अशुभोदयेनात्मा कुनरस्तिर्यग्भूत्वा नैरयिकः ।
दुःखसहस्रैः सदा अभिद्रुतो भ्रमत्यत्यन्तम् ।।१२।।
यदायमात्मा मनागपि धर्मपरिणतिमनासादयन्नशुभोपयोगपरिणतिमालम्बते तदा
कुमनुष्यतिर्यङ्नारकभ्रमणरूपं दुःखसहस्रबन्धमनुभवति । ततश्चारित्रलवस्याप्यभावादत्यन्तहेय
एवायमशुभोपयोग इति ।।१२।।
एवमयमपास्तसमस्तशुभाशुभोपयोगवृत्तिः शुद्धोपयोगवृत्तिमात्मसात्कुर्वाणः शुद्धोपयोगा-
धिकारमारभते । तत्र शुद्धोपयोगफलमात्मनः प्रोत्साहनार्थमभिष्टौति —
पूर्वमनाकुलत्वलक्षणपारमार्थिकसुखविपरीतमाकुलत्वोत्पादकं स्वर्गसुखं लभते । पश्चात् परम-
समाधिसामग्रीसद्भावे मोक्षं च लभते इति सूत्रार्थः ।।११।। अथ चारित्रपरिणामासंभवादत्यन्त-
हेयस्याशुभोपयोगस्य फलं दर्शयति ---असुहोदएण अशुभोदयेन आदा आत्मा कुणरो तिरियो भवीय णेरइयो
कुनरस्तिर्यङ्नारको भूत्वा । किं करोति । दुक्खसहस्सेहिं सदा अभिद्दुदो भमदि अच्चंतं दुःखसहस्रैः सदा
सर्वकालमभिद्रुतः कदर्थितः पीडितः सन् संसारे अत्यन्तं भ्रमतीति । तथाहि ---निर्विकारशुद्धात्म-
तत्त्वरुचिरूपनिश्चयसम्यक्त्वस्य तत्रैव शुद्धात्मन्यविक्षिप्तचित्तवृत्तिरूपनिश्चयचारित्रस्य च विलक्षणेन
विपरीताभिनिवेशजनकेन द्रष्टश्रुतानुभूतपञ्चेन्द्रियविषयाभिलाषतीव्रसंक्लेशरूपेण चाशुभोपयोगेन
यदुपार्जितं पापकर्म तदुदयेनायमात्मा सहजशुद्धात्मानन्दैकलक्षणपारमार्थिकसुखविपरीतेन दुःखेन
दुःखितः सन् स्वस्वभावभावनाच्युतो भूत्वा संसारेऽत्यन्तं भ्रमतीति तात्पर्यार्थः । एवमुपयोगत्रय-
फलकथनरूपेण चतुर्थस्थले गाथाद्वयं गतम् ।।१२।। अथ शुभाशुभोपयोगद्वयं निश्चयनयेन हेयं ज्ञात्वा
शुद्धोपयोगाधिकारं प्रारभमाणः, शुद्धात्मभावनामात्मसात्कुर्वाणः सन् जीवस्य प्रोत्साहनार्थं शुद्धो-
पयोगफलं प्रकाशयति । अथवा द्वितीयपातनीका --यद्यपि शुद्धोपयोगफलमग्रे ज्ञानं सुखं च संक्षेपेण
અન્વયાર્થઃ — [अशुभोदयेन] અશુભ ઉદયથી [आत्मा] આત્મા [कुनरः] કુમનુષ્ય
(હલકો મનુષ્ય), [तिर्यग्] તિર્યંચ [नैरयिकः] અને નારક [भूत्वा] થઈને [दुःखसहस्रैः] હજારો
દુઃખોથી [सदा अभिद्रुतः] સદા પીડિત થતો [अत्यंतं भ्रमति] (સંસારમાં) અત્યંત ભમે છે.
ટીકાઃ — જ્યારે આ આત્મા જરા પણ ધર્મપરિણતિને નહિ પ્રાપ્ત કરતો થકો
અશુભોપયોગપરિણતિને અવલંબે છે, ત્યારે તે કુમનુષ્યપણે, તિર્યંચપણે અને નારકપણે
પરિભ્રમણરૂપ હજારો દુઃખોના બંધને અનુભવે છે; તેથી ચારિત્રના લેશમાત્રનો પણ અભાવ
હોવાથી આ અશુભોપયોગ અત્યંત હેય જ છે. ૧૨.
આ રીતે આ (ભગવાન કુંદકુંદાચાર્યદેવ) સમસ્ત શુભાશુભોપયોગવૃત્તિને (શુભ
ઉપયોગરૂપ અને અશુભ ઉપયોગરૂપ પરિણતિને) ✽અપાસ્ત કરીને ( – તિરસ્કારીને)
✽ અપાસ્ત કરવું = તિરસ્કારવું; તરછોડવું; હેય ગણવું; દૂર કરવું; છોડી દેવું.
કહાનજૈનશાસ્ત્રમાળા ]
જ્ઞાનતત્ત્વ-પ્રજ્ઞાપન
૧૯