सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि ।
यथा खलु नभसि कारणान्तरमनपेक्ष्यैव स्वयमेव प्रभाकरः प्रभूतप्रभाभारभास्वर- स्वरूपविकस्वरप्रकाशशालितया तेजः, यथा च कादाचित्कौष्ण्यपरिणतायःपिण्डवन्नित्य- मेवौष्ण्यपरिणामापन्नत्वादुष्णः, यथा च देवगतिनामकर्मोदयानुवृत्तिवशवर्तिस्वभावतया देवः; निर्विषयामूर्तसर्वप्रदेशाह्लादकसहजानन्दैकलक्षणसुखस्वभावो निश्चयेनात्मैव, तत्र मुक्तौ संसारे वा विषयाः किं कुर्वन्ति, न किमपीति भावः ।।६७।। अथात्मनः सुखस्वभावत्वं ज्ञानस्वभावत्वं च पुनरपि दृष्टान्तेन दृढयति — सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि कारणान्तरं निरपेक्ष्य स्वयमेव यथादित्यः स्वपरप्रकाशरूपं तेजो भवति, तथैव च स्वयमेवोष्णो भवति, तथा चाज्ञानिजनानां देवता भवति । क्व स्थितः । नभसि आकाशे । सिद्धो वि तहा णाणं सुहं च सिद्धोऽपि भगवांस्तथैव कारणान्तरं निरपेक्ष्य स्वभावेनैव स्वपरप्रकाशकं केवलज्ञानं, तथैव परमतृप्तिरूपमनाकुलत्वलक्षणं सुखम् । क्व । लोगे
अन्वयार्थः — [यथा] जेम [नभसि] आकाशमां [आदित्यः] सूर्य [स्वयमेव] स्वयमेव [तेजः] तेज, [उष्णः] उष्ण [च] अने [देवता] देव छे, [तथा] तेम [लोके] लोकमां [सिद्धः अपि] सिद्धभगवान पण (स्वयमेव) [ज्ञानं] ज्ञान, [सुखं च] सुख [तथा देवः] अने देव छे.
टीकाः — जेवी रीते आकाशमां, कारणांतरनी ( – अन्य कारणनी) अपेक्षा राख्या विना ज स्वयमेव सूर्य (१) पुष्कळ प्रभासमूहथी १भास्वर एवा स्वरूप वडे विकसित प्रकाशवाळो होवाथी तेज छे, (२) २कोईक वार उष्णतारूपे परिणमता लोखंडना गोळानी माफक सदाय उष्णता -परिणामने पामेलो होवाथी उष्ण छे, अने (३) देवगति -नामकर्मना
१. भास्वर = तेजस्वी; झळकतुं.
२. जेम लोखंडनो गोळो कोईक वार उष्णतापरिणामे परिणमे छे तेम सूर्य सदाय उष्णतापरिणामे
परिणमेलो छे.