क्षायिकं हि ज्ञानमतिशयास्पदीभूतपरममाहात्म्यम् । यत्तु युगपदेव सर्वार्थानालम्ब्य प्रवर्तते ज्ञानं तट्टङ्कोत्कीर्णन्यायावस्थितसमस्तवस्तुज्ञेयाकारतयाधिरोपितनित्यत्वं प्रतिपन्नसमस्त- व्यक्तित्वेनाभिव्यक्तस्वभावभासिक्षायिकभावं त्रैकाल्येन नित्यमेव विषमीकृतां सकलामपि सर्वार्थसंभूतिमनन्तजातिप्रापितवैचित्र्यां परिच्छिन्ददक्रमसमाक्रान्तानन्तद्रव्यक्षेत्रकालभावतया प्रकटीकृताद्भुतमाहात्म्यं सर्वगतमेव स्यात् ।।५१।। कृत्वा । अट्ठे पडुच्च ज्ञेयार्थानाश्रित्य । कस्य । णाणिस्स ज्ञानिनः आत्मनः । तं णेव हवदि णिच्चं उत्पत्तिनिमित्तभूतपदार्थविनाशे तस्यापि विनाश इति नित्यं न भवति । ण खाइगं ज्ञानावरणीय- कर्मक्षयोपशमाधीनत्वात् क्षायिकमपि न भवति । णेव सव्वगदं यत एव पूर्वोक्तप्रकारेण पराधीनत्वेन नित्यं न भवति, क्षयोपशमाधीनत्वेन क्षायिकं च न भवति, तत एव युगपत्समस्तद्रव्यक्षेत्रकालभावानां परिज्ञानसामर्थ्याभावात्सर्वगतं न भवति । अत एतत्स्थितं यद्ज्ञानं क्रमेणार्थान् प्रतीत्य जायते तेन सर्वज्ञो न भवति इति ।।५०।। अथ युगपत्परिच्छित्तिरूपज्ञानेनैव सर्वज्ञो भवतीत्यावेदयति ---जाणदि जानाति । किं कर्तृ । जोण्हं जैनज्ञानम् । कथम् । जुगवं युगपदेकसमये । अहो हि णाणस्स माहप्पं अहो हि स्फु टं जैनज्ञानस्य माहात्म्यं पश्यताम् । किं जानाति । अर्थमित्यध्याहारः । कथंभूतम् । तिक्कालणि- च्चविसयं त्रिकालविषयं त्रिकालगतं नित्यं सर्वकालम् । पुनरपि किंविशिष्टम् । सयलं समस्तम् । पुनरपि कथंभूतम् । सव्वत्थसंभवं सर्वत्र लोके संभवं समुत्पन्नं स्थितम् । पुनश्च किंरूपम् । चित्तं नानाजातिभेदेन विचित्रमिति । तथा हि --युगपत्सकलग्राहकज्ञानेन सर्वज्ञो भवतीति ज्ञात्वा किं कर्तव्यम् । ज्योतिष्क-
टीकाः — खरेखर क्षायिक ज्ञाननुं, सर्वोत्कृष्टताना स्थानभूत परम माहात्म्य छे; अने जे ज्ञान एकीसाथे ज सर्व पदार्थोने अवलंबीने प्रवर्ते छे ते ज्ञान — पोतामां समस्त वस्तुओना ज्ञेयाकारो *टंकोत्कीर्णन्याये स्थित होवाथी जेणे नित्यत्व प्राप्त कर्युं छे अने समस्त व्यक्तिओ प्राप्त करी होवाथी जेणे स्वभावप्रकाशक क्षायिकभाव प्रगट कर्यो छे एवुं — त्रणे काळे सदाय विषम रहेता ( – असमानजातिपणे परिणमता) अने अनंत प्रकारोने लीधे विचित्रताने पामेला एवा आखाय सर्व पदार्थोना समूहने जाणतुं थकुं, अक्रमे अनंत द्रव्य -क्षेत्र -काळ -भावने पहोंची वळतुं होवाथी जेणे अद्भुत माहात्म्य प्रगट कर्युं छे एवुं सर्वगत ज छे.
भावार्थः — अक्रमे प्रवर्ततुं ज्ञान एक ज्ञेयथी बीजा ज्ञेय प्रत्ये पलटातुं नहि होवाथी नित्य छे, पोतानी समस्त शक्तिओ खुली गई होवाथी क्षायिक छे; आवा अक्रमिक ज्ञानवाळो पुरुष ज सर्वज्ञ होई शके. सर्वज्ञना ए ज्ञाननुं कोई परम अद्भुत माहात्म्य छे. ५१.
*टंकोत्कीर्णन्याये = पथ्थरमां टांकणाथी कोरेली आकृति माफक