सौख्यं वा पुनर्दुःखं केवलज्ञानिनो नास्ति देहगतम् ।
यस्मादतीन्द्रियत्वं जातं तस्मात्तु तज्ज्ञेयम् ।।२०।।
અન્વયાર્થઃ — [केवलज्ञानिनः] કેવળજ્ઞાનીને [देहगतं] શરીર સંબંધી [सौख्यं] સુખ
[वा पुनः दुःखं] કે દુઃખ [नास्ति] નથી. [यस्मात्] કારણ કે [अतीन्द्रियत्वं जातं]
અતીન્દ્રિયપણું થયું છે [तस्मात् तु तत् ज्ञेयम्] તેથી એમ જાણવું.
वेदोदये विद्यमानेऽपि मन्दमोहोदयेन स्त्रीविषयबाधा नास्ति, तथा भगवत्यसद्वेद्योदये विद्यमानेऽपि
निरवशेषमोहाभावात् क्षुधाबाधा नास्ति । यदि पुनरुच्यते भवद्भि ::::: — मिथ्यादृष्टयादिसयोग-
केवलिपर्यन्तास्त्रयोदशगुणस्थानवर्तिनो जीवा आहारका भवन्तीत्याहारकमार्गणायामागमे भणितमास्ते,
ततः कारणात् केवलिनामाहारोऽस्तीति । तदप्ययुक्तम् । ‘‘णोकम्म -कम्महारो कवलाहारो य
लेप्पमाहारो । ओजमणो वि य कमसो आहारो छव्विहो णेयो’’ ।। इति गाथाकथितक्रमेण यद्यपि
षट्प्रकार आहारो भवति तथापि नोकर्माहारापेक्षया केवलिनामाहारकत्वमवबोद्धव्यम् । न च
कवलाहारापेक्षया । तथाहि — सूक्ष्माः सुरसाः सुगन्धा अन्यमनुजानामसंभविनः कवलाहारं विनापि
किञ्चिदूनपूर्वकोटिपर्यन्तं शरीरस्थितिहेतवः सप्तधातुरहितपरमौदारिकशरीरनोकर्माहारयोग्या लाभान्त-
रायकर्मनिरवशेषक्षयात् प्रतिक्षणं पुद्गला आस्रवन्तीति नवकेवललब्धिव्याख्यानकाले भणितं तिष्ठति ।
ततो ज्ञायते नोकर्माहारापेक्षया केवलिनामाहारकत्वम् । अथ मतम् – भवदीयकल्पनया आहारानाहारकत्वं
नोकर्माहारापेक्षया, न च कवलाहारापेक्षया चेति कथं ज्ञायते । नैवम् । ‘‘एकं द्वौ त्रीन् वानाहारकः’’
इति तत्त्वार्थे कथितमास्ते । अस्य सूत्रस्यार्थः कथ्यते — भवान्तरगमनकाले विग्रहगतौ शरीराभावे सति
नूतनशरीरधारणार्थं त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलपिण्डग्रहणं नोकर्माहार उच्यते । स
च विग्रहगतौ कर्माहारे विद्यमानेऽप्येकद्वित्रिसमयपर्यन्तं नास्ति । ततो नोकर्माहारापेक्षयाऽऽहारा-
नाहारकत्वमागमे ज्ञायते । यदि पुनः कवलाहारापेक्षया तर्हि भोजनकालं विहाय सर्वदैवानाहारक एव,
समयत्रयनियमो न घटते । अथ मतम् – केवलिनां कवलाहारोऽस्ति मनुष्यत्वात् वर्तमानमनुष्यवत् ।
तदप्ययुक्त म् । तर्हि पूर्वकालपुरुषाणां सर्वज्ञत्वं नास्ति, रामरावणादिपुरुषाणां च विशेषसामर्थ्यं नास्ति
वर्तमानमनुष्यवत् । न च तथा । किंच छद्मस्थतपोधना अपि सप्तधातुरहितपरमौदारिकशरीराभावे ‘छट्ठो
त्ति पढमसण्णा’ इति वचनात् प्रमत्तसंयतषष्ठगुणस्थानवर्तिनो यद्यप्याहारं गृह्णन्ति तथापि ज्ञानसंयम-
ध्यानसिद्धयर्थं, न च देहममत्वार्थम् । उक्तं च — ‘‘कायस्थित्यर्थमाहारः कायो ज्ञानार्थमिष्यते । ज्ञानं
कर्मविनाशाय तन्नाशे परमं सुखम्’’ ।। ‘‘ण बलाउसाहणट्ठं ण सरीरस्स य चयट्ठ तेजट्ठं । णाणट्ठ
संजमट्ठं झाणट्ठं चेव भुंजंति ।।’’ तस्य भगवतो ज्ञानसंयमध्यानादिगुणाः स्वभावेनैव तिष्ठन्ति न
चाहारबलेन । यदि पुनर्देहममत्वेनाहारं गृह्णाति तर्हि छद्मस्थेभ्योऽप्यसौ हीनः प्राप्नोति । अथोच्यते —
तस्यातिशयविशेषात्प्रकटा भुक्तिर्नास्ति प्रच्छन्ना विद्यते । तर्हि परमौदारिकशरीरत्वाद्भुक्तिरेव
नास्त्ययमेवातिशयः किं न भवति । तत्र तु प्रच्छन्नभुक्तौ मायास्थानं दैन्यवृत्तिः, अन्येऽपि
पिण्डशुद्धिकथिता दोषा बहवो भवन्ति । ते चान्यत्र तर्कशास्त्रे ज्ञातव्याः । अत्र
કહાનજૈનશાસ્ત્રમાળા ]
જ્ઞાનતત્ત્વ-પ્રજ્ઞાપન
૩૫