जं पेच्छदो अमुत्तं मुत्तेसु अदिंदियं च पच्छण्णं । सयलं सगं च इदरं तं णाणं हवदि पच्चक्खं ।।५४।।
अतीन्द्रियं हि ज्ञानं यदमूर्तं यन्मूर्तेष्वप्यतीन्द्रियं यत्प्रच्छन्नं च तत्सकलं विव्रियते — अमूर्ताभिः क्षायिकीभिरतीन्द्रियाभिश्चिदानन्दैकलक्षणाभिः शुद्धात्मशक्तिभिरुत्पन्नत्वा- दतीन्द्रियज्ञानं सुखं चात्माधीनत्वेनाविनश्वरत्वादुपादेयमिति; पूर्वोक्तामूर्तशुद्धात्मशक्तिभ्यो विलक्षणाभिः क्षायोपशमिकेन्द्रियशक्तिभिरुत्पन्नत्वादिन्द्रियजं ज्ञानं सुखं च परायत्तत्वेन विनश्वरत्वाद्धेयमिति तात्पर्यम् ।।५३।। एवमधिकारगाथया प्रथमस्थलं गतम् । अथ पूर्वोक्तमुपादेयभूतमतीन्द्रियज्ञानं विशेषेण व्यक्तीकरोति — जं यदतीन्द्रियं ज्ञानं कर्तृ । पेच्छदो प्रेक्षमाणपुरुषस्य जानाति । किम् । अमुत्तं अमूर्त- मतीन्द्रियनिरुपरागसदानन्दैकसुखस्वभावं यत्परमात्मद्रव्यं तत्प्रभृति समस्तामूर्तद्रव्यसमूहं मुत्तेसु अदिंदियं च मूर्तेषु पुद्गलद्रव्येषु यदतीन्द्रियं परमाण्वादि । पच्छण्णं कालाणुप्रभृतिद्रव्यरूपेण प्रच्छन्नं व्यवहित- मन्तरितं, अलोकाकाशप्रदेशप्रभृति क्षेत्रप्रच्छन्नं, निर्विकारपरमानन्दैकसुखास्वादपरिणतिरूपपरमात्मनो वर्तमानसमयगतपरिणामास्तत्प्रभृतयो ये समस्तद्रव्याणां वर्तमानसमयगतपरिणामास्ते कालप्रच्छन्नाः, तस्यैव परमात्मनः सिद्धरूपशुद्धव्यञ्जनपर्यायः शेषद्रव्याणां च ये यथासंभवं व्यञ्जनपर्यायास्तेष्वन्त-
हवे अतींद्रिय सुखना साधनभूत ( – कारणरूप) अतींद्रिय ज्ञान उपादेय छे — एम तेने प्रशंसे छेः —
अन्वयार्थः — [ प्रेक्षमाणस्य यत् ] देखनारनुं जे ज्ञान [ अमूर्तं ] अमूर्तने, [ मूर्तेषु ] मूर्त पदार्थोमां पण [ अतीन्द्रियं ] अतींद्रियने, [ च प्रच्छन्नं ] अने प्रच्छन्नने [ सकलं ] ए बधांयने — [ स्वकं च इतरत् ] स्व तेम ज परने — देखे छे, [ तद् ज्ञानं ] ते ज्ञान [ प्रत्यक्षं भवति ] प्रत्यक्ष छे.
टीकाः — जे अमूर्त छे, जे मूर्त पदार्थोमां पण अतींद्रिय छे, अने जे १प्रच्छन्न