Pravachansar (Gujarati). Gatha: 222.

< Previous Page   Next Page >


Page 407 of 513
PDF/HTML Page 438 of 544

 

background image
अथ कस्यचित्क्वचित्कदाचित्कथञ्चित्क श्चिदुपधिरप्रतिषिद्धोऽप्यस्तीत्यपवादमुपदिशति
छेदो जेण ण विज्जदि गहणविसग्गेसु सेवमाणस्स
समणो तेणिह वट्टदु कालं खेत्तं वियाणित्ता ।।२२२।।
छेदो येन न विद्यते ग्रहणविसर्गेषु सेवमानस्य
श्रमणस्तेनेह वर्ततां कालं क्षेत्रं विज्ञाय ।।२२२।।
आत्मद्रव्यस्य द्वितीयपुद्गलद्रव्याभावात्सर्व एवोपधिः प्रतिषिद्ध इत्युत्सर्गः अयं तु
नास्ति, अपि त्वस्त्येव क्व तस्मिन् परिग्रहाकाङ्क्षितपुरुषे आरंभो वा मनोवचनकायक्रियारहित-
परमचैतन्यप्रतिबन्धक आरम्भो वा कथं नास्ति, किन्त्वस्त्येव; असंजमो तस्स शुद्धात्मानुभूतिविलक्षणा-
संयमो वा कथं नास्ति, किन्त्वस्त्येव तस्य सपरिग्रहस्य तध परदव्वम्मि रदो तथैव निजात्मद्रव्यात्परद्रव्ये
रतः कधमप्पाणं पसाधयदि स तु सपरिग्रहपुरुषः कथमात्मानं प्रसाधयति, न कथमपीति ।।२२१।। एवं
श्वेताम्बरमतानुसारिशिष्यसम्बोधनार्थं निर्ग्रन्थमोक्षमार्गस्थापनमुख्यत्वेन प्रथमस्थले गाथापञ्चकं गतम्
अथ कालापेक्षया परमोपेक्षासंयमशक्त्यभावे सत्याहारसंयमशौचज्ञानोपकरणादिकं किमपि
ग्राह्यमित्यपवादमुपदिशति
छेदो जेण ण विज्जदि छेदो येन न विद्यते येनोपकरणेन शुद्धोपयोग-
लक्षणसंयमस्य छेदो विनाशो न विद्यते कयोः गहणविसग्गेसु ग्रहणविसर्गयोः यस्योप-
करणस्यान्यवस्तुनो वा ग्रहणे स्वीकारे विसर्जने त्यागे किं कुर्वतः तपोधनस्य सेवमाणस्स तदुपकरणं
सेवमानस्य समणो तेणिह वट्टदु कालं खेत्तं वियाणित्ता श्रमणस्तेनोपकरणेनेह लोके वर्तताम् किं कृत्वा
कालं क्षेत्रं च विज्ञायेति अयमत्र भावार्थःकालं पञ्चमकालं शीतोष्णादिकालं वा, क्षेत्रं भरतक्षेत्रं
मानुषजाङ्गलादिक्षेत्रं वा, विज्ञाय येनोपकरणेन स्वसंवित्तिलक्षणभावसंयमस्य बहिरङ्गद्रव्यसंयमस्य वा
छेदो न भवति तेन वर्तत इति
।।२२२।। अथ पूर्वसूत्रोदितोपकरणस्वरूपं दर्शयतिअप्पडिकुट्ठं उवधिं
હવે, ‘કોઈને ક્યાંક ક્યારેક કોઈ પ્રકારે કોઇક ઉપધિ અનિષિદ્ધ પણ છે’ એવો
અપવાદ ઉપદેશે છેઃ
ગ્રહણે વિસર્ગે સેવતાં નહિ છેદ જેથી થાય છે,
તે ઉપધિ સહ વર્તો ભલે મુનિ કાળક્ષેત્ર વિજાણીને. ૨૨૨.
અન્વયાર્થઃ[ग्रहणविसर्गेषु] જે ઉપધિને (આહાર -નીહારાદિનાં) ગ્રહણ -વિસર્જનમાં
સેવતાં [येन] જેનાથી [सेवमानस्य] સેવનારને [छेदः] છેદ [न विद्यते] થતો નથી, [तेन] તે
ઉપધિ સહિત, [कालं क्षेत्रं विज्ञाय] કાળક્ષેત્રને જાણીને, [इह] આ લોકમાં [श्रमणः] શ્રમણ
[वर्तताम्] ભલે વર્તો.
ટીકાઃઆત્મદ્રવ્યને દ્વિતીય પુદ્ગલદ્રવ્યનો અભાવ હોવાથી બધોય ઉપધિ નિષિદ્ધ
કહાનજૈનશાસ્ત્રમાળા ]
ચરણાનુયોગસૂચક ચૂલિકા
૪૦૭