Pravachansar (Gujarati). Gatha: 110.

< Previous Page   Next Page >


Page 214 of 513
PDF/HTML Page 245 of 544

 

૨૧પ્રવચનસાર[ ભગવાનશ્રીકુંદકુંદ-
स्पर्शिन्याः प्रतिक्षणं तेन तेन स्वभावेन परिणमनात् द्रव्यस्वभावभूत एव तावत्परिणामः
स त्वस्तित्वभूतद्रव्यवृत्त्यात्मकत्वात्सदविशिष्टो द्रव्यविधायको गुण एवेति सत्ताद्रव्ययो-
र्गुणगुणिभावः सिद्धयति
।।१०९।।
अथ गुणगुणिनोर्नानात्वमुपहन्ति
णत्थि गुणो त्ति व कोई पज्जाओ त्तीह वा विणा दव्वं
दव्वत्तं पुण भावो तम्हा दव्वं सयं सत्ता ।।११०।।

च गुणी भवतीति प्रतिपादयतिजो खलु दव्वसहावो परिणामो यः खलु स्फु टं द्रव्यस्य स्वभावभूतः परिणामः पञ्चेन्द्रियविषयानुभवरूपमनोव्यापारोत्पन्नसमस्तमनोरथरूपविकल्पजालाभावे सति यश्चिदा- नन्दैकानुभूतिरूपः स्वस्थभावस्तस्योत्पादः, पूर्वोक्तविकल्पजालविनाशो व्ययः, तदुभयाधारभूतजीवत्वं ध्रौव्यमित्युक्तलक्षणोत्पादव्ययध्रौव्यात्मकजीवद्रव्यस्य स्वभावभूतो योऽसौ परिणामः सो गुणो स गुणो भवति स परिणामः कथंभूतः सन्गुणो भवति सदविसिट्ठो सतोऽस्तित्वादविशिष्टोऽभिन्नस्तदुत्पादादित्रयं तिष्ठत्यस्तित्वं चैकं तिष्ठत्यस्तित्वेन सह कथमभिन्नो भवतीति चेत् ‘‘उत्पादव्ययध्रौव्ययुक्तं सत्’’ इति वचनात् एवं सति सत्तैव गुणो भवतीत्यर्थः इति गुणव्याख्यानं गतम् सदवट्ठिदं सहावे दव्वं ति सदवस्थितं स्वभावे द्रव्यमिति द्रव्यं परमात्मद्रव्यं भवति किं कर्तृ सदिति केन अभेद- नयेन कथंभूतम् सत् अवस्थितम् क्व उत्पादव्ययध्रौव्यात्मकस्वभावे जिणोवदेसोयं अयं जिनोपदेश इति ‘सदवट्ठिदं सहावे दव्वं दव्वस्स जो हु परिणामो’ इत्यादिपूर्वसूत्रे यदुक्तं तदेवेदं व्याख्यानम्, गुणकथनं पुनरधिकमिति तात्पर्यम् यथेदं जीवद्रव्ये गुणगुणिनोर्व्याख्यानं હોવાથી (તે વૃત્તિ અર્થાત્ અસ્તિત્વ) પ્રતિક્ષણે તે તે સ્વભાવે પરિણમે છે.

(આ પ્રમાણે) ત્યારે પ્રથમ તો, દ્રવ્યના સ્વભાવભૂત જ પરિણામ છે; અને તે (ઉત્પાદવ્યયધ્રૌવ્યાત્મક પરિણામ), અસ્તિત્વભૂત એવી દ્રવ્યની વૃત્તિસ્વરૂપ હોવાને લીધે, ‘સત્’ થી અવિશિષ્ટ એવો, દ્રવ્યવિધાયક (દ્રવ્યને રચનારો) ગુણ જ છે.આ રીતે સત્તા ને દ્રવ્યનું ગુણ -ગુણીપણું સિદ્ધ થાય છે. ૧૦૯.

હવે ગુણ ને ગુણીના અનેકપણાનું ખંડન કરે છેઃ
પર્યાય કે ગુણ એવું કોઈ ન દ્રવ્ય વિણ વિશ્વે દીસે;
દ્રવ્યત્વ છે વળી ભાવ; તેથી દ્રવ્ય પોતે સત્ત્વ છે.૧૧૦.