इन्द्रियज्ञानं नाम उपदेशान्तःकरणेन्द्रियादीनि विरूपकारणत्वेनोपलब्धिसंस्कारादीन् अन्तरङ्गस्वरूपकारणत्वेनोपादाय प्रवर्तते । प्रवर्तमानं च सप्रदेशमेवाध्यवस्यति स्थूलोपलम्भक- त्वान्नाप्रदेशम् । मूर्तमेवावगच्छति तथाविधविषयनिबन्धनसद्भावान्नामूर्तम् । वर्तमानमेव परिच्छि- नत्ति विषयविषयिसन्निपातसद्भावान्न तु वृत्तं वर्त्स्यच्च । यत्तु पुनरनावरणमतीन्द्रियं ज्ञानं तस्य समिद्धधूमध्वजस्येवानेकप्रकारतालिङ्गितं दाह्यं दाह्यतानतिक्रमाद्दाह्यमेव यथा तथात्मनः अप्रदेशं सप्रदेशं मूर्तममूर्तमजातमतिवाहितं च पर्यायजातं ज्ञेयतानतिक्रमात्परिच्छेद्यमेव भवतीति ।।४१।। अथातीन्द्रियज्ञानमतीतानागतसूक्ष्मादिपदार्थान् जानातीत्युपदिशति ---अपदेसं अप्रदेशं कालाणुपरमाण्वादि सपदेसं शुद्धजीवास्तिकायादिपञ्चास्तिकायस्वरूपं मुत्तं मूर्तं पुद्गलद्रव्यं अमुत्तं च अमूर्तं च शुद्धजीवद्रव्यादि पज्जयमजादं पलयं गदं च पर्यायमजातं भाविनं प्रलयं गतं चातीतमेतत्सर्वं पूर्वोक्तं ज्ञेयं वस्तु जाणदि जानाति यद्ज्ञानं कर्तृ तं णाणमदिंदियं भणियं तद्ज्ञानमतीन्द्रियं भणितं, तेनैव सर्वज्ञो भवति । तत एव च पूर्वगाथोदितमिन्द्रियज्ञानं मानसज्ञानं च त्यक्त्वा ये निर्विकल्पसमाधि- रूपस्वसंवेदनज्ञाने समस्तविभावपरिणामत्यागेन रतिं कुर्वन्ति त एव परमाह्लादैकलक्षणसुखस्वभावं सर्वज्ञपदं लभन्ते इत्यभिप्रायः ।।४१।। एवमतीतानागतपर्याया वर्तमानज्ञाने प्रत्यक्षा न भवन्तीति
टीकाः — इन्द्रियज्ञान उपदेश, अंतःकरण, इन्द्रिय वगेरेने १विरूप -कारणपणे (ग्रहीने) अने २उपलब्धि, ३संस्कार वगेरेने अंतरंग स्वरूप -कारणपणे ग्रहीने प्रवर्ते छे; अने प्रवर्ततुं थकुं (ते), सप्रदेशने ज जाणे छे कारण के स्थूलनुं जाणनार छे, अप्रदेशने नथी जाणतुं (कारण के सूक्ष्मनुं जाणनार नथी); मूर्तने ज जाणे छे कारण के तेवा (मूर्तिक) विषय साथे तेने संबंध छे, अमूर्तने नथी जाणतुं (कारण के अमूर्तिक विषय साथे इन्द्रियज्ञानने संबंध नथी); वर्तमानने ज जाणे छे कारण के विषय -विषयीना सन्निपातनो सद्भाव छे, वर्ती चूकेलाने अने भविष्यमां वर्तनारने नथी जाणतुं (कारण के इन्द्रिय अने पदार्थना सन्निकर्षनो अभाव छे).
परंतु जे अनावरण अतीन्द्रिय ज्ञान छे तेने तो पोताने अप्रदेश, सप्रदेश, मूर्त ने अमूर्त (पदार्थमात्र) तथा अनुत्पन्न तेम ज व्यतीत पर्यायमात्र, ज्ञेयपणाने नहि अतिक्रमता होवाथी ज्ञेय ज छे — जेम प्रज्वलित अग्निने अनेक प्रकारनुं इंधन, दाह्यपणाने नहि अतिक्रमतुं होवाथी, दाह्य ज छे. (जेम प्रदीप्त अग्नि दाह्यमात्रने — इंधनमात्रने — बाळे छे, तेम निरावरण ज्ञान ज्ञेयमात्रने — द्रव्यपर्यायमात्रने — जाणे छे). ४१.
७०प्रवचनसार[ भगवानश्रीकुंदकुंद-
१विरूप = ज्ञानना स्वरूपथी भिन्न स्वरूपवाळां. (उपदेश, मन अने इन्द्रियो पौद्गलिक होवाथी तेमनुं
रूप ज्ञानना स्वरूपथी भिन्न छे. तेओ इन्द्रियज्ञानमां बहिरंग कारणो छे.)
२उपलब्धि = ज्ञानावरणीय कर्मना क्षयोपशमना निमित्ते ऊपजेली पदार्थोने जाणवानी शक्ति.
(आ ‘लब्ध’शक्ति ज्यारे ‘उपयुक्त’ थाय त्यारे ज पदार्थ जणाय.)
३संस्कार = पूर्वे जाणेला पदार्थोनी धारणा