मूढो भावः स खलु मोहः । तेनावच्छन्नात्मरूपः सन्नयमात्मा परद्रव्यमात्मद्रव्यत्वेन परगुण-
मात्मगुणतया परपर्यायानात्मपर्यायभावेन प्रतिपद्यमानः, प्ररूढदृढतरसंस्कारतया परद्रव्य- मेवाहरहरुपाददानो, दग्धेन्द्रियाणां रुचिवशेनाद्वैतेऽपि प्रवर्तितद्वैतो, रुचितारुचितेषु विषयेषु रागद्वेषावुपश्लिष्य, प्रचुरतराम्भोभाररयाहतः सेतुबन्ध इव द्वेधा विदार्यमाणो नितरां क्षोभमुपैति । अतो मोहरागद्वेषभेदात्त्रिभूमिको मोहः ।।८३।। दानस्य च हि स्फु टं ते ते पूर्वोक्तरत्नत्रयाधाराः । णमो तेसिं नमस्तेभ्य इति नमस्कारस्यापि
त एव योग्याः ।।✽७।। एवमाप्तात्मस्वरूपविषये मूढत्वनिरासार्थं गाथासप्तकेन द्वितीयज्ञान-
कण्डिका गता । अथ शुद्धात्मोपलम्भप्रतिपक्षभूतमोहस्य स्वरूपं भेदांश्च प्रतिपादयति — दव्वादिएसु
शुद्धात्मादिद्रव्येषु, तेषां द्रव्याणामनन्तज्ञानाद्यस्तित्वादिविशेषसामान्यलक्षणगुणेषु, शुद्धात्मपरिणति- लक्षणसिद्धत्वादिपर्यायेषु च यथासंभवं पूर्वोपवर्णितेषु वक्ष्यमाणेषु च मूढो भावो एतेषु पूर्वोक्तद्रव्यगुणपर्यायेषु विपरीताभिनिवेशरूपेण तत्त्वसंशयजनको मूढो भावः जीवस्स हवदि मोहो त्ति इत्थंभूतो भावो जीवस्य दर्शनमोह इति भवति । खुब्भदि तेणुच्छण्णो तेन दर्शनमोहेनावच्छन्नो झम्पितः सन्नक्षुभितात्मतत्त्वविपरीतेन क्षोभेण क्षोभं स्वरूपचलनं विपर्ययं गच्छति । किं कृत्वा । पप्पा रागं व दोसं
वा निर्विकारशुद्धात्मनो विपरीतमिष्टानिष्टेन्द्रियविषयेषु हर्षविषादरूपं चारित्रमोहसंज्ञं रागद्वेषं वा प्राप्य
चेति । अनेन किमुक्तं भवति । मोहो दर्शनमोहो रागद्वेषद्वयं चारित्रमोहश्चेति त्रिभूमिको
मोह इति ।।८३।। अथ दुःखहेतुभूतबन्धस्य कारणभूता रागद्वेषमोहा निर्मूलनीया इत्याघोषयति —
निज रूप आच्छादित होवाथी आ आत्मा परद्रव्यने स्वद्रव्यपणे, परगुणने स्वगुणपणे अने परपर्यायोने स्वपर्यायपणे समजीने – अंगीकार करीने, अति रूढ थयेला १द्रढतर संस्कारने लीधे परद्रव्यने ज प्रतिदिन ( – हंमेशां) ग्रहण करतो, २दग्ध ( – बळी) इन्द्रियोनी रुचि वशे ३अद्वैतमां पण द्वैत प्रवर्तावतो, ४रुचित -अरुचित विषयोमां रागद्वेषने पामीने, अतिप्रचुर जळसमूहना वेगथी प्रहार पामता ५सेतुबंधनी माफक ६द्विधा विदारित थतो अत्यंत क्षोभ पामे छे. आथी मोह, राग ने द्वेष — ए भेदोने लीधे मोह त्रण प्रकारनो छे. ८३.
१. द्रढतर = बहु द्रढ
२. दग्ध = बळी; हलकी; शापित. (‘दग्ध’ ए तिरस्कारवाचक शब्द छे.)
३. इन्द्रियविषयोमां – पदार्थोमां ‘आ सारा ने आ नरसा’ एवुं द्वैत नथी; छतां त्यां पण मोहाच्छादित
जीव सारा -नरसारूप द्वैत ऊभुं करे छे.
४. रुचित -अरुचित = गमता -अणगमता
५. सेतुबंध = पुल
६. द्विधा विदारित = बे भागमां खंडित