मभिलष्येत वा मोहसंवलनाविलयनात् क्रियायाः । क्रिया हि तावच्चेतनस्य पूर्वोत्तरदशा-
विशिष्टचैतन्यपरिणामात्मिका । सा पुनरणोरण्वन्तरसंगतस्य परिणतिरिवात्मनो मोहसंवलितस्य
द्वयणुककार्यस्येव मनुष्यादिकार्यस्य निष्पादकत्वात्सफलैव । सैव मोहसंवलनविलयने पुन-
નહિ થયો હોવાથી, માનવું જોઈએ; કારણ કે — પ્રથમ તો, ક્રિયા ચેતનના પૂર્વોત્તર-
દશાથી ૧વિશિષ્ટ ચૈતન્યપરિણામસ્વરૂપ છે; અને તે (ક્રિયા) — જેમ બીજા અણુ સાથે
જોડાયેલા (કોઈ) અણુની પરિણતિ ૨દ્વિઅણુકકાર્યની નિષ્પાદક છે તેમ — મોહ સાથે મિલિત
चतुर्विंशतिगाथाभिरष्टभिः स्थलैः सामान्यज्ञेयव्याख्यानमध्ये सामान्यद्रव्यप्ररूपणं समाप्तम् । अतः
परं तत्रैव सामान्यद्रव्यनिर्णयमध्ये सामान्यभेदभावनामुख्यत्वेनैकादशगाथापर्यन्तं व्याख्यानं करोति ।
तत्र क्रमेण पञ्चस्थलानि भवन्ति । प्रथमतस्तावद्वार्तिकव्याख्यानाभिप्रायेण सांख्यैकान्तनिराकरणं,
अथवा शुद्धनिश्चयनयेन जैनमतमेवेति व्याख्यानमुख्यतया ‘एसो त्ति णत्थि कोई’ इत्यादि
सूत्रगाथैका । तदनन्तरं मनुष्यादिपर्याया निश्चयनयेन कर्मफलं भवति, न च शुद्धात्मस्वरूपमिति
तस्यैवाधिकारसूत्रस्य विवरणार्थं ‘कम्मं णामसमक्खं’ इत्यादिपाठक्रमेण गाथाचतुष्टयं, ततः परं
रागादिपरिणाम एव द्रव्यकर्मकारणत्वाद्भावकर्म भण्यत इति परिणाममुख्यत्वेन ‘आदा कम्ममलिमसो’
इत्यादिसूत्रद्वयं, तदनन्तरं क र्मफलचेतना क र्मचेतना ज्ञानचेतनेति त्रिविधचेतनाप्रतिपादनरूपेण
‘परिणमदि चेदणाए’ इत्यादिसूत्रत्रयं, तदनन्तरं शुद्धात्मभेदभावनाफलं कथयन् सन् ‘कत्ताकरणं’
इत्याद्येकसूत्रेणोपसंहरति । एवं भेदभावनाधिकारे स्थलपञ्चकेन समुदायपातनिका । तद्यथा — अथ
नरनारकादिपर्यायाः कर्माधीनत्वेन विनश्वरत्वादिति शुद्धनिश्चयनयेन जीवस्वरूपं न भवतीति भेदभावनां
कथयति — एसो त्ति णत्थि कोई टङ्कोत्कीर्णज्ञायकैकस्वभावपरमात्मद्रव्यवत्संसारे मनुष्यादिपर्यायेषु मध्ये
सर्वदैवैष एकरूप एव नित्यः कोऽपि नास्ति । तर्हि मनुष्यादिपर्यायनिर्वर्तिका संसारक्रिया सापि न
भविष्यति । ण णत्थि किरिया न नास्ति क्रिया मिथ्यात्वरागादिपरिणतिस्संसारः कर्मेति यावत् इति
पर्यायनामचतुष्टयरूपा क्रियास्त्येव । सा च कथंभूता । सभावणिव्वत्ता शुद्धात्मस्वभावाद्विपरीतापि
नरनारकादिविभावपर्यायस्वभावेन निर्वृत्ता । तर्हि किं निष्फला भविष्यति । किरिया हि णत्थि अफला
क्रिया हि नास्त्यफला सा मिथ्यात्वरागादिपरिणतिरूपा क्रिया यद्यप्यनन्तसुखादिगुणात्मकमोक्षकार्यं प्रति
निष्फला तथापि नानादुःखदायकस्वकीयकार्यभूतमनुष्यादिपर्यायनिर्वर्तकत्वात्सफलेति मनुष्यादि-
पर्यायनिष्पत्तिरेवास्याः फलम् । कथं ज्ञायत इति चेत् । धम्मो जदि णिप्फलो परमो धर्मो यदि निष्फलः
૧. વિશિષ્ટ = ભેદવાળા. (પહેલાંની અને પછીની અવસ્થાના ભેદે ભેદવાળા એવા ચૈતન્યપરિણામો તે
આત્માની ક્રિયા છે.)
૨. દ્વિઅણુકકાર્યની નિષ્પાદક = બે અણુના બનેલા સ્કંધરૂપ કાર્યની નિપજાવનારી
૨૩૦પ્રવચનસાર[ ભગવાનશ્રીકુંદકુંદ-