Pravachansar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 175 of 513
PDF/HTML Page 206 of 544

 

कहानजैनशास्त्रमाळा ]
ज्ञेयतत्त्व-प्रज्ञापन
१७५

प्रदेशभेदाभावाद्द्रव्येण सहैकत्वमवलम्बमानं द्रव्यस्य स्वभाव एव कथं न भवेत् तत्तु द्रव्यान्तराणामिव द्रव्यगुणपर्यायाणां न प्रत्येकं परिसमाप्यते यतो हि परस्परसाधित- सिद्धियुक्तत्वात्तेषामस्तित्वमेकमेव, कार्तस्वरवत्

यथा हि द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा कार्तस्वरात् पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण पीततादिगुणानां कुण्डलादिपर्यायाणां च स्वरूपमुपादाय प्रवर्तमान- प्रवृत्तियुक्तस्य कार्तस्वरास्तित्वेन निष्पादितनिष्पत्तियुक्तैः पीततादिगुणैः कुण्डलादिपर्यायैश्च यदस्तित्वं कार्तस्वरस्य स स्वभावः, तथा हि द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा द्रव्यात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण गुणानां पर्यायाणां च स्वरूपमुपादाय शेषजीवानां च भिन्नं भवति न च तथा कैः सह गुणेहिं सगपज्जएहिं केवलज्ञानादिगुणैः किञ्चिदूनचरमशरीराकारादिस्वकपर्यायैश्च सह कथंभूतैः चित्तेहिं सिद्धगतित्वमतीन्द्रियत्वमकायत्वम- योगत्वमवेदत्वमित्यादिबहुभेदभिन्नैः न केवलं गुणपर्यायैः सह भिन्नं न भवति उप्पादव्वयधुवत्तेहिं शुद्धात्मप्राप्तिरूपमोक्षपर्यायस्योत्पादो रागादिविकल्परहितपरमसमाधिरूपमोक्षमार्गपर्यायस्य व्ययस्तथा मोक्षमोक्षमार्गाधारभूतान्वयद्रव्यत्वलक्षणं ध्रौव्यं चेत्युक्तलक्षणोत्पादव्ययध्रौव्यैश्च सह भिन्नं न भवति कथम् सव्वकालं सर्वकालपर्यन्तं यथा भवति कस्मात्तैः सह भिन्नं न भवतीति चेत् यतः कारणाद्गुणपर्यायास्तित्वेनोत्पादव्ययध्रौव्यास्तित्वेन च कर्तृभूतेन शुद्धात्मद्रव्यास्तित्वं साध्यते,


होवा छतां प्रदेशभेद नहि होवाने कारणे द्रव्यनी साथे एकपणुं धरतुं, द्रव्यनो स्वभाव ज केम न होय? (जरूर होय.) ते अस्तित्वजेम भिन्न भिन्न द्रव्योने विषे प्रत्येकमां समाप्त थई जाय छे तेमद्रव्य -गुण -पर्यायने विषे प्रत्येकमां समाप्त थई जतुं नथी, कारण के तेमनी सिद्धि परस्पर थती होवाथी (अर्थात् द्रव्य, गुण अने पर्याय एकबीजाथी परस्पर सिद्ध थतां होवाथीएक न होय तो बीजां बे पण सिद्ध नहि थतां होवाथी) तेमनुं अस्तित्व एक ज छे;सुवर्णनी जेम.

जेम द्रव्ये, क्षेत्र, काळे के भावे सुवर्णथी जेओ पृथक् जोवामां आवता नथी, कर्ता- करण -अधिकरणरूपे पीळाशआदिगुणोना अने कुंडळादिपर्यायोना स्वरूपने धारण करीने प्रवर्तता सुवर्णना अस्तित्व वडे जेमनी निष्पत्ति थाय छे,एवा पीळाशआदिगुणो अने कुंडळादिपर्यायो वडे जे सुवर्णनुं अस्तित्व छे, ते (सुवर्णनो) स्वभाव छे; तेम द्रव्ये, क्षेत्रे, काळे के भावे द्रव्यथी जेओ पृथक् जोवामां आवता नथी, कर्ता -करण -अधिकरणरूपे गुणोना

१. जेओ = जे पीळाशआदि गुणो अने कुंडळादि पर्यायो
२. निष्पत्ति = नीपजवुं ते; थवुं ते; सिद्धि.
३. द्रव्य ज गुण -पर्यायोनुं कर्ता (करनार), तेमनुं करण (साधन) अने तेमनुं अधिकरण (आधार) छे;
तेथी द्रव्य ज गुण -पर्यायनुं स्वरूप धारण करे छे.