जीवो ववगदमोहो उवलद्धो तच्चमप्पणो सम्मं ।
एवमुपवर्णितस्वरूपेणोपायेन मोहमपसार्यापि सम्यगात्मतत्त्वमुपलभ्यापि यदि नाम रागद्वेषौ निर्मूलयति तदा शुद्धमात्मानमनुभवति । यदि पुनः पुनरपि तावनुवर्तते तदा प्रमादतन्त्रतया लुण्ठितशुद्धात्मतत्त्वोपलम्भचिन्तारत्नोऽन्तस्ताम्यति । अतो मया रागद्वेष- निषेधायात्यन्तं जागरितव्यम् ।।८१।। किंविशिष्टः । ववगदमोहो शुद्धात्मतत्त्वरुचिप्रतिबन्धकविनाशितदर्शनमोहः । पुनरपि किंविशिष्टः । उवलद्धो उपलब्धवान् ज्ञातवान् । किम् । तच्चं परमानन्दैकस्वभावात्मतत्त्वम् । कस्य संबन्धि । अप्पणो निजशुद्धात्मनः । कथम् । सम्मं सम्यक् संशयादिरहितत्वेन जहदि जदि रागदोसे शुद्धात्मानुभूति- लक्षणवीतरागचारित्रप्रतिबन्धकौ चारित्रमोहसंज्ञौ रागद्वेषौ यदि त्यजति सो अप्पाणं लहदि सुद्धं स
हवे, ए रीते में चिंतामणि प्राप्त कर्यो होवा छतां प्रमाद चोर छे एम विचारी जागृत रहे छेः —
अन्वयार्थः — [व्यपगतमोहः] जेणे मोहने दूर कर्यो छे अने [सम्यक् आत्मनः तत्त्वं] आत्माना सम्यक् तत्त्वने ( – साचा स्वरूपने) [उपलब्धवान्] प्राप्त कर्युं छे एवो [जीवः] जीव [यदि] जो [रागद्वेषौ] रागद्वेषने [जहाति] छोडे छे, [सः] तो ते [शुद्धम् आत्मानं] शुद्ध आत्माने [लभते] पामे छे.
टीकाः — ए रीते जे उपायनुं स्वरूप वर्णववामां आव्युं ते उपाय वडे मोहने दूर करीने पण, सम्यक् आत्मतत्त्वने पामीने पण, जो जीव रागद्वेषने निर्मूळ करे छे, तो शुद्ध आत्माने अनुभवे छे. (परंतु) जो फरी फरीने तेमने अनुसरे छे — रागद्वेषरूपे परिणमे छे, तो प्रमाद -आधीनपणाने लीधे शुद्धात्मतत्त्वना अनुभवरूप चिंतामणि चोराई जवाथी अंतरमां खेद पामे छे. आथी मारे रागद्वेषने टाळवा माटे अत्यंत जागृत रहेवुं योग्य छे.