परिणमदि णेयमट्ठं णादा जदि णेव खाइगं तस्स ।
परिच्छेत्ता हि यत्परिच्छेद्यमर्थं परिणमति तन्न तस्य सकलकर्मकक्षक्षयप्रवृत्तस्वाभाविक- परिच्छेदनिदानमथवा ज्ञानमेव नास्ति तस्य । यतः प्रत्यर्थपरिणतिद्वारेण मृगतृष्णाम्भोभार- संभावनाकरणमानसः सुदुःसहं कर्मभारमेवोपभुञ्जानः स जिनेन्द्रैरुद्गीतः ।।४२।। बौद्धमतनिराकरणमुख्यत्वेन गाथात्रयं, तदनन्तरमिन्द्रियज्ञानेन सर्वज्ञो न भवत्यतीन्द्रियज्ञानेन भवतीति नैयायिकमतानुसारिशिष्यसंबोधनार्थं च गाथाद्वयमिति समुदायेन पञ्चमस्थले गाथापञ्चकं गतम् ।। अथ रागद्वेषमोहाः बन्धकारणं, न च ज्ञानमित्यादिकथनरूपेण गाथापञ्चकपर्यन्तं व्याख्यानं करोति । तद्यथा --यस्येष्टानिष्टविकल्परूपेण कर्मबन्धकारणभूतेन ज्ञेयविषये परिणमनमस्ति तस्य क्षायिकज्ञानं नास्तीत्यावेदयति ---परिणमदि णेयमट्ठं णादा जदि नीलमिदं पीतमिदमित्यादिविकल्परूपेण यदि ज्ञेयार्थं परिणमति ज्ञातात्मा णेव खाइगं तस्स णाणं ति तस्यात्मनः क्षायिकज्ञानं नैवास्ति । अथवा ज्ञानमेव नास्ति । कस्मान्नास्ति । तं जिणिंदा खवयंतं कम्ममेवुत्ता तं पुरुषं कर्मतापन्नं जिनेन्द्राः कर्तारः उक्तवंतः ।
हवे ज्ञेय पदार्थरूपे परिणमन जेनुं लक्षण छे एवी (ज्ञेयार्थपरिणमनस्वरूप) क्रिया ज्ञानमांथी उद्भवती नथी एम श्रद्धे छे (अर्थात् एवी श्रद्धा व्यक्त करे छे)ः —
अन्वयार्थः — [ज्ञाता] ज्ञाता [यदि] जो [ज्ञेयं अर्थं] ज्ञेय पदार्थरूपे [परिणमति] परिणमतो होय [तस्य] तो तेने [क्षायिकं ज्ञानं] क्षायिक ज्ञान [न एव इति] नथी ज. [जिनेन्द्राः] जिनेन्द्रोए [तं] तेने [कर्म एव] कर्मने ज [क्षपयन्तं] अनुभवनार [उक्तवन्तः] कह्यो छे.
टीकाः — ज्ञाता जो ज्ञेय पदार्थरूपे परिणमतो होय, तो तेने सकळ कर्मवनना क्षये प्रवर्तता स्वाभाविक जाणपणानुं कारण (क्षायिकज्ञान) नथी; अथवा तेने ज्ञान ज नथी; कारण के दरेक पदार्थरूपे परिणति द्वारा मृगतृष्णामां जळसमूहनी कल्पना करवाना मानसवाळो ते (आत्मा) दुःसह कर्मभारने ज भोगवे छे एम जिनेन्द्रोए कह्युं छे.