (kevaḷībhagavānane ane siddhabhagavānane) paṇ 1avashyambhāvī chhe em vyakta kare chheḥ

utpād tem vināsh chhe sau koī vastumātrane,
vaḷī koī paryayathī darek padārtha chhe sadbhūt khare. 18.

anvayārthaḥ[उत्पादः] koī paryāyathī utpād [विनाशः च] ane koī paryāyathī vināsh [सर्वस्य] sarva [अर्थजातस्य] padārthamātrane [विद्यते] hoy chhe; [केन अपि पर्यायेण तु] vaḷī koī paryāyathī [अर्थः] padārtha [सद्भूतः खलु भवति] kharekhar dhruv chhe.

ṭīkāḥjem uttam suvarṇane bājubandharūp paryāyathī utpatti jovāmān āve chhe, pūrva avasthārūpe vartatā vīṇṭī vagere paryāyathī vināsh jovāmān āve chhe ane pīḷāsh vagere 1. avashyambhāvī = jarūr honār; aparihārya.


Page 31 of 513
PDF/HTML Page 62 of 544
single page version

विनाशः, पीततादिपर्यायेण तूभयत्राप्युत्पत्तिविनाशावनासादयतः ध्रुवत्वम्; एवमखिलद्रव्याणां केनचित्पर्यायेणोत्पादः केनचिद्विनाशः केनचिद्ध्र्रौव्यमित्यवबोद्धव्यम् अतः शुद्धात्मनोऽप्युत्पा- दादित्रयरूपं द्रव्यलक्षणभूतमस्तित्वमवश्यंभावि ।।१८।। निश्चलानुभूतिलक्षणस्य संसारावसानोत्पन्नकारणसमयसारपर्यायस्य विनाशो भवति तथैव केवल- ज्ञानादिव्यक्तिरूपस्य कार्यसमयसारपर्यायस्योत्पादश्च भवति, तथाप्युभयपर्यायपरिणतात्मद्रव्यत्वेन ध्रौव्यत्वं पदार्थत्वादिति अथवा यथा ज्ञेयपदार्थाः प्रतिक्षणं भङ्गत्रयेण परिणमन्ति तथा ज्ञानमपि परिच्छित्त्यपेक्षया भङ्गत्रयेण परिणमति षट्स्थानगतागुरुलघुकगुणवृद्धिहान्यपेक्षया वा भङ्गत्रयमव- बोद्धव्यमिति सूत्रतात्पर्यम् ।।१८।। एवं सिद्धजीवे द्रव्यार्थिकनयेन नित्यत्वेऽपि विवक्षितपर्यायेणोत्पाद- व्ययध्रौव्यस्थापनरूपेण द्वितीयस्थले गाथाद्वयं गतम् अथ तं पूर्वोक्तसर्वज्ञं ये मन्यन्ते ते सम्यग्दृष्टयो भवन्ति, परम्परया मोक्षं च लभन्त इति प्रतिपादयति

तं सव्वट्ठवरिट्ठं इट्ठं अमरासुरप्पहाणेहिं
ये सद्दहंति जीवा तेसिं दुक्खाणि खीयंति ।।“१।।

तं सव्वट्ठवरिट्ठं तं सर्वार्थवरिष्ठं इट्ठं इष्टमभिमतं कैः अमरासुरप्पहाणेहिं अमरासुरप्रधानैः ये सद्दहंति ये श्रद्दधति रोचन्ते जीवा भव्यजीवाः तेसिं तेषाम् दुक्खाणि वीतरागपारमार्थिक- सुखविलक्षणानि दुःखानि खीयंति विनाशं गच्छन्ति, इति सूत्रार्थः ।।“ “ “ “ “

।। एवं

paryāyathī to bannemān (bājubandhamān ne vīṇṭīmān) utpatti -vināsh nahi pāmatun hovāthī dhruvapaṇun jovāmān āve chhe, tem sarva dravyone koī paryāyathī utpād, koī paryāyathī vināsh ane koī paryāyathī dhrauvya hoy chhe em jāṇavun. āthī (em kahyun ke) shuddha ātmāne paṇ utpād- vyay -dhrauvyarūp astitva ke je dravyanun lakṣhaṇ chhe te avashyambhāvī chhe.

bhāvārthaḥdravyanun lakṣhaṇ astitva chhe ane astitva utpād -vyay -dhrauvyarūp chhe. māṭe koī paryāyathī utpād, koī paryāyathī vināsh ane koī paryāyathī dhruvapaṇun darek padārthane hoy chhe.

ahīn prashna sambhave chhe keḥ ‘dravyanun astitva utpād vagere traṇathī kem kahyun? ek dhrauvyathī ja kahevun joīe; kāraṇ ke je dhruv rahe te sadā hayāt rahī shake chhe.’ ā prashnanun samādhān ā pramāṇe chheḥ jo padārtha dhruv ja hoy to māṭī, sonun, dūdh vagere samasta padārtho ek ja sādā ākāre rahevā joīe; ghaḍo, kuṇḍaḷ, dahīn vagere bhedo kadī na thavā 1. āvī je je gāthāo shrī amr̥utachandrāchāryadevavirachit tattvapradīpikā ṭīkāmān nathī parantu shrī

jayasenāchāryadevavirachit tātparyavr̥utti ṭīkāmān chhe, te gāthāone chheḍe phūdaḍī (*) karīne te gāthāone
judā nambar āpavāmān āvyā chhe.

Page 32 of 513
PDF/HTML Page 63 of 544
single page version

अथास्यात्मनः शुद्धोपयोगानुभावात्स्वयंभुवो भूतस्य कथमिन्द्रियैर्विना ज्ञानानन्दाविति संदेहमुदस्यति

पक्खीणघादिकम्मो अणंतवरवीरिओ अहियतेजो
जादो अदिंदिओ सो णाणं सोक्खं च परिणमदि ।।१९।।

निर्दोषिपरमात्मश्रद्धानान्मोक्षो भवतीति कथनरूपेण तृतीयस्थले गाथा गता ।। अथास्यात्मनो निर्विकारस्वसंवेदनलक्षणशुद्धोपयोगप्रभावात्सर्वज्ञत्वे सतीन्द्रियैर्विना कथं ज्ञानानन्दाविति पृष्टे प्रत्युत्तरं ददातिपक्खीणघादिकम्मो ज्ञानाद्यनन्तचतुष्टयस्वरूपपरमात्मद्रव्यभावनालक्षणशुद्धोपयोगबलेन प्रक्षीण- घातिकर्मा सन् अणंतवरवीरिओ अनन्तवरवीर्यः पुनरपि किंविशिष्टः अहियतेजो अधिकतेजाः अत्र तेजः शब्देन केवलज्ञानदर्शनद्वयं ग्राह्यम् जादो सो स पूर्वोक्तलक्षण आत्मा जातः संजातः कथंभूतः अणिंदियो अनिन्द्रिय इन्द्रियविषयव्यापाररहितः अनिन्द्रियः सन् किं करोति णाणं सोक्खं च परिणमदि केवलज्ञानमनन्तसौख्यं च परिणमतीति तथाहिअनेन व्याख्यानेन किमुक्तं भवति आत्मा joīe. parantu em to banatun nathī arthāt bhedo to jarūr jovāmān āve chhe. māṭe padārtha sarvathā dhruv na rahetān koī avasthāthī ūpaje paṇ chhe ane koī avasthāthī nāsh paṇ pāme chhe. jo em na mānavāmān āve to sansārano ja lop thāy.

ām darek dravya utpād -vyay -dhrauvyamay hovāthī mukta ātmāne paṇ utpād -vyay- dhrauvya avashya hoy chhe. sthūlatāthī joīe to, siddhaparyāyano utpād thayo, sansāraparyāyano vyay thayo ane ātmāpaṇun dhruv rahyune apekṣhāe mukta ātmāne utpād -vyay -dhrauvya chhe. athavā, mukta ātmānun gnān gney padārthonā ākāre thayā kare chhe tethī sarva gney padārthomān je je prakāre utpādādi thāy chhe te te prakāre gnānamān utpādādi thayā kare chhe, māṭe mukta ātmāne samaye samaye utpād -vyay -dhrauvya hoy chhe. athavā vadhāre sūkṣhmatāthī joīe to, agurulaghuguṇamān thatī ṣhaṭguṇ hānivr̥uddhine līdhe mukta ātmāmān samaye samaye utpād -vyay- dhrauvya varte chhe. ahīn jem siddhabhagavānanān utpādādi kahyān tem kevaḷībhagavānanān paṇ yathāyogya samajī levān. 18.

have shuddhopayoganā prabhāvathī svayambhū thayelā ā (pūrvokta) ātmāne indriyo vinā kaī rīte gnān ane ānand hoy evā sandehanun nirākaraṇ kare chheḥ

prakṣhīṇaghātikarma, anahadavīrya, adhikaprakāsh ne
indriy -atīt thayel ātmā gnānasaukhye pariṇame. 19.

Page 33 of 513
PDF/HTML Page 64 of 544
single page version

प्रक्षीणघातिकर्मा अनन्तवरवीर्योऽधिकतेजाः
जातोऽतीन्द्रियः स ज्ञानं सौख्यं च परिणमति ।।१९।।

अयं खल्वात्मा शुद्धोपयोगसामर्थ्यात् प्रक्षीणघातिकर्मा, क्षायोपशमिकज्ञान- दर्शनासंपृक्तत्वादतीन्द्रियो भूतः सन्निखिलान्तरायक्षयादनन्तवरवीर्यः, कृत्स्नज्ञानदर्शनावरण- प्रलयादधिक के वलज्ञानदर्शनाभिधानतेजाः, समस्तमोहनीयाभावादत्यन्तनिर्विकारशुद्धचैतन्य- स्वभावमात्मानमासादयन् स्वयमेव स्वपरप्रकाशकत्वलक्षणं ज्ञानमनाकु लत्वलक्षणं सौख्यं च भूत्वा परिणमते एवमात्मनो ज्ञानानन्दौ स्वभाव एव स्वभावस्य तु परानपेक्षत्वादिन्द्रियै- र्विनाप्यात्मनो ज्ञानानन्दौ संभवतः ।।१९।। तावन्निश्चयेनानन्तज्ञानसुखस्वभावोऽपि व्यवहारेण संसारावस्थायां कर्मप्रच्छादितज्ञानसुखः सन् पश्चादिन्द्रियाधारेण किमप्यल्पज्ञानं सुखं च परिणमति यदा पुनर्निर्विकल्पस्वसंवित्तिबलेन कर्माभावो भवति तदा क्षयोपशमाभावादिन्द्रियाणि न सन्ति स्वकीयातीन्द्रियज्ञानं सुखं चानुभवति ततः स्थितं इन्द्रियाभावेऽपि स्वकीयानन्तज्ञानं सुखं चानुभवति तदपि कस्मात् स्वभावस्य परापेक्षा नास्तीत्यभिप्रायः ।।१९।। अथातीन्द्रियत्वादेव केवलिनः शरीराधारोद्भूतं भोजनादिसुखं क्षुधादिदुःखं च नास्तीति विचारयतिसोक्खं वा पुण दुक्खं केवलणाणिस्स णत्थि सुखं वा पुनर्दुःखं वा केवलज्ञानिनो

anvayārthaḥ[प्रक्षीणघातिकर्मा] jenān ghātikarmo kṣhay pāmyān chhe, [अतीन्द्रियः जातः] je atīndriy thayo chhe, [अनंतवरवीर्यः] anant jenun uttam vīrya chhe ane [अधिकतेजाः] 1adhik jenun (kevaḷagnān ane kevaḷadarshanarūp) tej chhe [सः] evo te (svayambhū ātmā) [ज्ञानं सौख्यं च] gnān ane sukharūpe [परिणमति] pariṇame chhe.

ṭīkāḥshuddhopayoganā sāmarthyathī jenān ghātikarmo kṣhay pāmyān chhe, kṣhāyopashamik gnān -darshan sāthe asampr̥ukta (samparka vināno) hovāthī je atīndriy thayo chhe, samasta antarāyano kṣhay thayo hovāthī anant jenun uttam vīrya chhe, samasta gnānāvaraṇ ane darshanāvaraṇano pralay thayo hovāthī adhik jenun kevaḷagnān ane kevaḷadarshan nāmanun tej chhe evo ā (svayambhū) ātmā, samasta mohanīyanā abhāvane līdhe atyant nirvikār shuddha chaitanya- svabhāvavāḷā ātmāne (atyant nirvikār shuddha chaitanya jeno svabhāv chhe evā ātmāne) anubhavato thako svayamev (pote ja) svaparaprakāshakatālakṣhaṇ gnān ane anākuḷatālakṣhaṇ sukh thaīne pariṇame chhe. ā rīte ātmāno, gnān ane ānand svabhāv ja chhe. ane svabhāv to parathī 2anapekṣha hovāthī indriyo vinā paṇ ātmāne gnān ane ānand hoy chhe. 1. adhik = utkr̥uṣhṭa; asādhāraṇ; atyant. 2. anapekṣha = svatantra; udāsīn; apekṣhā vināno. pra. 5


Page 34 of 513
PDF/HTML Page 65 of 544
single page version

अथातीन्द्रियत्वादेव शुद्धात्मनः शारीरं सुखदुःखं नास्तीति विभावयति
सोक्खं वा पुण दुक्खं केवलणाणिस्स णत्थि देहगदं
जम्हा अदिंदियत्तं जादं तम्हा दु तं णेयं ।।२०।।

नास्ति कथंभूतम् देहगदं देहगतं देहाधारजिह्वेन्द्रियादिसमुत्पन्नं कवलाहारादिसुखम्, असातोदयजनितं क्षुधादिदुःखं च कस्मान्नास्ति जम्हा अदिंदियत्तं जादं यस्मान्मोहादिघातिकर्माभावे पञ्चेन्द्रिय- विषयव्यापाररहितत्वं जातम् तम्हा दु तं णेयं तस्मादतीन्द्रियत्वाद्धेतोरतीन्द्रियमेव तज्ज्ञानं सुखं च ज्ञेयमिति तद्यथालोहपिण्डसंसर्गाभावादग्निर्यथा घनघातपिट्टनं न लभते तथायमात्मापि लोहपिण्ड- स्थानीयेन्द्रियग्रामाभावात् सांसारिकसुखदुःखं नानुभवतीत्यर्थः कश्चिदाहकेवलिनां भुक्तिरस्ति, औदारिकशरीरसद्भावात् असद्वेद्यकर्मोदयसद्भावाद्वा अस्मदादिवत् परिहारमाहतद्भगवतः शरीर- मौदारिकं न भवति किंतु परमौदारिकम् तथा चोक्तं‘‘शुद्धस्फ टिकसंकाशं तेजोमूर्तिमयं वपुः जायते क्षीणदोषस्य सप्तधातुविवर्जितम्’’ ।। यच्चोक्तमसद्वेद्योदयसद्भावात्तत्र परिहारमाहयथा व्रीह्यादिबीजं जलसहकारिकारणसहितमङ्कुरादिकार्यं जनयति तथैवासद्वेद्यकर्म मोहनीयसहकारिकारणसहितं क्षुधादि- कार्यमुत्पादयति क स्मात् ‘मोहस्स बलेण घाददे जीवं’ इति वचनात् यदि पुनर्मोहाभावेऽपि क्षुधादिपरीषहं जनयति तर्हि वधरोगादिपरीषहमपि जनयतु, न च तथा तदपि कस्मात् ‘भुक्त्युपसर्गाभावात्’ इति वचनात् अन्यदपि दूषणमस्ति यदि क्षुधाबाधास्ति तर्हि क्षुधाक्षीणशक्तेरनन्तवीर्यं नास्ति तथैव क्षुधादुःखितस्यानन्तसुखमपि नास्ति जिह्वेन्द्रियपरिच्छित्ति- रूपमतिज्ञानपरिणतस्य केवलज्ञानमपि न संभवति अथवा अन्यदपि कारणमस्ति असद्वेद्योदयापेक्षया सद्वेद्योदयोऽनन्तगुणोऽस्ति ततः कारणात् शर्कराराशिमध्ये निम्बकणिकावदसद्वेद्योदयो विद्यमानोऽपि न ज्ञायते तथैवान्यदपि बाधकमस्तियथा प्रमत्तसंयतादितपोधनानां वेदोदये विद्यमानेऽपि मन्दमोहोदयत्वादखण्डब्रह्मचारिणां स्त्रीपरीषहबाधा नास्ति, यथैव च नवग्रैवेयकाद्यहमिन्द्रदेवानां

bhāvārthaḥātmāne gnān ane sukharūpe pariṇamavāmān indriyādi par nimittonī jarūr nathī; kāraṇ ke svaparanun prakāshakapaṇun jenun lakṣhaṇ arthāt svarūp chhe evun gnān ane anākuḷapaṇun jenun lakṣhaṇ chhe evun sukh ātmāno svabhāv ja chhe. 19.

have atīndriyapaṇāne līdhe ja shuddha ātmāne (kevaḷībhagavānane) shārīrik sukhaduḥkh nathī em vyakta kare chheḥ

kāī dehagat nathī sukh ke nathī duḥkh kevaḷagnānīne,
jethī atīndriyatā thaī te kāraṇe e jāṇaje. 20.

Page 35 of 513
PDF/HTML Page 66 of 544
single page version

सौख्यं वा पुनर्दुःखं केवलज्ञानिनो नास्ति देहगतम्
यस्मादतीन्द्रियत्वं जातं तस्मात्तु तज्ज्ञेयम् ।।२०।।

वेदोदये विद्यमानेऽपि मन्दमोहोदयेन स्त्रीविषयबाधा नास्ति, तथा भगवत्यसद्वेद्योदये विद्यमानेऽपि निरवशेषमोहाभावात् क्षुधाबाधा नास्ति यदि पुनरुच्यते भवद्भि :::::मिथ्यादृष्टयादिसयोग- केवलिपर्यन्तास्त्रयोदशगुणस्थानवर्तिनो जीवा आहारका भवन्तीत्याहारकमार्गणायामागमे भणितमास्ते, ततः कारणात् केवलिनामाहारोऽस्तीति तदप्ययुक्तम् ‘‘णोकम्म -कम्महारो कवलाहारो य लेप्पमाहारो ओजमणो वि य कमसो आहारो छव्विहो णेयो’’ ।। इति गाथाकथितक्रमेण यद्यपि षट्प्रकार आहारो भवति तथापि नोकर्माहारापेक्षया केवलिनामाहारकत्वमवबोद्धव्यम् न च कवलाहारापेक्षया तथाहिसूक्ष्माः सुरसाः सुगन्धा अन्यमनुजानामसंभविनः कवलाहारं विनापि किञ्चिदूनपूर्वकोटिपर्यन्तं शरीरस्थितिहेतवः सप्तधातुरहितपरमौदारिकशरीरनोकर्माहारयोग्या लाभान्त- रायकर्मनिरवशेषक्षयात् प्रतिक्षणं पुद्गला आस्रवन्तीति नवकेवललब्धिव्याख्यानकाले भणितं तिष्ठति ततो ज्ञायते नोकर्माहारापेक्षया केवलिनामाहारकत्वम् अथ मतम्भवदीयकल्पनया आहारानाहारकत्वं नोकर्माहारापेक्षया, न च कवलाहारापेक्षया चेति कथं ज्ञायते नैवम् ‘‘एकं द्वौ त्रीन् वानाहारकः’’ इति तत्त्वार्थे कथितमास्ते अस्य सूत्रस्यार्थः कथ्यतेभवान्तरगमनकाले विग्रहगतौ शरीराभावे सति नूतनशरीरधारणार्थं त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलपिण्डग्रहणं नोकर्माहार उच्यते च विग्रहगतौ कर्माहारे विद्यमानेऽप्येकद्वित्रिसमयपर्यन्तं नास्ति ततो नोकर्माहारापेक्षयाऽऽहारा- नाहारकत्वमागमे ज्ञायते यदि पुनः कवलाहारापेक्षया तर्हि भोजनकालं विहाय सर्वदैवानाहारक एव, समयत्रयनियमो न घटते अथ मतम्केवलिनां कवलाहारोऽस्ति मनुष्यत्वात् वर्तमानमनुष्यवत् तदप्ययुक्त म् तर्हि पूर्वकालपुरुषाणां सर्वज्ञत्वं नास्ति, रामरावणादिपुरुषाणां च विशेषसामर्थ्यं नास्ति वर्तमानमनुष्यवत् न च तथा किंच छद्मस्थतपोधना अपि सप्तधातुरहितपरमौदारिकशरीराभावे ‘छट्ठो त्ति पढमसण्णा’ इति वचनात् प्रमत्तसंयतषष्ठगुणस्थानवर्तिनो यद्यप्याहारं गृह्णन्ति तथापि ज्ञानसंयम- ध्यानसिद्धयर्थं, न च देहममत्वार्थम् उक्तं च‘‘कायस्थित्यर्थमाहारः कायो ज्ञानार्थमिष्यते ज्ञानं कर्मविनाशाय तन्नाशे परमं सुखम्’’ ।। ‘‘ण बलाउसाहणट्ठं ण सरीरस्स य चयट्ठ तेजट्ठं णाणट्ठ संजमट्ठं झाणट्ठं चेव भुंजंति ।।’’ तस्य भगवतो ज्ञानसंयमध्यानादिगुणाः स्वभावेनैव तिष्ठन्ति न चाहारबलेन यदि पुनर्देहममत्वेनाहारं गृह्णाति तर्हि छद्मस्थेभ्योऽप्यसौ हीनः प्राप्नोति अथोच्यते तस्यातिशयविशेषात्प्रकटा भुक्तिर्नास्ति प्रच्छन्ना विद्यते तर्हि परमौदारिकशरीरत्वाद्भुक्तिरेव नास्त्ययमेवातिशयः किं न भवति तत्र तु प्रच्छन्नभुक्तौ मायास्थानं दैन्यवृत्तिः, अन्येऽपि पिण्डशुद्धिकथिता दोषा बहवो भवन्ति ते चान्यत्र तर्कशास्त्रे ज्ञातव्याः अत्र

anvayārthaḥ[केवलज्ञानिनः] kevaḷagnānīne [देहगतं] sharīr sambandhī [सौख्यं] sukh [वा पुनः दुःखं] ke duḥkh [नास्ति] nathī. [यस्मात्] kāraṇ ke [अतीन्द्रियत्वं जातं] atīndriyapaṇun thayun chhe [तस्मात् तु तत् ज्ञेयम्] tethī em jāṇavun.


Page 36 of 513
PDF/HTML Page 67 of 544
single page version

यत एव शुद्धात्मनो जातवेदस इव कालायसगोलोत्कूलितपुद्गलाशेषविलासकल्पो नास्तीन्द्रियग्रामस्तत एव घोरघनघाताभिघातपरम्परास्थानीयं शरीरगतं सुखदुःखं न स्यात् ।।२०।।

अथ ज्ञानस्वरूपप्रपञ्चं सौख्यस्वरूपप्रपञ्चं च क्रमप्रवृत्तप्रबन्धद्वयेनाभिदधाति तत्र केवलिनोऽतीन्द्रियज्ञानपरिणतत्वात्सर्वं प्रत्यक्षं भवतीति विभावयति

परिणमदो खलु णाणं पच्चक्खा सव्वदव्वपज्जाया
सो णेव ते विजाणदि उग्गहपुव्वाहिं किरियाहिं ।।२१।।

चाध्यात्मग्रन्थत्वान्नोच्यन्त इति अयमत्र भावार्थःइदं वस्तुस्वरूपमेव ज्ञातव्यमत्राग्रहो न कर्तव्यः कस्मात् दुराग्रहे सति रागद्वेषोत्पत्तिर्भवति ततश्च निर्विकारचिदानन्दैकस्वभावपरमात्मभावनाविघातो भवतीति ।।२०।। एवमनन्तज्ञानसुखस्थापने प्रथमगाथा केवलिभुक्तिनिराकरणे द्वितीया चेति गाथाद्वयं गतम्

इति सप्तगाथाभिः स्थलचतुष्टयेन सामान्येन सर्वज्ञसिद्धिनामा द्वितीयोऽन्तराधिकारः समाप्तः ।।
अथ ज्ञानप्रपञ्चाभिधानान्तराधिकारे त्रयस्त्रिंशद्गाथा भवन्ति तत्राष्टौ स्थलानि तेष्वादौ

ṭīkāḥjem agnine lokhaṇḍanā goḷānā tapta pudgalono samasta vilās nathī (arthāt agni te lokhaṇḍanā goḷānā pudgalonā vilāsathītemanī kriyāthībhinna chhe) tem shuddha ātmāne (arthāt kevaḷagnānī bhagavānane) indriyasamūh nathī; tethī ja jem agnine ghor ghaṇanā ghānā māranī paramparā nathī (arthāt lokhaṇḍanā goḷānā sansargano abhāv thatān ghaṇanā bhayaṅkar uparāchhāparī ghāno mār agnine paḍato nathī) tem shuddha ātmāne sharīrasambandhī sukhaduḥkh nathī.

bhāvārthaḥkevaḷībhagavānane sharīrasambandhī kṣhudhādiduḥkh ke bhojanādisukh hotun nathī tethī temane kavalāhār hoto nathī. 20.

have, gnānanā svarūpano vistār ane sukhanā svarūpano vistār krame pravartatā be adhikāro dvārā kahe chhe. temān (pratham), atīndriy gnānarūpe pariṇamelā hovāthī kevaḷī- bhagavānane badhun pratyakṣha chhe em pragaṭ kare chheḥ

pratyakṣha chhe sau dravyaparyay gnān -pariṇamanārane;
jāṇe nahīn te temane avagrah -īhādi kriyā vaḍe. 21.

Page 37 of 513
PDF/HTML Page 68 of 544
single page version

परिणममानस्य खलु ज्ञानं प्रत्यक्षाः सर्वद्रव्यपर्यायाः
स नैव तान् विजानात्यवग्रहपूर्वाभिः क्रियाभिः ।।२१।।

यतो न खल्विन्द्रियाण्यालम्ब्यावग्रहेहावायपूर्वकप्रक्रमेण केवली विजानाति, स्वयमेव समस्तावरणक्षयक्षण एवानाद्यनन्ताहेतुकासाधारणभूतज्ञानस्वभावमेव कारणत्वेनोपादाय तदुपरि प्रविक सत्केवलज्ञानोपयोगीभूय विपरिणमते, ततोऽस्याक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकाल- भावतया समक्षसंवेदनालम्बनभूताः सर्वद्रव्यपर्यायाः प्रत्यक्षा एव भवन्ति ।।२१।। केवलज्ञानस्य सर्वं प्रत्यक्षं भवतीति कथनमुख्यत्वेन ‘परिणमदो खलु’ इत्यादिगाथाद्वयम्, अथात्मज्ञानयोर्निश्चयेनासंख्यातप्रदेशत्वेऽपि व्यवहारेण सर्वगतत्वं भवतीत्यादिकथनमुख्यत्वेन ‘आदा णाणपमाणं’ इत्यादिगाथापञ्चकम्, ततः परं ज्ञानज्ञेययोः परस्परगमननिराकरणमुख्यतया ‘णाणी णाणसहावो’ इत्यादिगाथापञ्चकम्, अथ निश्चयव्यवहारकेवलिप्रतिपादनादिमुख्यत्वेन ‘जो हि सुदेण’ इत्यादिसूत्रचतुष्टयम्, अथ वर्तमानज्ञाने कालत्रयपर्यायपरिच्छित्तिकथनादिरूपेण ‘तक्कालिगेव सव्वे’ इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं बन्धकारणं न भवति रागादिविकल्परहितं छद्मस्थज्ञानमपि, किंतु रागादयो बन्धकारणमित्यादिनिरूपणमुख्यतया ‘परिणमदि णेयं’ इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं सर्वज्ञानं सर्वज्ञत्वेन प्रतिपादयतीत्यादिव्याख्यानमुख्यत्वेन ‘जं तक्कालियमिदरं’ इत्यादिगाथापञ्चकम्, अथ ज्ञानप्रपञ्चोपसंहारमुख्यत्वेन प्रथमगाथा, नमस्कारकथनेन द्वितीया चेति ‘णवि परिणमदि’ इत्यादि गाथाद्वयम् एवं ज्ञानप्रपञ्चाभिधानतृतीयान्तराधिकारे त्रयस्त्रिंशद्गाथाभिः स्थलाष्टकेन समुदाय-

anvayārthaḥ[खलु] kharekhar [ज्ञानं परिणममानस्य] gnānarūpe (kevaḷagnānarūpe) pariṇamatā kevaḷībhagavānane [सर्वद्रव्यपर्यायाः] sarva dravya -paryāyo [प्रत्यक्षाः] pratyakṣha chhe; [सः] te [तान्] temane [अवग्रहपूर्वाभिः क्रियाभिः] avagrah ādi kriyāothī [नैव विजानाति] nathī jāṇatā.

ṭīkāḥindriyone ālambīne avagrah -īhā -avāyapūrvak kramathī kevaḷībhagavān jāṇatā nathī, (parantu) svayamev samasta āvaraṇanā kṣhayanī kṣhaṇe ja, anādi anant, ahetuk ane asādhāraṇ gnānasvabhāvane ja kāraṇapaṇe grahavāthī turat ja pragaṭatā kevaḷ- gnānopayogarūp thaīne pariṇame chhe; māṭe temane samasta dravya, kṣhetra, kāḷ ane bhāvanun akrame grahaṇ hovāthī samakṣha samvedanane (-pratyakṣha gnānane) ālambanabhūt samasta dravya -paryāyo pratyakṣha ja chhe.

bhāvārthaḥjeno ādi nathī tem ja ant nathī, jenun koī kāraṇ nathī ane je anya koī dravyamān nathī evā gnānasvabhāvane ja upādey karīne, kevaḷagnānanī utpattinā bījabhūt shukladhyān nāmanā svasamvedanagnāne jyāre ātmā pariṇame chhe tyāre tenā nimitte


Page 38 of 513
PDF/HTML Page 69 of 544
single page version

अथास्य भगवतोऽतीन्द्रियज्ञानपरिणतत्वादेव न किंचित्परोक्षं भवतीत्यभिप्रैति
णत्थि परोक्खं किंचि वि समंत सव्वक्खगुणसमिद्धस्स
अक्खातीदस्स सदा सयमेव हि णाणजादस्स ।।२२।।
नास्ति परोक्षं किंचिदपि समन्ततः सर्वाक्षगुणसमृद्धस्य
अक्षातीतस्य सदा स्वयमेव हि ज्ञानजातस्य ।।२२।।
पातनिका तद्यथाअथातीन्द्रियज्ञानपरिणतत्वात्केवलिनः सर्वं प्रत्यक्षं भवतीति प्रतिपादयतिपच्चक्खा
सव्वदव्वपज्जाया सर्वद्रव्यपर्यायाः प्रत्यक्षा भवन्ति कस्य केवलिनः किं कुर्वतः परिणमदो
परिणममानस्य खलु स्फु टम् किम् णाणं अनन्तपदार्थपरिच्छित्तिसमर्थं केवलज्ञानम् तर्हि किं क्रमेण
जानाति सो णेव ते विजाणदि उग्गहपुव्वाहिं किरियाहिं स च भगवान्नैव तान् जानात्यवग्रहपूर्वाभिः
क्रियाभिः, किंतु युगपदित्यर्थः इतो विस्तर :अनाद्यनन्तमहेतुकं चिदानन्दैकस्वभावं निज-
शुद्धात्मानमुपादेयं कृत्वा केवलज्ञानोत्पत्तेर्बीजभूतेनागमभाषया शुक्लध्यानसंज्ञेन रागादिविकल्प-
जालरहितस्वसंवेदनज्ञानेन यदायमात्मा परिणमति, तदा स्वसंवेदनज्ञानफलभूतकेवलज्ञान-

परिच्छित्त्याकारपरिणतस्य तस्मिन्नेव क्षणे क्रमप्रवृत्तक्षायोपशमिकज्ञानाभावादक्रमसमाक्रान्तसमस्त-

द्रव्यक्षेत्रकालभावतया सर्वद्रव्यगुणपर्याया अस्यात्मनः प्रत्यक्षा भवन्तीत्यभिप्रायः
।।२१।। अथ सर्वं
sarva ghātikarmono kṣhay thaī jāy chhe ane te kṣhay thavānā samaye ja ātmā svayamev
kevaḷagnānarūpe pariṇamavā lāge chhe. te kevaḷagnānī bhagavān kṣhāyopashamik gnānavāḷā jīvonī
māphak avagrah, īhā, avāy ane dhāraṇārūp kramathī jāṇatā nathī parantu sarva dravya, kṣhetra,
kāḷ, bhāvane yugapad jāṇe chhe; e rīte temane badhuy pratyakṣha varte chhe. 21.

have, atīndriy gnānarūpe pariṇamelā hovāthī ja, ā bhagavānane kāī paṇ parokṣha nathī evo abhiprāy kahe chheḥ

na parokṣha kāī paṇ sarvataḥ sarvākṣhaguṇasamr̥uddhane,
indriy -atīt sadaiv ne svayamev gnān thayelane. 22.

anvayārthaḥ[सदा अक्षातीतस्य] je sadā indriyātīt chhe, [समन्ततः सर्वाक्ष- गुणसमृद्धस्य] je sarva taraphathī (-sarva ātmapradeshe) sarva indriyaguṇo vaḍe samr̥uddha chhe [स्वयम् एव हि ज्ञानजातस्य] ane je svayamev gnānarūp thayelā chhe, te kevaḷībhagavānane [किंचिद् अपि] kāī paṇ [परोक्षं नास्ति] parokṣha nathī.


Page 39 of 513
PDF/HTML Page 70 of 544
single page version

अस्य खलु भगवतः समस्तावरणक्षयक्षण एव सांसारिकपरिच्छित्तिनिष्पत्तिबलाधान- हेतुभूतानि प्रतिनियतविषयग्राहीण्यक्षाणि तैरतीतस्य, स्पर्शरसगन्धवर्णशब्दपरिच्छेदरूपैः समरसतया समन्ततः सर्वैर्रेवेन्द्रियगुणैः समृद्धस्य, स्वयमेव सामस्त्येन स्वपरप्रकाशनक्षममनश्वरं लोकोत्तरज्ञानं जातस्य, अक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकालभावतया न किंचनापि परोक्षमेव स्यात् ।।२२।। प्रत्यक्षं भवतीत्यन्वयरूपेण पूर्वसूत्रे भणितमिदानीं तु परोक्षं किमपि नास्तीति तमेवार्थं व्यतिरेकेण दृढयतिणत्थि परोक्खं किंचि वि अस्य भगवतः परोक्षं किमपि नास्ति किंविशिष्टस्य समंत सव्वक्खगुणसमिद्धस्स समन्ततः सर्वात्मप्रदेशैः सामस्त्येन वा स्पर्शरसगन्धवर्णशब्दपरिच्छित्तिरूप- सर्वेन्द्रियगुणसमृद्धस्य तर्हि किमक्षसहितस्य नैवम् अक्खातीदस्स अक्षातीतस्येन्द्रियव्यापाररहितस्य, अथवा द्वितीयव्याख्यानम्अक्ष्णोति ज्ञानेन व्याप्नोतीत्यक्ष आत्मा तद्गुणसमृद्धस्य सदा सर्वदा सर्वकालम् पुनरपि किंरूपस्य सयमेव हि णाणजादस्स स्वयमेव हि स्फु टं केवलज्ञानरूपेण जातस्य परिणतस्येति तद्यथाअतीन्द्रियस्वभावपरमात्मनो विपरीतानि क्रमप्रवृत्तिहेतुभूतानीन्द्रियाण्यतिक्रान्तस्य जगत्त्रयकालत्रयवर्तिसमस्तपदार्थयुगपत्प्रत्यक्षप्रतीतिसमर्थमविनश्वरमखण्डैकप्रतिभासमयं केवलज्ञानं परिणतस्यास्य भगवतः परोक्षं किमपि नास्तीति भावार्थः ।।२२।। एवं केवलिनां समस्तं प्रत्यक्षं भवतीति कथनरूपेण प्रथमस्थले गाथाद्वयं गतम् अथात्मा ज्ञानप्रमाणो भवतीति ज्ञानं च

ṭīkāḥsamasta āvaraṇanā kṣhayanī kṣhaṇe ja je (bhagavān) sānsārik gnān nipajāvavānā baḷane amalamān mūkavāmān hetubhūt evī je potapotānā nishchit viṣhayone grahaṇ karanārī indriyo temanāthī atīt thayā chhe, je sparsha, ras, gandh, varṇa ane shabdanā gnānarūp sarva indriyaguṇo vaḍe sarva taraphathī samarasapaṇe samr̥uddha chhe (arthāt je bhagavān sparsha, ras, gandh, varṇa tem ja shabdane sarva ātmapradeshethī samānapaṇe jāṇe chhe) ane je svayamev samastapaṇe svaparane prakāshavāmān samartha evā avināshī lokottar gnānarūp thayā chhe evā ā (kevaḷī) bhagavānane samasta dravya -kṣhetra -kāḷ -bhāvanun akrame grahaṇ hovāthī kāī paṇ parokṣha nathī.

bhāvārthaḥindriyano guṇ to sparshādi ek guṇane ja jāṇavāno chhe, jem ke chakṣhuindriyano guṇ rūpane ja jāṇavāno chhe arthāt rūpane ja jāṇavāmān nimitta thavāno chhe. vaḷī indriyagnān kramik chhe. kevaḷībhagavān to indriyonā nimitta vinā samasta ātmapradeshethī sparshādi sarva viṣhayone jāṇe chhe, ane je samastapaṇe potānun ne paranun prakāshak chhe evā lokottar gnānarūpe (laukikagnānathī bhinna kevaḷagnānarūpe) svayamev pariṇamyā kare chhe; māṭe samasta dravya, kṣhetra, kāḷ ane bhāvane avagrahādi kram vinā jāṇatā hovāthī kevaḷībhagavānane kāī paṇ parokṣha nathī. 22.


Page 40 of 513
PDF/HTML Page 71 of 544
single page version

अथात्मनो ज्ञानप्रमाणत्वं ज्ञानस्य सर्वगतत्वं चोद्योतयति
आदा णाणपमाणं णाणं णेयप्पमाणमुद्दिट्ठं
णेयं लोयालोयं तम्हा णाणं तु सव्वगयं ।।२३।।
आत्मा ज्ञानप्रमाणं ज्ञानं ज्ञेयप्रमाणमुद्दिष्टम्
ज्ञेयं लोकालोकं तस्माज्ज्ञानं तु सर्वगतम् ।।२३।।

आत्मा हि ‘समगुणपर्यायं द्रव्यम्’ इति वचनात् ज्ञानेन सह हीनाधिकत्वरहितत्वेन परिणतत्वात्तत्परिमाणः, ज्ञानं तु ज्ञेयनिष्ठत्वाद्दाह्यनिष्ठदहनवत्तत्परिमाणं; ज्ञेयं तु लोकालोकविभागविभक्तानन्तपर्यायमालिकालीढस्वरूपसूचिता विच्छेदोपदर्शितध्रौव्या षड्द्रव्यी व्यवहारेण सर्वगतमित्युपदिशतिआदा णाणपमाणं ज्ञानेन सह हीनाधिकत्वाभावादात्मा ज्ञानप्रमाणो भवति तथाहि‘समगुणपर्यायं द्रव्यं भवति’ इति वचनाद्वर्तमानमनुष्यभवे वर्तमानमनुष्य- पर्यायप्रमाणः, तथैव मनुष्यपर्यायप्रदेशवर्तिज्ञानगुणप्रमाणश्च प्रत्यक्षेण दृश्यते यथायमात्मा, तथा निश्चयतः सर्वदैवाव्याबाधाक्षयसुखाद्यनन्तगुणाधारभूतो योऽसौ केवलज्ञानगुणस्तत्प्रमाणोऽयमात्मा णाणं णेयप्पमाणमुद्दिट्ठं दाह्यनिष्ठदहनवत् ज्ञानं ज्ञेयप्रमाणमुद्दिष्टं कथितम् णेयं लोयालोयं ज्ञेयं लोका-

have ātmānun gnānapramāṇapaṇun ane gnānanun sarvagatapaṇun prakāshe chheḥ
jīvadravya gnānapramāṇ bhākhyun, gnān gneyapramāṇ chhe;
ne gney lokālok, tethī sarvagat e gnān chhe. 23.

anvayārthaḥ[आत्मा] ātmā [ज्ञानप्रमाणं] gnānapramāṇ chhe; [ज्ञानं] gnān [ज्ञेयप्रमाणं] gneyapramāṇ [उद्दिष्टं] kahyun chhe. [ज्ञेयं लोकालोकं] gney lokālok chhe, [तस्मात्] tethī [ज्ञानं तु] gnān [सर्वगतं] sarvagat (arthāt sarvavyāpak) chhe.

ṭīkāḥ‘समगुणपर्यायं द्रव्यम् (guṇ -paryāyo arthāt yugapad sarva guṇo ane paryāyo te ja dravya chhe)’ e vachan pramāṇe ātmā gnānathī hīnādhikatārahitapaṇe pariṇamato hovāthī gnānapramāṇ chhe, ane gnān 1gneyaniṣhṭha hovāthī, dāhyaniṣhṭha 2dahananī jem, gneyapramāṇ chhe. gney to lok ane alokanā vibhāgathī 3vibhakta, 4anant paryāyamāḷāthī āliṅgit svarūpe sūchit (pragaṭ, jaṇāto), nāshavant dekhāto chhatān dhruv evo ṣhaṭdravya -samūh chhe eṭale ke 1. gneyaniṣhṭha = gneyone avalambatun; gneyomān tatpar. 2. dahan = bāḷavun te; agni. 3. vibhakta = vibhāgavāḷo. (ṣhaṭdravyanā samūhamān lok -alokarūp be vibhāg chhe.) 4. anant paryāyo dravyane āliṅge chhe (dravyamān thāy chhe) evā svarūpavāḷun darek dravya jaṇāy chhe.


Page 41 of 513
PDF/HTML Page 72 of 544
single page version

सर्वमिति यावत् ततो निःशेषावरणक्षयक्षण एव लोकालोकविभागविभक्तसमस्तवस्त्वाकार- पारमुपगम्य तथैवाप्रच्युतत्वेन व्यवस्थितत्वात् ज्ञानं सर्वगतम् ।।२३।।

अथात्मनो ज्ञानप्रमाणत्वानभ्युपगमे द्वौ पक्षावुपन्यस्य दूषयति
णाणप्पमाणमादा ण हवदि जस्सेह तस्स सो आदा
हीणो वा अहिओ वा णाणादो हवदि धुवमेव ।।२४।।
हीणो जदि सो आदा तण्णाणमचेदणं ण जाणादि
अहिओ वा णाणादो णाणेण विणा कहं णादि ।।२५।। जुगलं

लोकं भवति शुद्धबुद्धैकस्वभावसर्वप्रकारोपादेयभूतपरमात्मद्रव्यादिषड्द्रव्यात्मको लोकः, लोकाद्बहि- र्भागे शुद्धाकाशमलोकः, तच्च लोकालोकद्वयं स्वकीयस्वकीयानन्तपर्यायपरिणतिरूपेणानित्यमपि द्रव्यार्थिकनयेन नित्यम् तम्हा णाणं तु सव्वगयं यस्मान्निश्चयरत्नत्रयात्मकशुद्धोपयोगभावनाबलेनोत्पन्नं यत्केवलज्ञानं तट्टङ्कोत्कीर्णाकारन्यायेन निरन्तरं पूर्वोक्तज्ञेयं जानाति, तस्माद्वयवहारेण तु ज्ञानं सर्वगतं भण्यते ततः स्थितमेतदात्मा ज्ञानप्रमाणं ज्ञानं सर्वगतमिति ।।२३।। अथात्मानं ज्ञानप्रमाणं ये न मन्यन्ते तत्र हीनाधिकत्वे दूषणं ददातिणाणप्पमाणमादा ण हवदि जस्सेह ज्ञानप्रमाणमात्मा न भवति badhuy chhe. (gney to chhaye dravyano samūh eṭale ke badhuy chhe.) māṭe niḥsheṣh āvaraṇanā kṣhayanī kṣhaṇe ja lok ane alokanā vibhāgathī vibhakta samasta vastuonā ākāronā pārane pāmīne e rīte ja achyutapaṇe rahetun hovāthī gnān sarvagat chhe.

bhāvārthaḥguṇ -paryāyothī dravya ananya chhe māṭe ātmā gnānathī hīn -adhik nahi hovāthī gnān jevaḍo ja chhe; ane jem dāhyane (baḷavāyogya padārthane) avalambanār dahan dāhyanī barābar ja chhe tem gneyane avalambanār gnān gneyanī barābar ja chhe. gney to samasta lokālok arthāt badhuy chhe. māṭe, sarva āvaraṇano kṣhay thatān ja (gnān) sarvane jāṇatun hovāthī ane pachhī kadī sarvane jāṇavāmānthī chyut nahi thatun hovāthī gnān sarvavyāpak chhe. 23.

have ātmāne gnānapramāṇ nahi mānavāmān be pakṣha rajū karīne doṣh batāve chheḥ
jīvadravya gnānapramāṇ nahie mānyatā chhe jehane,
tenā mate jīv gnānathī hīn ke adhik avashya chhe; 24.
jo hīn ātmā hoy, nav jāṇe achetan gnān e,
ne adhik gnānathī hoy to vaṇ gnān kayam jāṇe are? 25.

pra. 6


Page 42 of 513
PDF/HTML Page 73 of 544
single page version

ज्ञानप्रमाणमात्मा न भवति यस्येह तस्य स आत्मा हीनो वा अधिको वा ज्ञानाद्भवति ध्रुवमेव ।।२४।। हीनो यदि स आत्मा तत् ज्ञानमचेतनं न जानाति अधिको वा ज्ञानात् ज्ञानेन विना कथं जानाति ।।२५।। युगलम्

यदि खल्वयमात्मा हीनो ज्ञानादित्यभ्युपगम्यते तदात्मनोऽतिरिच्यमानं ज्ञानं स्वाश्रय- भूतचेतनद्रव्यसमवायाभावादचेतनं भवद्रूपादिगुणकल्पतामापन्नं न जानाति यदि पुनर्ज्ञाना- दधिक इति पक्षः कक्षीक्रियते तदावश्यं ज्ञानादतिरिक्तत्वात् पृथग्भूतो भवन् घटपटादि- स्थानीयतामापन्नो ज्ञानमन्तरेण न जानाति ततो ज्ञानप्रमाण एवायमात्माभ्युप- गन्तव्यः ।। २४ २५ ।। यस्य वादिनो मतेऽत्र जगति तस्स सो आदा तस्य मते स आत्मा हीणो वा अहिओ वा णाणादो हवदि धुवमेव हीनो वा अधिको वा ज्ञानात्सकाशाद् भवति निश्चितमेवेति ।।२४।। हीणो जदि सो आदा तं णाणमचेदणं ण जाणादि हीनो यदि स आत्मा तदाग्नेरभावे सति उष्णगुणो यथा शीतलो भवति तथा स्वाश्रयभूतचेतनात्मकद्रव्यसमवायाभावात्तस्यात्मनो ज्ञानमचेतनं भवत्सत् किमपि न जानाति अहिओ

anvayārthaḥ[इह] ā jagatamān [यस्य] jenā matamān [आत्मा] ātmā [ज्ञानप्रमाणं] gnānapramāṇ [न भवति] nathī, [तस्य] tenā matamān [सः आत्मा] te ātmā [ध्रुवम् एव] avashya [ज्ञानात् हीनः वा] gnānathī hīn [अधिकः वा भवति] athavā adhik hovo joie.

[यदि] jo [सः आत्मा] te ātmā [हीनः] gnānathī hīn hoy [तद्] to [ज्ञानं] gnān [अचेतनं] achetan thavāthī [न जानाति] jāṇe nahi, [ज्ञानात् अधिकः वा] ane jo (ātmā) gnānathī adhik hoy to [ज्ञानेन विना] (te ātmā) gnān vinā [कथं जानाति] kem jāṇe?

ṭīkāḥjo ā ātmā gnānathī hīn chhe em svīkāravāmān āve to ātmāthī āgaḷ vadhī jatun gnān (ātmānā kṣhetrathī āgaḷ vadhīne tenī bahār vyāpatun gnān) potānā āshrayabhūt chetanadravyano samavāy (sambandh) nahi rahevāne līdhe achetan thayun thakun rūpādi guṇ jevun thavāthī na jāṇe; ane jo ā ātmā gnānathī adhik chhe evo pakṣha svīkāravāmān āve to avashya (ātmā) gnānathī āgaḷ vadhī gayo hovāne līdhe (gnānanā kṣhetrathī bahār vyāpato hovāne līdhe) gnānathī pr̥uthak thayo thako ghaṭapaṭādi jevo thavāthī gnān sivāy na jāṇe. māṭe ā ātmā gnānapramāṇ ja mānavāyogya chhe.


Page 43 of 513
PDF/HTML Page 74 of 544
single page version

अथात्मनोऽपि ज्ञानवत् सर्वगतत्वं न्यायायातमभिनन्दति
सव्वगदो जिणवसहो सव्वे वि य तग्गया जगदि अट्ठा
णाणमयादो य जिणो विसयादो तस्स ते भणिदा ।।२६।।
सर्वगतो जिनवृषभः सर्वेऽपि च तद्गता जगत्यर्थाः
ज्ञानमयत्वाच्च जिनो विषयत्वात्तस्य ते भणिताः ।।२६।।
वा णाणादो णाणेण विणा कहं णादि अधिको वा ज्ञानात्सकाशात्तर्हि यथोष्णगुणाभावेऽग्निः शीतलो
भवन्सन् दहनक्रियां प्रत्यसमर्थो भवति तथा ज्ञानगुणाभावे सत्यात्माप्यचेतनो भवन्सन् कथं जानाति,
न कथमपीति
अयमत्र भावार्थः ---ये केचनात्मानमङ्गुष्ठपर्वमात्रं, श्यामाकतण्डुलमात्रं,
वटककणिकादिमात्रं वा मन्यन्ते ते निषिद्धाः येऽपि समुद्घातसप्तकं विहाय देहादधिकं मन्यन्ते
तेऽपि निराकृता इति ।।२५।। अथ यथा ज्ञानं पूर्वं सर्वगतमुक्तं तथैव सर्वगतज्ञानापेक्षया भगवानपि
सर्वगतो भवतीत्यावेदयति ---सव्वगदो सर्वगतो भवति स कः कर्ता जिणवसहो जिनवृषभः

bhāvārthaḥātmānun kṣhetra gnānanā kṣhetrathī ochhun mānavāmān āve to ātmānā kṣhetranī bahār vartatun gnān chetanadravya sāthe sambandh nahi hovāne līdhe achetan guṇ jevun thavāthī jāṇavānun kām na karī shake, jem varṇa, gandh, ras, sparsha vagere achetan guṇo jāṇī shakatā nathī tem. jo ātmānun kṣhetra gnānanā kṣhetrathī adhik mānavāmān āve to gnānanā kṣhetranī bahār vartato gnānashūnya ātmā gnān vinā jāṇavānun kām na karī shake, jem gnānashūnya ghaḍo, vastra vagere padārtho jāṇī shakatā nathī tem. māṭe ātmā gnānathī hīn paṇ nathī, adhik paṇ nathī, gnān jevaḍo ja chhe. 24 -25.

have gnānanī jem ātmānun paṇ sarvagatapaṇun nyāyasiddha chhe em kahe chheḥ
chhe sarvagat jinavar ane sau artha jinavaraprāpta chhe,
jin gnānamay ne sarva artho viṣhay jinanā hoīne. 26.

anvayārthaḥ[जिनवृषभः] jinavar [सर्वगतः] sarvagat chhe [च] ane [जगति] jagatanā [सर्वे अपि अर्थाः] sarva padārtho [तद्गताः] jinavaragat (jinavaramān prāpta) chhe; [जिनः ज्ञानमयत्वात्] kāraṇ ke jin gnānamay chhe [च] ane [ते] sarva padārtho [विषयत्वात्] gnānanā viṣhay hovāthī [तस्य] jinanā viṣhay [भणिताः] kahevāmān āvyā chhe.


Page 44 of 513
PDF/HTML Page 75 of 544
single page version

ज्ञानं हि त्रिसमयावच्छिन्नसर्वद्रव्यपर्यायरूपव्यवस्थितविश्वज्ञेयाकारानाक्रामत् सर्वगतमुक्तं, तथाभूतज्ञानमयीभूय व्यवस्थितत्वाद्भगवानपि सर्वगत एव एवं सर्वगतज्ञानविषयत्वात्सर्वेऽर्था अपि सर्वगतज्ञानाव्यतिरिक्तस्य भगवतस्तस्य ते विषया इति भणितत्वात्तद्गता एव भवन्ति तत्र निश्चयनयेनानाकुलत्वलक्षणसौख्यसंवेदनत्वाधिष्ठानत्वावच्छिन्नात्मप्रमाणज्ञानस्वतत्त्वा- परित्यागेन विश्वज्ञेयाकाराननुपगम्यावबुध्यमानोऽपि व्यवहारनयेन भगवान् सर्वगत इति व्यपदिश्यते तथा नैमित्तिकभूतज्ञेयाकारानात्मस्थानवलोक्य सर्वेऽर्थास्तद्गता इत्युपचर्यन्ते, न च तेषां परमार्थतोऽन्योन्यगमनमस्ति, सर्वद्रव्याणां स्वरूपनिष्ठत्वात् अयं क्रमो ज्ञानेऽपि निश्चेयः ।।२६।। सर्वज्ञः कस्मात् सर्वगतो भवति जिणो जिनः णाणमयादो य ज्ञानमयत्वाद्धेतोः सव्वे वि य तग्गया जगदि अट्ठा सर्वेऽपि च ये जगत्यर्थास्ते दर्पणे बिम्बवद् व्यवहारेण तत्र भगवति गता भवन्ति कस्मात् ते भणिदा तेऽर्थास्तत्र गता भणिताः विसयादो विषयत्वात्परिच्छेद्यत्वात् ज्ञेयत्वात् कस्य तस्स तस्य भगवत इति तथाहि ---यदनन्तज्ञानमनाकुलत्वलक्षणानन्तसुखं च तदाधारभूतस्तावदात्मा इत्थं- भूतात्मप्रमाणं ज्ञानमात्मनः स्वस्वरूपं भवति इत्थंभूतं स्वस्वरूपं देहगतमपरित्यजन्नेव लोकालोकं परिच्छिनत्ति ततः कारणाद्वयवहारेण सर्वगतो भण्यते भगवान् येन च कारणेन नीलपीतादिबहिः- पदार्था आदर्शे बिम्बवत् परिच्छित्त्याकारेण ज्ञाने प्रतिफलन्ति ततः कारणादुपचारेणार्थकार्यभूता

ṭīkāḥgnān traṇe kāḷanā sarva dravya -paryāyarūp vartatā samasta gneyākārone pahoñchī vaḷatun (jāṇatun) hovāthī sarvagat kahevāmān āvyun chhe; ane evā (sarvagat) gnānamay thaīne rahelā hovāthī bhagavān paṇ sarvagat ja chhe. e rīte sarva padārtho paṇ sarvagat gnānanā viṣhay hovāne līdhe, sarvagat gnānathī abhinna evā te bhagavānanā te viṣhayo chhe em (shāstramān) kahyun chhe; māṭe sarva padārtho bhagavānagat ja (bhagavānamān prāpta ja) chhe.

tyān (em samajavun ke)nishchayanaye anākuḷatālakṣhaṇ sukhanun je samvedan te sukhasamvedananā 1adhiṣhṭhānapaṇā jevaḍo ja ātmā chhe ane te ātmā jevaḍun ja gnān svatattva chhe; te ātmapramāṇ gnān ke je nij svarūp chhe tene chhoḍyā vinā, samasta 2gneyākāronī samīp gayā vinā, bhagavān (sarva padārthone) jāṇe chhe. nishchayanaye ām hovā chhatān vyavahāranaye ‘bhagavān sarvagat chhe’ em kahevāy chhe. vaḷī 1. adhiṣhṭhān = ādhār; raheṭhāṇ. (ātmā sukhasamvedanano ādhār chhe. jeṭalāmān sukhanun vedan thāy chhe

tevaḍo ja ātmā chhe.) 2. gneyākāro = par padārthonān dravya -guṇ -paryāyo ke jeo gney chhe. (ā gneyākāro paramārthe ātmāthī

taddan bhinna chhe.)

Page 45 of 513
PDF/HTML Page 76 of 544
single page version

अथात्मज्ञानयोरेकत्वान्यत्वं चिन्तयति
णाणं अप्प त्ति मदं वट्टदि णाणं विणा ण अप्पाणं
तम्हा णाणं अप्पा अप्पा णाणं व अण्णं वा ।।२७।।
ज्ञानमात्मेति मतं वर्तते ज्ञानं विना नात्मानम्
तस्मात् ज्ञानमात्मा आत्मा ज्ञानं वा अन्यद्वा ।।२७।।

अर्थाकारा अप्यर्था भण्यन्ते ते च ज्ञाने तिष्ठन्तीत्युच्यमाने दोषो नास्तीत्यभिप्रायः ।।२६।। अथ ज्ञानमात्मा भवति, आत्मा तु ज्ञानं सुखादिकं वा भवतीति प्रतिपादयतिणाणं अप्प त्ति मदं ज्ञानमात्मा भवतीति मतं सम्मतम् कस्मात् वट्टदि णाणं विणा ण अप्पाणं ज्ञानं कर्तृ विनात्मानं जीवमन्यत्र 1

naimittikabhūt gneyākārone ātmastha (ātmāmān rahelā) dekhīne ‘sarva padārtho ātmagat

(-ātmāmān) chhe’ em upachār karavāmān āve chhe; parantu paramārthe temanun ek- bījāmān gaman nathī, kāraṇ ke sarva dravyo svarūpaniṣhṭha (potapotānā svarūpamān nishchaḷ rahelān) chhe.

ā kram gnānamān paṇ nakkī karavo. (ātmā ane gneyo viṣhe nishchay -vyavahārathī kahyun tem gnān ane gneyo viṣhe paṇ samajavun.) 26.

have ātmā ane gnānanun ekatva -anyatva vichāre chheḥ
chhe gnān ātmā jinamate; ātmā vinā nahi gnān chhe,
te kāraṇe chhe gnān jīv, jīv gnān chhe vā anya chhe. 27.

anvayārthaḥ[ज्ञानं आत्मा] gnān ātmā chhe [इति मतं] em jinadevano mat chhe. [आत्मानं विना] ātmā vinā (bījā koī dravyamān) [ज्ञानं न वर्तते] gnān hotun nathī [तस्मात्] tethī [ज्ञानं आत्मा] gnān ātmā chhe; [आत्मा] ane ātmā to [ज्ञानं वा] (gnānaguṇ dvārā) gnān chhe [अन्यत् वा] athavā (sukhādi anya guṇ dvārā) anya chhe. 1. naimittikabhūt gneyākāro = gnānamān thatā (gnānanī avasthārūp) gneyākāro. (ā gneyākārone gnānākāro

paṇ kahevāmān āve chhe, kāraṇ ke gnān ā gneyākārarūpe pariṇame chhe. ā gneyākāro naimittik
chhe ane par padārthonān dravya -guṇ -paryāyo temanān nimitta chhe. ā gneyākārone ātmāmān dekhīne ‘samasta
par padārtho ātmāmān chhe’ em upachār karavāmān āve chhe. ā vāt 31mī gāthānī ṭīkāmān
darpaṇanā draṣhṭāntathī samajāvashe.)

Page 46 of 513
PDF/HTML Page 77 of 544
single page version

यतः शेषसमस्तचेतनाचेतनवस्तुसमवायसंबन्धनिरुत्सुक तयाऽनाद्यनन्तस्वभावसिद्ध- समवायसंबन्धमेक मात्मानमाभिमुख्येनावलम्ब्य प्रवृत्तत्वात् तं विना आत्मानं ज्ञानं न धारयति, ततो ज्ञानमात्मैव स्यात् आत्मा त्वनन्तधर्माधिष्ठानत्वात् ज्ञानधर्मद्वारेण ज्ञानमन्यधर्म- द्वारेणान्यदपि स्यात् किं चानेकान्तोऽत्र बलवान् एकान्तेन ज्ञानमात्मेति ज्ञानस्या- भावोऽचेतनत्वमात्मनो विशेषगुणाभावादभावो वा स्यात् सर्वथात्मा ज्ञानमिति निराश्रयत्वात् ज्ञानस्याभाव आत्मनः शेषपर्यायाभावस्तदविनाभाविनस्तस्याप्यभावः स्यात् ।।२७।। घटपटादौ न वर्तते तम्हा णाणं अप्पा तस्मात् ज्ञायते कथंचिज्ज्ञानमात्मैव स्यात् इति गाथापादत्रयेण ज्ञानस्य कथंचिदात्मत्वं स्थापितम् अप्पा णाणं व अण्णं वा आत्मा तु ज्ञानधर्मद्वारेण ज्ञानं भवति, सुखवीर्यादिधर्मद्वारेणान्यद्वा नियमो नास्तीति तद्यथायदि पुनरेकान्तेन ज्ञानमात्मेति भण्यते तदा ज्ञानगुणमात्र एवात्मा प्राप्तः सुखादिधर्माणामवकाशो नास्ति तथा सुखवीर्यादिधर्मसमूहाभावादात्मा- भावः, आत्मन आधारभूतस्याभावादाधेयभूतस्य ज्ञानगुणस्याप्यभावः, इत्येकान्ते सति द्वयोरप्यभावः तस्मात्कथंचिज्ज्ञानमात्मा न सर्वथेति अयमत्राभिप्रायःआत्मा व्यापको ज्ञानं व्याप्यं ततो ज्ञानमात्मा स्यात्, आत्मा तु ज्ञानमन्यद्वा भवतीति तथा चोक्तम्‘व्यापकं तदतन्निष्ठं व्याप्यं

ṭīkāḥsheṣh samasta chetan tathā achetan vastuo sāthe *samavāyasambandh vinānun hovāne līdhe, jenī sāthe anādi -anant svabhāvasiddha samavāyasambandh chhe evā ek ātmāne ati nikaṭapaṇe (abhinnapradeshapaṇe) avalambīne pravartatun hovāthī, ātmā vinā gnān potānī hayātī rākhī shakatun nathī; māṭe gnān ātmā ja chhe. ane ātmā to anant dharmonun adhiṣhṭhān (ādhār) hovāthī gnānadharma dvārā gnān chhe ane anya dharma dvārā anya paṇ chhe.

vaḷī te uparānt (visheṣh samajavun ke), ahīn anekānt baḷavān chhe. ekānte gnān ātmā chhe em mānavāmān āve to, (gnānaguṇ ātmadravya thai javāthī) gnānano abhāv thāy, (ane gnānaguṇano abhāv thavāthī) ātmāne achetanapaṇun āve athavā visheṣh guṇano abhāv thavāthī ātmāno abhāv thāy. sarvathā ātmā gnān chhe em mānavāmān āve to, (ātmadravya ek gnānaguṇarūp thaī jatān gnānane koī ādhārabhūt dravya nahi rahevāthī) nirāshrayapaṇāne līdhe gnānano abhāv thāy athavā (ātmadravya ek gnānaguṇarūp thaī javāthī) ātmānā sheṣh paryāyono (-sukh, vīryādi guṇono) abhāv *samavāyasambandh = guṇ hoy tyān guṇī hoy ane guṇī hoy tyān guṇ hoy, guṇ na hoy tyān guṇī na hoy ane guṇī na hoy tyān guṇ na hoyāvo guṇ -guṇīno abhinnapradesharūp sambandh;

tādātmyasambandh.

Page 47 of 513
PDF/HTML Page 78 of 544
single page version

अथ ज्ञानज्ञेययोः परस्परगमनं प्रतिहन्ति
णाणी णाणसहावो अट्ठा णेयप्पगा हि णाणिस्स
रूवाणि व चक्खूणं णेवण्णोण्णेसु वट्टंति ।।२८।।
ज्ञानी ज्ञानस्वभावोऽर्था ज्ञेयात्मका हि ज्ञानिनः
रूपाणीव चक्षुषोः नैवान्योन्येषु वर्तन्ते ।।२८।।

ज्ञानी चार्थाश्च स्वलक्षणभूतपृथक्त्वतो न मिथो वृत्तिमासादयन्ति किंतु तेषां ज्ञानज्ञेयस्वभावसंबन्धसाधितमन्योन्यवृत्तिमात्रमस्ति चक्षुरूपवत् यथा हि चक्षूंषि तद्विषय- तन्निष्ठमेव च’ ।।२७।। इत्यात्मज्ञानयोरेकत्वं, ज्ञानस्य व्यवहारेण सर्वगतत्वमित्यादिकथनरूपेण द्वितीयस्थले गाथापञ्चकं गतम् अथ ज्ञानं ज्ञेयसमीपे न गच्छतीति निश्चिनोति --णाणी णाणसहावो ज्ञानी सर्वज्ञः केवलज्ञानस्वभाव एव अट्ठा णेयप्पगा हि णाणिस्स जगत्त्रयकालत्रयवर्तिपदार्था ज्ञेयात्मका एव भवन्ति न च ज्ञानात्मकाः कस्य ज्ञानिनः रूवाणि व चक्खूणं णेवण्णोण्णेसु वट्टंति ज्ञानी पदार्थाश्चान्योन्यं परस्परमेकत्वेन न वर्तन्ते कानीव, केषां संबंधित्वेन रूपाणीव चक्षुषामिति thāy ane temanī sāthe avinābhāvī sambandhavāḷā ātmāno paṇ abhāv thāy (kāraṇ ke sukh, vīrya vagere guṇo na hoy tyān ātmā paṇ hoto nathī). 27.

have gnān ane gneyanā paraspar gamanane rad kare chhe (arthāt gnān ane gneyo ekabījāmān praveshatān nathī em kahe chhe)ḥ

chhe ‘gnānī’ gnānasvabhāv, artho gneyarūp chhe ‘gnānī’nā,
jyam rūp chhe netro taṇān, nahi vartatā anyonyamān. 28.

anvayārthaḥ[ज्ञानी] ātmā [ज्ञानस्वभावः] gnānasvabhāv chhe [अर्थाः हि] ane padārtho [ज्ञानिनः] ātmānā [ज्ञेयात्मकाः] gneyasvarūp chhe, [रूपाणि इव चक्षुषोः] jem rūp (rūpī padārtho) netronān gney chhe tem. [अन्योन्येषु] teo ekabījāmān [न एव वर्तन्ते] vartatā nathī.

ṭīkāḥātmā ane padārtho svalakṣhaṇabhūt pr̥uthakpaṇāne līdhe ekabījāmān vartatā nathī parantu temane mātra gnānagneyasvabhāv -sambandhathī sadhātun ekabījāmān vartavun chhe, netra ane rūpanī jem. (anya dravyothī bhinnapaṇun darek dravyanun lakṣhaṇ hovāthī ātmā ane padārtho ekabījāmān vartatā nathī, parantu ātmāno gnānasvabhāv chhe ane padārthono gneyasvabhāv chhe evā gnānagneyasvabhāvarūp sambandhanā kāraṇe ja mātra temanun ekabījāmān vartavun upachārathī kahī


Page 48 of 513
PDF/HTML Page 79 of 544
single page version

भूतरूपिद्रव्याणि च परस्परप्रवेशमन्तरेणापि ज्ञेयाकारग्रहणसमर्पणप्रवणान्येवमात्माऽर्थाश्चा- न्योन्यवृत्तिमन्तरेणापि विश्वज्ञेयाकारग्रहणसमर्पणप्रवणाः ।।२८।।

अथार्थेष्ववृत्तस्यापि ज्ञानिनस्तद्वृत्तिसाधकं शक्तिवैचित्र्यमुद्योतयति
ण पविट्ठो णाविट्ठो णाणी णेयेसु रूवमिव चक्खू
जाणदि पस्सदि णियदं अक्खातीदो जगमसेसं ।।२९।।

तथाहि ---यथा रूपिद्रव्याणि चक्षुषा सह परस्परं संबन्धाभावेऽपि स्वाकारसमर्पणे समर्थानि, चक्षूंषि च तदाकारग्रहणे समर्थानि भवन्ति, तथा त्रैलोक्योदरविवरवर्तिपदार्थाः कालत्रयपर्यायपरिणता ज्ञानेन सह परस्परप्रदेशसंसर्गाभावेऽपि स्वकीयाकारसमर्पणे समर्था भवन्ति, अखण्डैकप्रतिभासमयं केवलज्ञानं तु तदाकारग्रहणे समर्थमिति भावार्थः ।।२८।। अथ ज्ञानी ज्ञेयपदार्थेषु निश्चयनयेनाप्रविष्टोऽपि व्यवहारेण प्रविष्ट इव प्रतिभातीति शक्तिवैचित्र्यं दर्शयति ---ण पविट्ठो निश्चयनयेन न प्रविष्टः, णाविट्ठो व्यवहारेण च नाप्रविष्टः किंतु प्रविष्ट एव स कः कर्ता णाणी ज्ञानी । केषु मध्ये णेयेसु ज्ञेयपदार्थेषु किमिव रूवमिव चक्खू रूपविषये चक्षुरिव एवंभूतस्सन् किं करोति जाणदि पस्सदि जानाति पश्यति च णियदं निश्चितं संशयरहितं किंविशिष्टः सन् अक्खातीदो अक्षातीतः किं जानाति पश्यति जगमसेसं shakāy chhe; netra ane rūpī padārthonī jem.) jem netro ane temanā viṣhayabhūt rūpī dravyo paraspar pravesh vinā paṇ gneyākārone grahavānā ane arpavānā svabhāvavāḷān chhe, tem ātmā ane padārtho ekabījāmān vartyā vinā paṇ samasta gneyākārone grahavānā ane arpavānā svabhāvavāḷā chhe. (jevī rīte āṅkh rūpī padārthomān praveshatī nathī ane rūpī padārtho āṅkhamān praveshatā nathī topaṇ āṅkh rūpī padārthonā gneyākārone grahaṇ karavānājāṇavānā svabhāvavāḷī chhe ane rūpī padārtho potānā gneyākārone arpavānājaṇāvavānā svabhāvavāḷā chhe, tevī rīte ātmā padārthomān praveshato nathī ane padārtho ātmāmān praveshatā nathī topaṇ ātmā padārthonā samasta gneyākārone grahaṇ karavānājāṇavānā svabhāvavāḷo chhe ane padārtho potānā samasta gneyākārone arpavānājaṇāvavānā svabhāvavāḷā chhe.) 28.

have ātmā padārthomān nahi vartato hovā chhatān jenāthī (je shaktivaichitryathī) tene padārthomān vartavun siddha thāy chhe te shaktivaichitryane prakāshe (-darshāve) chheḥ

gneye praviṣhṭa na, aṇapraviṣhṭa na, jāṇato jag sarvane
nitye atīndriy ātamā, jyam netra jāṇe rūpane. 29.

Page 49 of 513
PDF/HTML Page 80 of 544
single page version

न प्रविष्टो नाविष्टो ज्ञानी ज्ञेयेषु रूपमिव चक्षुः
जानाति पश्यति नियतमक्षातीतो जगदशेषम् ।।२९।।

यथा हि चक्षू रूपिद्रव्याणि स्वप्रदेशैरसंस्पृशदप्रविष्टं परिच्छेद्यमाकारमात्मसात्कुर्वन्न चाप्रविष्टं जानाति पश्यति च, एवमात्माप्यक्षातीतत्वात्प्राप्यकारिताविचारगोचरदूरतामवाप्तो ज्ञेयतामापन्नानि समस्तवस्तूनि स्वप्रदेशैरसंस्पृशन्न प्रविष्टः शक्तिवैचित्र्यवशतो वस्तुवर्तिनः समस्तज्ञेयाकारानुन्मूल्य इव क वलयन्न चाप्रविष्टो जानाति पश्यति च एवमस्य विचित्रशक्ति योगिनो ज्ञानिनोऽर्थेष्वप्रवेश इव प्रवेशोऽपि सिद्धिमवतरति ।।२९।। जगदशेषमिति तथा हि ---यथा लोचनं कर्तृ रूपिद्रव्याणि यद्यपि निश्चयेन न स्पृशति तथापि व्यवहारेण स्पृशतीति प्रतिभाति लोके तथायमात्मा मिथ्यात्वरागाद्यास्रवाणामात्मनश्च संबन्धि यत्केवलज्ञानात्पूर्वं विशिष्टभेदज्ञानं तेनोत्पन्नं यत्केवलज्ञानदर्शनद्वयं तेन जगत्त्रयकालत्रयवर्तिपदार्थान्निश्चयेनास्पृशन्नपि व्यवहारेण स्पृशति, तथा स्पृशन्निव ज्ञानेन जानाति दर्शनेन पश्यति च कथंभूतस्सन् अतीन्द्रियसुखास्वादपरिणतः सन्नक्षातीत इति ततो ज्ञायते निश्चयेनाप्रवेश इव व्यवहारेण ज्ञेयपदार्थेषु

anvayārthaḥ[चक्षुः रूपं इव] jevī rīte chakṣhu rūpane (gneyomān apraveshelun rahīne tem ja apraveshelun nahi rahīne jāṇedekhe chhe) tevī rīte [ज्ञानी] ātmā [अक्षातीतः] indriyātīt thayo thako [अशेषं जगत्] asheṣh jagatane (samasta lokālokane) [ज्ञेयेषु] gneyomān [न प्रविष्टः] apraviṣhṭa rahīne [न अविष्टः] tem ja apraviṣhṭa nahi rahīne [नियतं] nirantar [जानाति पश्यति] jāṇe -dekhe chhe.

ṭīkāḥjevī rīte chakṣhu rūpī dravyone svapradesho vaḍe aṇasparshatun hovāthī apraviṣhṭa rahīne (jāṇedekhe chhe) tem ja gney ākārone ātmasāt (-potārūp) karatun hovāthī apraviṣhṭa nahi rahīne jāṇedekhe chhe; tevī rīte ātmā paṇ, indriyātītapaṇāne līdhe *prāpyakāritānā vichāragocharapaṇāthī (paṇ) dūr thayo thako gneyabhūt samasta vastuone svapradeshothī aṇasparshato hovāthī apraviṣhṭa rahīne (jāṇedekhe chhe) tem ja shaktivaichitryane līdhe vastumān vartatā samasta gneyākārone jāṇe ke mūḷamānthī ukheḍīne koḷiyo karī jato hovāthī apraviṣhṭa nahi rahīne jāṇe -dekhe chhe. ā rīte ā vichitra shaktivāḷā ātmāne padārthomān apraveshanī jem pravesh paṇ siddha thāy chhe.

bhāvārthaḥjoke āṅkh potānā pradesho vaḍe rūpī padārthone sparshatī nahi hovāthī nishchayathī to te gneyomān apraviṣhṭa chhe topaṇ te rūpī padārthone jāṇatīdekhatī hovāthī *prāpyakāritā = gney viṣhayone sparshīne ja kārya karī shakavunjāṇī shakavunte. (indriyātīt thayelā

ātmāmān prāpyakāritānā vichārano paṇ avakāsh nathī.) pra. 7