Pravachansar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 203 of 513
PDF/HTML Page 234 of 544

 

कहानजैनशास्त्रमाळा ]
ज्ञेयतत्त्व-प्रज्ञापन
२०३
पृथग्भवत् सत्तामन्तरेणात्मानं धारयत्तावन्मात्रप्रयोजनां सत्तामेवास्तं गमयेत् स्वरूपतस्तु-
सद्भवद्ध्र्रौव्यस्य संभवादात्मानं धारयद्द्रव्यमुद्गच्छेत्; सत्तातोऽपृथग्भूत्वा चात्मानं धारयत्ता-
वन्मात्रप्रयोजनां सत्तामुद्गमयेत् ततः स्वयमेव द्रव्यं सत्त्वेनाभ्युपगन्तव्यं, भावभाव-
वतोरपृथक्त्वेनानन्यत्वात् ।।१०५।।
सत्ताद्रव्ययोरभेदविषये पुनरपि प्रकारान्तरेण युक्तिं दर्शयतिण हवदि जदि सद्दव्वं परमचैतन्यप्रकाशरूपेण
स्वरूपेण स्वरूपसत्तास्तित्वगुणेन यदि चेत् सन्न भवति किं कर्तृ परमात्मद्रव्यं तदा असद्धुवं होदि
असदविद्यमानं भवति ध्रुवं निश्चितम् अविद्यमानं सत् तं कधं दव्वं तत्परमात्मद्रव्यं कथं भवति, किंतु
नैव स च प्रत्यक्षविरोधः कस्मात् स्वसंवेदनज्ञानेन गम्यमानत्वात् अथाविचारितरमणीयन्यायेन
सत्तागुणाभावेऽप्यस्तीति चेत्, तत्र विचार्यतेयदि केवलज्ञानदर्शनगुणाविनाभूतस्वकीयस्वरूपास्ति-
त्वात्पृथग्भूता तिष्ठति तदा स्वरूपास्तित्वं नास्ति, स्वरूपास्तित्वाभावे द्रव्यमपि नास्ति अथवा
स्वकीयस्वरूपास्तित्वात्संज्ञालक्षणप्रयोजनादिभेदेऽपि प्रदेशरूपेणाभिन्नं तिष्ठति तदा संमतमेव अत्रावसरे
सौगतमतानुसारी कश्चिदाहसिद्धपर्यायसत्तारूपेण शुद्धात्मद्रव्यमुपचारेणास्ति, न च मुख्यवृत्त्येति
परिहारमाहसिद्धपर्यायोपादानकारणभूतपरमात्मद्रव्याभावे सिद्धपर्यायसत्तैव न संभवति, वृक्षाभावे
फलमिव अत्र प्रस्तावे नैयायिकमतानुसारी कश्चिदाहहवदि पुणो अण्णं वा तत्परमात्मद्रव्यं भवति
पुनः किंतु सत्तायाः सकाशादन्यद्भिन्नं भवति पश्चात्सत्तासमवायात्सद्भवति आचार्याः परिहारमाहुः
सत्तासमवायात्पूर्वं द्रव्यं सदसद्वा, यदि सत्तदा सत्तासमवायो वृथा, पूर्वमेवास्तित्वं तिष्ठति; अथासत्तर्हि
पृथक् होय तो सत्ता सिवाय पण पोते टकतुं (हयात रहेतुं) थकुं, एटलुं ज मात्र जेनुं
प्रयोजन छे एवी सत्ताने ज अस्त करे.

परंतु जो द्रव्य स्वरूपथी ज सत् होय तो(१) ध्रौव्यना सद्भावने लीधे पोते टकतुं थकुं, द्रव्य उदित थाय छे (अर्थात् सिद्ध थाय छे); अने (२) सत्ताथी अपृथक् रहीने पोते टकतुं (हयात रहेतुं) थकुं, एटलुं ज मात्र जेनुं प्रयोजन छे एवी सत्ताने उदित करे छे (अर्थात् सिद्ध करे छे).

माटे द्रव्य पोते ज सत्त्व (सत्ता) छे एम स्वीकारवुं, कारण के भाव अने भाववाननुं अपृथक्पणा वडे अनन्यपणुं छे. १०५. १. सत्तानुं कार्य एटलुं ज छे के ते द्रव्यने हयात राखे. जो द्रव्य सत्ताथी भिन्न रहीने पण हयात

रहेटके, तो पछी सत्तानुं प्रयोजन ज रहेतुं नथी अर्थात् सत्ताना अभावनो प्रसंग आवे छे. २. भाववान = भाववाळुं. [द्रव्य भाववाळुं छे अने सत्ता तेनो भाव छे. तेओ अपृथक् छे (पृथक्

नथी) ते अपेक्षाए अनन्य छे (अन्य नथी). पृथक्त्व अने अन्यत्वनो भेद जे अपेक्षाए छे
ते अपेक्षा लईने तेमना खास (जुदा) अर्थो हवेनी गाथामां कहेशे ते अर्थो अहीं लागु न पाडवा.
अहीं तो अनन्यपणाने अपृथक्पणाना अर्थमां ज समजवुं.]