यो हि नाम शुभानामशुभानां च भावानामविशेषदर्शनेन सम्यक्परिच्छिन्न- वस्तुस्वरूपः स्वपरविभागावस्थितेषु समग्रेषु ससमग्रपर्यायेषु द्रव्येषु रागं द्वेषं चाशेषमेव परिवर्जयति स किलैकान्तेनोपयोगविशुद्धतया परित्यक्तपरद्रव्यालम्बनोऽग्निरिवायःपिण्डा- दननुष्ठितायःसारः प्रचण्डघनघातस्थानीयं शारीरं दुःखं क्षपयति । ततो ममायमेवैकः शरणं शुद्धोपयोगः ।।७८।। दुःखक्षयाय शुद्धोपयोगानुष्ठानं स्वीकरोति — एवं विदिदत्थो जो एवं चिदानन्दैकस्वभावं परमात्मतत्त्व- मेवोपादेयमन्यदशेषं हेयमिति हेयोपादेयपरिज्ञानेन विदितार्थतत्त्वो भूत्वा यः दव्वेसु ण रागमेदि दोसं वा निजशुद्धात्मद्रव्यादन्येषु शुभाशुभसर्वद्रव्येषु रागं द्वेषं वा न गच्छति उवओगविसुद्धो सो रागादिरहित- शुद्धात्मानुभूतिलक्षणेन शुद्धोपयोगेन विशुद्धः सन् सः खवेदि देहुब्भवं दुक्खं तप्तलोहपिण्डस्थानीय- देहादुद्भवं अनाकु लत्वलक्षणपारमार्थिक सुखाद्विलक्षणं परमाकु लत्वोत्पादकं लोहपिण्डरहितोऽग्निरिव घनघातपरंपरास्थानीयदेहरहितो भूत्वा शारीरं दुःखं क्षपयतीत्यभिप्रायः ।।७८।। एवमुपसंहाररूपेण तृतीयस्थले गाथाद्वयं गतम् । इति शुभाशुभमूढत्वनिरासार्थं गाथादशकपर्यन्तं स्थलत्रयसमुदायेन
अन्वयार्थः — [एवं] ए रीते [विदितार्थः] वस्तुस्वरूप जाणीने [यः] जे [द्रव्येषु] द्रव्यो प्रत्ये [रागं द्वेषं वा] राग के द्वेषने [न एति] पामतो नथी, [सः] ते [उपयोगविशुद्धः] उपयोगविशुद्ध वर्ततो थको [देहोद्भवं दुःखं] देहोत्पन्न दुःखनो [क्षपयति] क्षय करे छे.
टीकाः — जे जीव शुभ अने अशुभ भावोना अविशेषदर्शनथी ( – समानपणानी श्रद्धाथी) वस्तुस्वरूपने सम्यक् प्रकारे जाणीने, स्व अने पर एवा बे विभागमां रहेलां जे समस्त पर्यायो सहित समग्र द्रव्यो तेमना प्रत्ये राग अने द्वेषने निरवशेषपणे छोडे छे, ते जीव, एकांते उपयोगविशुद्ध ( – सर्वथा शुद्धोपयोगी) होवाने लीधे जेणे परद्रव्यनुं आलंबन छोड्युं छे एवो वर्ततो थको — लोखंडना गोळामांथी लोखंडना *सारने नहि अनुसरता अग्निनी माफक — प्रचंड घणना घा समान शारीरिक दुःखनो क्षय करे छे. (जेम अग्नि लोखंडना उष्ण गोळामांथी लोखंडना सत्त्वने धारण करतो नथी तेथी अग्निने प्रचंड घणना घा पडता नथी, तेम परद्रव्यने नहि अवलंबता आत्माने शारीरिक दुःखनुं वेदन होतुं नथी.) माटे आ ज एक शुद्धोपयोग मारुं शरण छे. ७८.
*सार = सत्त्व; घनता; कठिनता.