Pravachansar (Gujarati). Gatha: 262.

< Previous Page   Next Page >


Page 474 of 513
PDF/HTML Page 505 of 544

 

૪૭પ્રવચનસાર[ ભગવાનશ્રીકુંદકુંદ-

अब्भुट्ठाणं गहणं उवासणं पोसणं च सक्कारं अंजलिकरणं पणमं भणिदमिह गुणाधिगाणं हि ।।२६२।।

अभ्युत्थानं ग्रहणमुपासनं पोषणं च सत्कारः
अञ्जलिकरणं प्रणामो भणितमिह गुणाधिकानां हि ।।२६२।।

श्रमणानां स्वतोऽधिकगुणानामभ्युत्थानग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणाम- प्रवृत्तयो न प्रतिषिद्धाः ।।२६२।। त्रयानन्तरं गुणाद्गुणविशेषात् विसेसिदव्वो तेन आचार्येण स तपोधनो रत्नत्रयभावनावृद्धिकारण- क्रियाभिर्विशेषितव्यः त्ति उवदेसो इत्युपदेशः सर्वज्ञगणधरदेवादीनामिति ।।२६१।। अथ तमेव विशेषं कथयति भणिदं भणितं कथितं इह अस्मिन्ग्रन्थे केषां संबन्धी गुणाधिगाणं हि गुणाधिकतपोधनानां हि स्फु टम् किं भणितम् अब्भुट्ठाणं गहणं उवासणं पोसणं च सक्कारं अंजलिकरणं पणमं अभ्युत्थान- ग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणामादिकम् अभिमुखगमनमभ्युत्थानम्, ग्रहणं स्वीकारः, उपासनं शुद्धात्मभावनासहकारिकारणनिमित्तं सेवा, तदर्थमेवाशनशयनादिचिन्ता पोषणम्, भेदाभेद- रत्नत्रयगुणप्रकाशनं सत्कारः, बद्धाञ्जलिनमस्कारोऽञ्जलिकरणम्, नमोऽस्त्वितिवचनव्यापारः प्रणाम इति ।।२६२।। अथाभ्यागतानां तदेवाभ्युत्थानादिकं प्रकारान्तरेण निर्दिशतिअब्भुट्ठेया यद्यपि चारित्रगुणेनाधिका न भवन्ति, तपसा वा, तथापि सम्यग्ज्ञानगुणेन ज्येष्ठत्वाच्छ्रुतविनयार्थमभ्युत्थेयाः अभ्युत्थानयोग्या भवन्ति के ते समणा श्रमणा निर्ग्रन्थाचार्याः किंविशिष्टाः सुत्तत्थविसारदा विशुद्धज्ञानदर्शनस्वभावपरमात्मतत्त्वप्रभृत्यनेकान्तात्मकपदार्थेषु वीतरागसर्वज्ञप्रणीतमार्गेण प्रमाणनय- निक्षेपैर्विचारचतुरचेतसः सूत्रार्थविशारदाः न केवलमभ्युत्थेयाः, उवासेया परमचिज्जोतिःपरमात्म-

(એ રીતે પહેલું સૂત્ર કહીને હવે એ વિષયનું બીજું સૂત્ર કહે છેઃ)
ગુણથી અધિક શ્રમણો પ્રતિ સત્કાર, અભ્યુત્થાન ને
અંજલિકરણ, પોષણ, ગ્રહણ, સેવન અહીં ઉપદિષ્ટ છે. ૨૬૨.

અન્વયાર્થઃ[गुणाधिकानां हि] ગુણાધિક (ગુણે અધિક શ્રમણો) પ્રત્યે [अभ्युत्थानं] અભ્યુત્થાન, [ग्रहणं] ગ્રહણ (આદરથી સ્વીકાર), [उपासनं] ઉપાસન, [पोषणं] પોષણ (તેમનાં અશન, શયન વગેરેની ચિંતા), [सत्कारः] સત્કાર (ગુણપ્રશંસા), [अञ्जलिकरणं] અંજલિકરણ (વિનયથી હાથ જોડવા) [च] અને [प्रणामः] પ્રણામ કરવાનું [इह] અહીં [भणितम्] કહ્યું છે.

ટીકાઃશ્રમણોને પોતાનાથી અધિક ગુણવાળા (શ્રમણો) પ્રત્યે અભ્યુત્થાન, ગ્રહણ, ઉપાસન, પોષણ, સત્કાર, અંજલિકરણ અને પ્રણામરૂપ પ્રવૃત્તિઓ નિષિદ્ધ નથી. ૨૬૨.