अमीषां प्राणिनां हि प्रत्यक्षज्ञानाभावात्परोक्षज्ञानमुपसर्पतां तत्सामग्रीभूतेषु स्वरसत एवेन्द्रियेषु मैत्री प्रवर्तते । अथ तेषां तेषु मैत्रीमुपगतानामुदीर्णमहामोहकालानलकवलितानां ‘‘समसुखशीलितमनसां च्यवनमपि द्वेषमेति किमु कामाः । स्थलमपि दहति झषाणां किमङ्ग पुनरङ्गमङ्गाराः’’ ।।६२।। एवमभेदनयेन केवलज्ञानमेव सुखं भण्यते इति कथनमुख्यतया गाथाचतुष्टयेन चतुर्थस्थलं गतम् । अथ संसारिणामिन्द्रियज्ञानसाधकमिन्द्रियसुखं विचारयति — मणुआसुरामरिंदा मनुजा- सुरामरेन्द्राः । कथंभूताः । अहिद्दुदा इंदिएहिं सहजेहिं अभिद्रुताः कदर्थिताः दुखिताः । कैः । इन्द्रियैः सहजैः । असहंता तं दुक्खं तद्दुःखोद्रेकमसहमानाः सन्तः । रमंति विसएसु रम्मेसु रमन्ते विषयेषु रम्याभासेषु इति । अथ विस्तरः — मनुजादयो जीवा अमूर्तातीन्द्रियज्ञानसुखास्वादमलभमानाः सन्तः मूर्तेन्द्रिय- ज्ञानसुखनिमित्तं तन्निमित्तपञ्चेन्द्रियेषु मैत्री कुर्वन्ति । ततश्च तप्तलोहगोलकानामुदकाकर्षणमिव विषयेषु तीव्रतृष्णा जायते । तां तृष्णामसहमाना विषयाननुभवन्ति इति । ततो ज्ञायते पञ्चेन्द्रियाणि
हवे परोक्षज्ञानवाळाओना अपारमार्थिक इन्द्रियसुखनो विचार करे छेः —
अन्वयार्थः — [ मनुजासुरामरेन्द्राः ] मनुष्येंद्रो, असुरेंद्रो अने सुरेंद्रो [इन्द्रियैः सहजैः] स्वाभाविक (अर्थात् परोक्षज्ञानवाळाओने जे स्वाभाविक छे एवी) इंद्रियो वडे [अभिद्रुताः] पीडित वर्तता थका [ तद् दुःखं ] ते दुःख [असहमानाः] नहि सही शकवाथी [ रम्येषु विषयेषु ] रम्य विषयोमां [ रमन्ते ] रमे छे.
टीकाः — प्रत्यक्ष ज्ञानना अभावने लीधे परोक्ष ज्ञाननो आश्रय करता आ प्राणीओने तेनी ( – परोक्ष ज्ञाननी) सामग्रीरूप इंद्रियो प्रत्ये निज रसथी ज ( – स्वभावथी ज) मैत्री प्रवर्ते छे. हवे, इंद्रियो प्रत्ये मैत्री पामेला ते प्राणीओने, उदयमां आवेल महामोहरूपी कालाग्नि (तेमने) कोळियो करी गयो होवाथी, तप्त थयेला
११०प्रवचनसार[ भगवानश्रीकुंदकुंद-