तदेव द्रव्यमप्युत्तरावस्थयोत्पद्यमानं प्राक्तनावस्थया व्ययमानं तेन व्ययेन लक्ष्यते, न च तेन सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते । यथैव च तदेवोत्तरीयमेककालम- मलावस्थयोत्पद्यमानं मलिनावस्थया व्ययमानमवस्थायिन्योत्तरीयत्वावस्थया ध्रौव्यमालम्बमानं ध्रौव्येण लक्ष्यते, न च तेन सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते; तथैव तदेव द्रव्यमप्येककालमुत्तरावस्थयोत्पद्यमानं प्राक्तनावस्थया व्ययमानमवस्थायिन्या द्रव्यत्वावस्थया ध्रौव्यमालम्बमानं ध्रौव्येण लक्ष्यते, न च तेन सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते । यथैव च तदेवोत्तरीयं विस्तारविशेषात्मकैर्गुणैर्लक्ष्यते, न च तैः सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते; तथैव तदेव द्रव्यमपि विस्तार- विशेषात्मकैर्गुणैर्लक्ष्यते, न च तैः सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते । यथैव च तदेवोत्तरीयमायतविशेषात्मकैः पर्यायवर्तिभिस्तन्तुभिर्लक्ष्यते, न च तैः सह स्वरूप- भेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते; तथैव तदेव द्रव्यमप्यायतविशेषात्मकैः पर्यायैर्लक्ष्यते, न च तैः सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते ।।९५।। निर्मलपर्यायेणोत्पन्नं मलिनपर्यायेण विनष्टं तदुभयाधारभूतवस्त्ररूपेण ध्रुवमविनश्वरं, तथैव शुक्ल- वर्णादिगुणनवजीर्णादिपर्यायसहितं च सत् तैरुत्पादव्ययध्रौव्यैस्तथैव च स्वकीयगुणपर्यायैः सह संज्ञादिभेदेऽपि सति सत्तारूपेण भेदं न करोति । तर्हि किं करोति । स्वरूपत एवोत्पादादिरूपेण
पामतुं थकुं ते व्यय वडे लक्षित थाय छे; परंतु तेने ते व्ययनी साथे स्वरूपभेद नथी, स्वरूपथी ज तेवुं छे. वळी जेवी रीते ते ज वस्त्र एकीवखते निर्मळ अवस्थाथी ऊपजतुं, मलिन अवस्थाथी व्यय पामतुं अने टकती एवी वस्त्रत्व -अवस्थाथी ध्रुव रहेतुं थकुं ध्रौव्य वडे लक्षित थाय छे; परंतु तेने ते ध्रौव्यनी साथे स्वरूपभेद नथी, स्वरूपथी ज तेवुं छे; तेवी ज रीते ते ज द्रव्य पण एकीवखते उत्तर अवस्थाथी ऊपजतुं, पूर्व अवस्थाथी व्यय पामतुं अने टकती एवी द्रव्यत्व -अवस्थाथी ध्रुव रहेतुं थकुं ध्रौव्य वडे लक्षित थाय छे; परंतु तेने ते ध्रौव्यनी साथे स्वरूपभेद नथी, स्वरूपथी ज तेवुं छे.
वळी जेवी रीते ते ज वस्त्र विस्तारविशेषोस्वरूप (शुक्लत्वादि) गुणो वडे लक्षित थाय छे; परंतु तेने ते गुणोनी साथे स्वरूपभेद नथी, स्वरूपथी ज तेवुं छे; तेवी ज रीते ते ज द्रव्य पण विस्तारविशेषोस्वरूप गुणो वडे लक्षित थाय छे; परंतु तेने ते गुणोनी साथे स्वरूपभेद नथी, स्वरूपथी ज तेवुं छे. वळी जेवी रीते ते ज वस्त्र आयतविशेषोस्वरूप पर्यायवर्ती ( – पर्याय तरीके वर्तता, पर्यायस्थानीय) तंतुओ वडे लक्षित थाय छे; परंतु तेने ते तंतुओनी साथे स्वरूपभेद नथी, स्वरूपथी ज तेवुं छे; तेवी ज रीते ते ज द्रव्य पण आयतविशेषोस्वरूप पर्यायो वडे लक्षित थाय छे, परंतु तेने ते पर्यायोनी साथे स्वरूपभेद नथी, स्वरूपथी ज तेवुं छे. ९५.