निमित्ततामुपगतात् स्वविषयमुपगतस्यार्थस्य परिच्छेदनं तत् परतः प्रादुर्भवत्परोक्षमित्या- लक्ष्यते । यत्पुनरन्तःकरणमिन्द्रियं परोपदेशमुपलब्धिं संस्कारमालोकादिकं वा समस्तमपि परद्रव्यमनपेक्ष्यात्मस्वभावमेवैकं कारणत्वेनोपादाय सर्वद्रव्यपर्यायजातमेकपद एवाभिव्याप्य प्रवर्तमानं परिच्छेदनं तत् केवलादेवात्मनः संभूतत्वात् प्रत्यक्षमित्यालक्ष्यते । इह हि सहजसौख्यसाधनीभूतमिदमेव महाप्रत्यक्षमभिप्रेतमिति ।।५८।।
जादं सयं समंतं णाणमणंतत्थवित्थडं विमलं ।
रहियं तु ओग्गहादिहिं सुहं ति एगंतियं भणिदं ।।५९।।
केवलेण णादं हवदि हि यदि केवलेनासहायेन ज्ञातं भवति हि स्फु टम् । केन कर्तृभूतेन । जीवेण जीवेन ।
तर्हि पच्चक्खं प्रत्यक्षं भवतीति । अतो विस्तरः — इन्द्रियमनःपरोपदेशालोकादिबहिरङ्गनिमित्तभूतात्तथैव च
ज्ञानावरणीयक्षयोपशमजनितार्थग्रहणशक्तिरूपाया उपलब्धेरर्थावधारणरूपसंस्काराच्चान्तरङ्गकारणभूतात्- सकाशादुत्पद्यते यद्विज्ञानं तत्पराधीनत्वात्परोक्षमित्युच्यते । यदि पुनः पूर्वोक्तसमस्तपरद्रव्यमनपेक्ष्य केवलाच्छुद्धबुद्धैकस्वभावात्परमात्मनः सकाशात्समुत्पद्यते ततोऽक्षनामानमात्मानं प्रतीत्योत्पद्यमानत्वा- त्प्रत्यक्षं भवतीति सूत्राभिप्रायः ।।५८।। एवं हेयभूतेन्द्रियज्ञानकथनमुख्यतया गाथाचतुष्टयेन तृतीयस्थलं गतम् । अथाभेदनयेन पञ्चविशेषणविशिष्टं केवलज्ञानमेव सुखमिति प्रतिपादयति — जादं जातं
थतुं जे स्वविषयभूत पदार्थनुं ज्ञान, ते पर द्वारा १प्रादुर्भाव पामतुं होवाथी ‘परोक्ष’ तरीके ओळखाय छे; अने अंतःकरण, इंद्रिय, परोपदेश, उपलब्धि, संस्कार के प्रकाशादिक — ए बधांय परद्रव्यनी अपेक्षा राख्या विना एक आत्मस्वभावने ज कारणपणे ग्रहीने सर्व द्रव्य -पर्यायोना समूहमां एकीवखते ज व्यापीने प्रवर्ततुं जे ज्ञान, ते केवळ आत्मा द्वारा ज उत्पन्न थतुं होवाथी ‘प्रत्यक्ष’ तरीके ओळखाय छे.
अहीं (आ गाथामां) सहज सुखना साधनभूत एवुं आ ज महाप्रत्यक्ष ज्ञान इच्छवामां आव्युं छे — उपादेय मानवामां आव्युं छे (एम आशय समजवो). ५८.
हवे आ ज प्रत्यक्ष ज्ञानने पारमार्थिक सुखपणे दर्शावे छेः —
१. प्रादुर्भाव पामतुं = प्रगट थतुं; उत्पन्न थतुं.