एवममी समुपजायमाना द्विप्रदेशादयः स्कन्धा विशिष्टावगाहनशक्तिवशादुपात्त- सौक्ष्म्यस्थौल्यविशेषा विशिष्टाकारधारणशक्तिवशाद्गृहीतविचित्रसंस्थानाः सन्तो यथास्वं परमाणुस्वरूपकथनेन प्रथमगाथा, स्निग्धरूक्षगुणविवरणेन द्वितीया, स्निग्धरूक्षगुणाभ्यां द्वयधिकत्वे सति बन्धकथनेन तृतीया, तस्यैव दृढीकरणेन चतुर्थी चेति परमाणूनां परस्परबन्धव्याख्यानमुख्यत्वेन प्रथमस्थले गाथाचतुष्टयं गतम् । अथात्मा द्वयणुकादिपुद्गलस्कन्धानां कर्ता न भवतीत्युपदिशति — जायन्ते उत्पद्यन्ते । के कर्तारः । दुपदेसादी खंधा द्विप्रदेशाद्यनन्ताणुपर्यन्ताः स्कन्धाः । के जायन्ते । पुढविजलतेउवाऊ पृथ्वीजलतेजोवायवः । कथंभूताः सन्तः । सुहुमा वा बादरा सूक्ष्मा वा बादरा वा । पुनरपि किंविशिष्टाः सन्तः । ससंठाणा यथासंभवं वृत्तचतुरस्रादिस्वकीयस्वकीय- संस्थानाकारयुक्ताः । कैः कृत्वा जायन्ते । सगपरिणामेहिं स्वकीयस्वकीयस्निग्धरूक्षपरिणामैरिति । अथ विस्तरः — जीवा हि तावद्वस्तुतष्टङ्कोत्कीर्णज्ञायकैकरूपेण शुद्धबुद्धैकस्वभावा एव, पश्चाद्वयवहारेणानादिकर्मबन्धोपाधिवशेन शुद्धात्मस्वभावमलभमानाः सन्तः पृथिव्यप्तेजोवातकायिकेषु
અન્વયાર્થઃ — [द्विप्रदेशादयः स्कंधाः] દ્વિપ્રદેશાદિક સ્કંધો (બેથી માંડીને અનંત પ્રદેશવાળા સ્કંધો) — [सूक्ष्माः वा बादराः] કે જેઓ સૂક્ષ્મ અથવા બાદર હોય છે અને [ससंस्थानाः] સંસ્થાનો (આકારો) સહિત હોય છે તેઓ — [पृथिवीजलतेजोवायवः] પૃથ્વી, જળ, તેજ અને વાયુરૂપ [स्वकपरिणामैः जायन्ते] પોતાના પરિણામોથી થાય છે.
ટીકાઃ — એ રીતે (પૂર્વોક્ત રીતે) આ ઊપજતા દ્વિપ્રદેશાદિક સ્કંધો — જેમણે વિશિષ્ટ અવગાહનની શક્તિને વશ સૂક્ષ્મતા અને સ્થૂલતારૂપ ભેદો ગ્રહ્યા છે અને જેમણે વિશિષ્ટ આકાર ધારણ કરવાની શક્તિને વશ વિચિત્ર સંસ્થાનો ગ્રહ્યાં છે તેઓ — પોતાની