इह खलु स्वभावप्रतिघातादाकुलत्वाच्च मोहनीयादिकर्मजालशालिनां सुखाभासे- ऽप्यपारमार्थिकी सुखमिति रूढिः । केवलिनां तु भगवतां प्रक्षीणघातिकर्मणां स्वभाव- प्रतिघाताभावादनाकुलत्वाच्च यथोदितस्य हेतोर्लक्षणस्य च सद्भावात्पारमार्थिकं सुखमिति श्रद्धेयम् । न किलैवं येषां श्रद्धानमस्ति ते खलु मोक्षसुखसुधापानदूरवर्तिनो मृगतृष्णाम्भो- भारमेवाभव्याः पश्यन्ति । ये पुनरिदमिदानीमेव वचः प्रतीच्छन्ति ते शिवश्रियो भाजनं समासन्नभव्याः भवन्ति । ये तु पुरा प्रतीच्छन्ति ते तु दूरभव्या इति ।।६२।। सम्यक्त्वरूपभव्यत्वव्यक्त्यभावादभव्या भण्यन्ते, न पुनः सर्वथा । भव्वा वा तं पडिच्छंति ये वर्तमानकाले सम्यक्त्वरूपभव्यत्वव्यक्तिपरिणतास्तिष्ठन्ति ते तदनन्तसुखमिदानीं मन्यन्ते । ये च सम्यक्त्वरूप- भव्यत्वव्यक्त्या भाविकाले परिणमिष्यन्ति ते च दूरभव्या अग्रे श्रद्धानं कुर्युरिति । अयमत्रार्थः — मारणार्थं तलवरगृहीततस्करस्य मरणमिव यद्यपीन्द्रियसुखमिष्टं न भवति, तथापि तलवरस्थानीय- चारित्रमोहोदयेन मोहितः सन्निरुपरागस्वात्मोत्थसुखमलभमानः सन् सरागसम्यग्दृष्टिरात्मनिन्दादिपरिणतो हेयरूपेण तदनुभवति । ये पुनर्वीतरागसम्यग्दृष्टयः शुद्धोपयोगिनस्तेषां, मत्स्यानां स्थलगमनमिवा- ग्निप्रवेश इव वा, निर्विकारशुद्धात्मसुखाच्च्यवनमपि दुःखं प्रतिभाति । तथा चोक्तम् —
टीकाः — आ लोकमां मोहनीयादिकर्मजाळवाळाओने स्वभावप्रतिघातने लीधे अने आकुळपणाने लीधे सुखाभास होवा छतां ते सुखाभासने ‘सुख’ कहेवानी अपारमार्थिक रूढि छे, अने जेमनां घातिकर्मो क्षय पाम्यां छे एवा केवळीभगवंतोने, स्वभावप्रतिघातना अभावने लीधे अने अनाकुळपणाने लीधे सुखना यथोक्त १कारणनो अने २लक्षणनो सद्भाव होवाथी, पारमार्थिक सुख छे — एम श्रद्धवायोग्य छे. जेमने आवुं श्रद्धान नथी, तेओ — मोक्षसुखरूपी सुधापानथी दूरवर्ती अभव्यो — मृगतृष्णाना जळसमूहने ज देखे ( – अनुभवे) छे; अने जेओ ते वचननो हमणां ज स्वीकार ( – श्रद्धा) करे छे तेओ — शिवश्रीनां ( – मोक्षलक्ष्मीनां) भाजन — आसन्नभव्यो छे, तथा जेओ आगळ उपर स्वीकार करशे तेओ दूरभव्यो छे.
भावार्थः — ‘केवळीभगवंतोने ज पारमार्थिक सुख छे’ एवुं वचन सांभळीने जेओ कदी तेनो स्वीकार – आदर – श्रद्धा करता नथी तेओ कदी मोक्ष पामता नथी; जेओ ते वचन सांभळीने अंतरथी तेनो स्वीकार – आदर – श्रद्धा करे छे तेओ ज मोक्ष पामे छे, — हमणां करे छे ते आसन्नभव्य छे अने आगळ उपर करशे ते दूरभव्य छे. ६२.
१. सुखनुं कारण स्वभावप्रतिघातनो अभाव छे.
२. सुखनुं लक्षण अनाकुळपणुं छे.