अथ क्रमकृतप्रवृत्त्या ज्ञानस्य सर्वगतत्वं न सिद्धयतीति निश्चिनोति — उपज्जदि जदि णाणं कमसो अट्ठे पडुच्च णाणिस्स ।
ज्ञेयभूतानां परिच्छेदका ग्राहकाः । अखण्डैकप्रतिभासमयं यन्महासामान्यं तत्स्वभावमात्मानं योऽसौ प्रत्यक्षं न जानाति स पुरुषः प्रतिभासमयेन महासामान्येन ये व्याप्ता अनन्तज्ञानविशेषास्तेषां विषयभूताः येऽनन्तद्रव्यपर्यायास्तान् कथं जानाति, न कथमपि । अथ एतदायातम् — यः आत्मानं न जानाति स सर्वं न जानातीति । तथा चोक्तम् --‘‘एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः । एको भावस्तत्त्वतो येन बुद्धः सर्वे भावास्तत्त्वतस्तेन बुद्धाः ।।’’ अत्राह शिष्य : – आत्मपरिज्ञाने सति सर्वपरिज्ञानं भवतीत्यत्र व्याख्यातं, तत्र तु पूर्वसूत्रे भणितं सर्वपरिज्ञाने सत्यात्मपरिज्ञानं भवतीति । यद्येवं तर्हि छद्मस्थानां सर्वपरिज्ञानं नास्त्यात्मपरिज्ञानं कथं भविष्यति, आत्मपरिज्ञानाभावे चात्मभावना कथं, तदभावे केवलज्ञानोत्पत्तिर्नास्तीति । परिहारमाह — परोक्षप्रमाणभूतश्रुतज्ञानेन सर्वपदार्था ज्ञायन्ते । कथमिति चेत् --लोकालोकादिपरिज्ञानं व्याप्तिज्ञानरूपेण छद्मस्थानामपि विद्यते, तच्च व्याप्तिज्ञानं परोक्षाकारेण केवलज्ञानविषयग्राहकं कथंचिदात्मैव भण्यते ।
भावार्थः — ४८ ने ४९मी गाथामां एम दर्शाव्युं के जे सर्वने जाणतो नथी ते पोताने जाणतो नथी, अने जे पोताने जाणतो नथी ते सर्वने जाणतो नथी. पोतानुं ज्ञान अने सर्वनुं ज्ञान एकीसाथे ज होय छे. पोते अने सर्व — ए बेमांथी एकनुं ज्ञान होय अने बीजानुं न होय ए असंभवित छे.
आ कथन एकदेश ज्ञाननी अपेक्षाथी नथी परंतु पूर्ण ज्ञाननी (केवळज्ञाननी) अपेक्षाथी छे. ४९.
हवे क्रमे प्रवर्तता ज्ञाननुं सर्वगतपणुं सिद्ध थतुं नथी एम नक्की करे छेः —
अन्वयार्थः — [यदि] जो [ज्ञानिनः ज्ञानं ] आत्मानुं ज्ञान [क्रमशः] क्रमशः [अर्थान् प्रतीत्य] पदार्थोने अवलंबीने [उत्पद्यते] उत्पन्न थतुं होय [तद् ] तो ते (ज्ञान) [न एव नित्यं भवति] नित्य नथी, [न क्षायिकं ] क्षायिक नथी, [न एव सर्वगतम् ] सर्वगत नथी.