समधिगतशुद्धात्मवृत्तीनां ग्लानगुरुबालवृद्धश्रमणानां वैयावृत्त्यनिमित्तमेव शुद्धात्मवृत्ति- शून्यजनसम्भाषणं प्रसिद्धं, न पुनरन्यनिमित्तमपि ।।२५३।।
तपोधनानां न निन्दिता, न निषिद्धा । का कर्मतापन्ना । लोगिगजणसंभासा लौकिकजनैः सह संभाषा वचनप्रवृत्तिः । सुहोवजुदा वा अथवा सापि शुभोपयोगयुक्ता भण्यते । किमर्थं न निषिद्धा । वेज्जावच्चणिमित्तं वैयावृत्त्यनिमित्तम् । केषां वैयावृत्त्यम् । गिलाणगुरुबालवुड्ढसमणाणं ग्लानगुरुबालवृद्धश्रमणानाम् । अत्र गुरुशब्देन स्थूलकायो भण्यते, अथवा पूज्यो वा गुरुरिति । तथाहि — यदा कोऽपि शुभोपयोगयुक्त आचार्यः सरागचारित्रलक्षणशुभोपयोगिनां वीतरागचारित्रलक्षणशुद्धोपयोगिनां वा वैयावृत्त्यं करोति, तदाकाले तद्वैयावृत्त्यनिमित्तं लौकिकजनैः सह संभाषणं करोति, न शेषकाल इति भावार्थः ।।२५३।। एवं गाथापञ्चकेन लौकिकव्याख्यानसंबन्धिप्रथमस्थलं गतम् । अथायं वैयावृत्त्यादिलक्षण- शुभोपयोगस्तपोधनैर्गौणवृत्त्या श्रावकैस्तु मुख्यवृत्त्या कर्तव्य इत्याख्याति — भणिदा भणिता कथिता । का कर्मतापन्ना । चरिया चर्या चारित्रमनुष्ठानम् । किंविशिष्टा । एसा एषा प्रत्यक्षीभूता । पुनश्च किंरूपा । पसत्थभूदा प्रशस्तभूता धर्मानुरागरूपा । केषां संबन्धिनी । समणाणं वा श्रमणानां वा पुणो घरत्थाणं
અન્વયાર્થઃ — [वा] વળી [ग्लानगुरुबालवृद्धश्रमणानाम्] રોગી, ગુરુ ( – પૂજ્ય, વડેરા), બાળ અને વૃદ્ધ શ્રમણોની [वैयावृत्त्यनिमित्तं] સેવાના (વૈયાવૃત્ત્યના) નિમિત્તે, [शुभोपयुता] શુભોપયોગવાળી [लौकिकजनसम्भाषा] લૌકિક જનો સાથેની વાતચીત [न निन्दिता] નિંદિત નથી.
ટીકાઃ — શુદ્ધાત્મપરિણતિને પામેલા રોગી, ગુરુ, બાળ અને વૃદ્ધ શ્રમણોની સેવાના નિમિત્તે જ (શુભોપયોગી શ્રમણને) શુદ્ધાત્મપરિણતિશૂન્ય જનો સાથે વાતચીત પ્રસિદ્ધ છે ( – શાસ્ત્રોમાં અનિષિદ્ધ છે), પરંતુ બીજા નિમિત્તે પણ પ્રસિદ્ધ છે એમ નથી. ૨૫૩.
હવે એ રીતે કહેવામાં આવેલા શુભોપયોગનો ગૌણ -મુખ્ય વિભાગ દર્શાવે છે (અર્થાત્ કોને શુભોપયોગ ગૌણ હોય છે અને કોને મુખ્ય હોય છે તે કહે છે)ઃ —