Pravachansar (Gujarati). Gatha: 265.

< Previous Page   Next Page >


Page 477 of 513
PDF/HTML Page 508 of 544

 

background image
अथ श्रामण्येन सममननुमन्यमानस्य विनाशं दर्शयति
अववददि सासणत्थं समणं दिट्ठा पदोसदो जो हि
किरियासु णाणुमण्णदि हवदि हि सो णट्ठचारित्तो ।।२६५।।
अपवदति शासनस्थं श्रमणं दृष्टवा प्रद्वेषतो यो हि
क्रियासु नानुमन्यते भवति हि स नष्टचारित्रः ।।२६५।।
श्रमणं शासनस्थमपि प्रद्वेषादपवदतः क्रियास्वननुमन्यमानस्य च प्रद्वेषकषायितत्वात
चारित्रं नश्यति ।।२६५।।
तपोधनम् क थंभूतम् सासणत्थं शासनस्थं निश्चयव्यवहारमोक्षमार्गस्थम् कस्मात् पदोसदो
निर्दोषिपरमात्मभावनाविलक्षणात् प्रद्वेषात्कषायात् किं कृत्वा पूर्वम् दिट्ठा दृष्टवा न केवलं अपवदति,
णाणुमण्णदि नानुमन्यते कासु विषये किरियासु यथायोग्यं वन्दनादिक्रियासु हवदि हि सो भवति हि
स्फु टं सः किंविशिष्टः णट्ठचारित्तो कथंचिदतिप्रसंगान्नष्टचारित्रो भवतीति तथाहिमार्गस्थतपोधनं
दृष्टवा यदि कथंचिन्मात्सर्यवशाद्दोषग्रहणं करोति तदा चारित्रभ्रष्टो भवति स्फु टं; पश्चादात्मनिन्दां कृत्वा
निवर्तते तदा दोषो नास्ति, कालान्तरे वा निवर्तते तथापि दोषो नास्ति
यदि पुनस्तत्रैवानुबन्धं कृत्वा
तीव्रकषायवशादतिप्रसंगं करोति तदा चारित्रभ्रष्टो भवतीति अयमत्र भावार्थःबहुश्रुतैरल्प-
श्रुततपोधनानां दोषो न ग्राह्यस्तैरपि तपोधनैः किमपि पाठमात्रं गृहीत्वा तेषां दोषो न ग्राह्यः, किंतु
किमपि सारपदं गृहीत्वा स्वयं भावनैव कर्तव्या
कस्मादिति चेत् रागद्वेषोत्पत्तौ सत्यां बहुश्रुतानां
હવે જે શ્રામણ્યે સમાન છે તેનું અનુમોદન (આદર) નહિ કરનારનો વિનાશ દર્શાવે
છેઃ
મુનિ શાસને સ્થિત દેખીને જે દ્વેષથી નિંદા કરે,
અનુમત નહીં કિરિયા વિષે, તે નાશ ચરણ તણો કરે. ૨૬૫.
અન્વયાર્થઃ[यः हि] જે [शासनस्थं श्रमणं] શાસનસ્થ (જિનદેવના શાસનમાં
રહેલા) શ્રમણને [दृष्टवा] દેખીને [प्रद्वेषतः] દ્વેષથી [अपवदति] તેના અપવાદ બોલે છે અને
[क्रियासु न अनुमन्यते] (સત્કારાદિ) ક્રિયાઓ કરવામાં અનુમત (ખુશી) નથી, [सः नष्टचारित्रः
हि भवति] તેનું ચારિત્ર નષ્ટ થાય છે.
ટીકાઃજે શ્રમણ દ્વેષને લીધે શાસનસ્થ શ્રમણના પણ અપવાદ બોલે છે અને
(તેના પ્રત્યે સત્કારાદિ) ક્રિયાઓ કરવામાં અનુમત નથી, તે શ્રમણ દ્વેષ વડે *કષાયિત થવાથી
તેનું ચારિત્ર નાશ પામે છે. ૨૬૫.
*કષાયિત = કષાયવાળો; વિકારી; રંગાયેલો.
કહાનજૈનશાસ્ત્રમાળા ]
ચરણાનુયોગસૂચક ચૂલિકા
૪૭૭