स्वभावप्रतिघाताभावहेतुकं हि सौख्यम् । आत्मनो हि दृशिज्ञप्ती स्वभावः, तयोर्लोका- लोकविस्तृतत्वेनार्थान्तगतत्वेन च स्वच्छन्दविजृम्भितत्वाद्भवति प्रतिघाताभावः । ततस्तद्धेतुकं सौख्यमभेदविवक्षायां केवलस्य स्वरूपम् । किंच केवलं सौख्यमेव; सर्वानिष्टप्रहाणात्, दिट्ठी लोकालोकयोर्विस्तृता दृष्टिः केवलदर्शनम् । णट्ठमणिट्ठं सव्वं अनिष्टं दुःखमज्ञानं च तत्सर्वं नष्टं । इट्ठं पुण जं हि तं लद्धं इष्टं पुनर्यद् ज्ञानं सुखं च हि स्फु टं तत्सर्वं लब्धमिति । तद्यथा – स्वभावप्रतिघाताभाव- हेतुकं सुखं भवति । स्वभावो हि केवलज्ञानदर्शनद्वयं, तयोः प्रतिघात आवरणद्वयं, तस्याभावः केवलिनां, ततः कारणात्स्वभावप्रतिघाताभावहेतुकमक्षयानन्तसुखं भवति । यतश्च परमानन्दैकलक्षण-
हवे फरीने पण ‘केवळ (अर्थात् केवळज्ञान) सुखस्वरूप छे’ एम निरूपण करतां उपसंहार करे छेः —
अन्वयार्थः — [ज्ञानं] ज्ञान [अर्थान्तगतं] पदार्थोना पारने पामेलुं छे [दृष्टिः] अने दर्शन [लोकालोकेषु विस्तृता] लोकालोकमां विस्तृत छे; [सर्वं अनिष्टं] सर्व अनिष्ट [नष्टं] नाश पाम्युं छे [पुनः] अने [यत् तु] जे [इष्टं] इष्ट छे [तत्] ते सर्व [लब्धं] प्राप्त थयुं छे. (तेथी केवळ अर्थात् केवळज्ञान सुखस्वरूप छे.)
टीकाः — सुखनुं कारण स्वभावप्रतिघातनो अभाव छे. आत्मानो स्वभाव दर्शन- ज्ञान छे; (केवळदशामां) तेमना ( – दर्शनज्ञानना) प्रतिघातनो अभाव छे, कारण के दर्शन लोकालोकमां विस्तृत होवाथी अने ज्ञान पदार्थोना पारने पामेलुं होवाथी तेओ (दर्शन -ज्ञान) स्वच्छंदपणे ( – स्वतंत्रताथी, अंकुश वगर, कोईथी दबाया विना) खीलेलां छे. (आम दर्शनज्ञानरूप स्वभावना प्रतिघातनो अभाव छे) तेथी स्वभावना प्रतिघातनो अभाव जेनुं कारण छे एवुं सुख अभेदविवक्षामां केवळनुं स्वरूप छे.