यस्तु ज्ञानात्मानमात्मानमेकमग्रं भावयति, स न ज्ञेयभूतं द्रव्यमन्यदासीदति । तदनासाद्य च ज्ञानात्मात्मज्ञानादभ्रष्टः स्वयमेव ज्ञानीभूतस्तिष्ठन्न मुह्यति, न रज्यति, न द्वेष्टि; भवतीत्युपदिशति — अट्ठेसु जो ण मुज्झदि ण हि रज्जदि णेव दोसमुवयादि अर्थेषु बहिःपदार्थेषु यो न मुह्यति, न रज्यति, हि स्फु टं, नैव द्वेषमुपयाति, जदि यदि चेत्, सो समणो स श्रमणः णियदं निश्चितं खवेदि विविहाणि कम्माणि क्षपयति कर्माणि विविधानि इति । अथ विशेषः – योऽसौ दृष्टश्रुतानुभूतभोगाकाङ्क्षा- रूपाद्यपध्यानत्यागेन निजस्वरूपं भावयति, तस्य चित्तं बहिःपदार्थेषु न गच्छति, ततश्च बहिःपदार्थ- चिन्ताभावान्निर्विकारचिच्चमत्कारमात्राच्च्युतो न भवति । तदच्यवनेन च रागाद्यभावाद्विविधकर्माणि विनाशयतीति । ततो मोक्षार्थिना निश्चलचित्तेन निजात्मनि भावना कर्तव्येति । इत्थं वीतरागचारित्र- व्याख्यानं श्रुत्वा केचन वदन्ति — सयोगिकेवलिनामप्येकदेशेन चारित्रं, परिपूर्णचारित्रं पुनरयोगिचरम- समये भविष्यति, तेन कारणेनेदानीमस्माकं सम्यक्त्वभावनया भेदज्ञानभावनया च पूर्यते, चारित्रं पश्चाद्भविष्यतीति । नैवं वक्तव्यम् । अभेदनयेन ध्यानमेव चारित्रं, तच्च ध्यानं केवलिनामुपचारेणोक्तं , चारित्रमप्युपचारेणेति । यत्पुनः समस्तरागादिविकल्पजालरहितं शुद्धात्मानुभूतिलक्षणं सम्यग्दर्शनज्ञान-
હવે, એકાગ્રતા તે મોક્ષમાર્ગ છે એમ (આચાર્યભગવાન) નક્કી કરતા થકા (મોક્ષમાર્ગ -પ્રજ્ઞાપનનો) ઉપસંહાર કરે છેઃ —
અન્વયાર્થઃ — [यदि यः श्रमणः] જો શ્રમણ [अर्थेषु] પદાર્થોમાં [न मुह्यति] મોહ કરતો નથી, [न हि रज्यति] રાગ કરતો નથી, [न एव द्वेषम् उपयाति] દ્વેષ કરતો નથી, [सः] તો તે [नियतं] નિયમથી (ચોક્કસ) [विविधानि कर्माणि] વિવિધ કર્મોને [क्षपयति] ખપાવે છે.
ટીકાઃ — જે જ્ઞાનાત્મક આત્મારૂપ એક અગ્રને ( – વિષયને) ભાવે છે, તે જ્ઞેયભૂત અન્ય દ્રવ્યનો આશ્રય કરતો નથી, અને તેનો આશ્રય નહિ કરીને જ્ઞાનાત્મક આત્મજ્ઞાનથી અભ્રષ્ટ એવો તે સ્વયમેવ જ્ઞાની રહેતો થકો, મોહ કરતો નથી, રાગ કરતો નથી, દ્વેષ