नास्ति । कथंभूतम् । देहगदं देहगतं देहाधारजिह्वेन्द्रियादिसमुत्पन्नं कवलाहारादिसुखम्, असातोदयजनितं क्षुधादिदुःखं च । कस्मान्नास्ति । जम्हा अदिंदियत्तं जादं यस्मान्मोहादिघातिकर्माभावे पञ्चेन्द्रिय- विषयव्यापाररहितत्वं जातम् । तम्हा दु तं णेयं तस्मादतीन्द्रियत्वाद्धेतोरतीन्द्रियमेव तज्ज्ञानं सुखं च ज्ञेयमिति । तद्यथा — लोहपिण्डसंसर्गाभावादग्निर्यथा घनघातपिट्टनं न लभते तथायमात्मापि लोहपिण्ड- स्थानीयेन्द्रियग्रामाभावात् सांसारिकसुखदुःखं नानुभवतीत्यर्थः । कश्चिदाह – केवलिनां भुक्तिरस्ति, औदारिकशरीरसद्भावात् । असद्वेद्यकर्मोदयसद्भावाद्वा । अस्मदादिवत् । परिहारमाह — तद्भगवतः शरीर- मौदारिकं न भवति किंतु परमौदारिकम् । तथा चोक्तं – ‘‘शुद्धस्फ टिकसंकाशं तेजोमूर्तिमयं वपुः । जायते क्षीणदोषस्य सप्तधातुविवर्जितम्’’ ।। यच्चोक्तमसद्वेद्योदयसद्भावात्तत्र परिहारमाह — यथा व्रीह्यादिबीजं जलसहकारिकारणसहितमङ्कुरादिकार्यं जनयति तथैवासद्वेद्यकर्म मोहनीयसहकारिकारणसहितं क्षुधादि- कार्यमुत्पादयति । क स्मात् । ‘मोहस्स बलेण घाददे जीवं’ इति वचनात् । यदि पुनर्मोहाभावेऽपि क्षुधादिपरीषहं जनयति तर्हि वधरोगादिपरीषहमपि जनयतु, न च तथा । तदपि कस्मात् । ‘भुक्त्युपसर्गाभावात्’ इति वचनात् । अन्यदपि दूषणमस्ति । यदि क्षुधाबाधास्ति तर्हि क्षुधाक्षीणशक्तेरनन्तवीर्यं नास्ति । तथैव क्षुधादुःखितस्यानन्तसुखमपि नास्ति । जिह्वेन्द्रियपरिच्छित्ति- रूपमतिज्ञानपरिणतस्य केवलज्ञानमपि न संभवति । अथवा अन्यदपि कारणमस्ति । असद्वेद्योदयापेक्षया सद्वेद्योदयोऽनन्तगुणोऽस्ति । ततः कारणात् शर्कराराशिमध्ये निम्बकणिकावदसद्वेद्योदयो विद्यमानोऽपि न ज्ञायते । तथैवान्यदपि बाधकमस्ति — यथा प्रमत्तसंयतादितपोधनानां वेदोदये विद्यमानेऽपि मन्दमोहोदयत्वादखण्डब्रह्मचारिणां स्त्रीपरीषहबाधा नास्ति, यथैव च नवग्रैवेयकाद्यहमिन्द्रदेवानां
ભાવાર્થઃ — આત્માને જ્ઞાન અને સુખરૂપે પરિણમવામાં ઇન્દ્રિયાદિ પર નિમિત્તોની જરૂર નથી; કારણ કે સ્વપરનું પ્રકાશકપણું જેનું લક્ષણ અર્થાત્ સ્વરૂપ છે એવું જ્ઞાન અને અનાકુળપણું જેનું લક્ષણ છે એવું સુખ આત્માનો સ્વભાવ જ છે. ૧૯.
હવે અતીન્દ્રિયપણાને લીધે જ શુદ્ધ આત્માને (કેવળીભગવાનને) શારીરિક સુખદુઃખ નથી એમ વ્યક્ત કરે છેઃ —