सतः, पररूपेणासतः, स्वपररूपाभ्यां युगपद्वक्तुमशक्यस्य, स्वपररूपाभ्यां क्रमेण सतोऽसतश्च, स्वरूपस्वपररूपयौगपद्याभ्यां सतो वक्तुमशक्यस्य च, पररूपस्वपररूपयौगपद्याभ्यामसतो वक्तुम- शक्यस्य च, स्वरूपपररूपस्वपररूपयौगपद्यैः सतोऽसतो वक्तुमशक्यस्य चानन्तधर्मणो द्रव्यस्यै- कैकं धर्ममाश्रित्य विवक्षिताविवक्षितविधिप्रतिषेधाभ्यामवतरन्ती सप्तभङ्गिकैवकारविश्रान्तम- कोऽर्थः । कथंचिद्विवक्षितप्रकारेण परद्रव्यादिचतुष्टयेन २ । हवदि भवति । कथंभूतम् । अवत्तव्वमिदि स्यादवक्तव्यमेव । स्यादिति कोऽर्थः । कथंचिद्विवक्षितप्रकारेण युगपत्स्वपरद्रव्यादिचतुष्टयेन ३ । स्यादस्ति, स्यान्नास्ति, स्यादवक्तव्यं, स्यादस्तिनास्ति, स्यादस्त्येवावक्तव्यं, स्यान्नास्त्येवावक्तव्यं, स्यादस्तिनास्त्येवावक्तव्यम् । पुणो पुनः इत्थंभूतम् किं भवति । दव्वं परमात्मद्रव्यं कर्तृ । पुनरपि कथंभूतं भवति । तदुभयं स्यादस्तिनास्त्येव । स्यादिति कोऽर्थः । कथंचिद्विवक्षितप्रकारेण क्रमेण स्वपर- द्रव्यादिचतुष्टयेन ४ । कथंभूतं सदित्थमित्थं भवति । आदिट्ठं आदिष्टं विवक्षितं सत् । केन कृत्वा । पज्जाएण दु पर्यायेण तु प्रश्नोत्तररूपनयविभागेन तु । कथंभूतेन । केण वि केनापि विवक्षितेन नैगमादिनयरूपेण । अण्णं वा अन्यद्वा संयोगभङ्गत्रयरूपेण । तत्कथ्यते — स्यादस्त्येवावक्तव्यं । स्यादिति कोऽर्थः । कथंचित् विवक्षितप्रकारेण स्वद्रव्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ५ । स्यान्नास्त्येवावक्त व्यं । स्यादिति कोऽर्थः । क थंचित् विवक्षितप्रकारेण परद्रव्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ६ । स्यादस्तिनास्त्येवावक्तव्यं । स्यादिति कोऽर्थः । कथंचित् विवक्षितप्रकारेण क्रमेण स्वपरद्रव्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ७ । पूर्वं पञ्चास्तिकाये स्यादस्तीत्यादिप्रमाणवाक्येन प्रमाणसप्तभङ्गी व्याख्याता, अत्र तु स्यादस्त्येव, यदेवकारग्रहणं तन्नयसप्तभङ्गीज्ञापनार्थमिति भावार्थः । यथेदं नयसप्तभङ्गीव्याख्यानं शुद्धात्मद्रव्ये दर्शितं तथा यथासंभवं
द्रव्यनुं कथन करवामां आवतां, (१) जे स्वरूपे ‘सत्’ छे, (२) जे पररूपे ‘असत्’ छे, (३) जे स्वरूपे अने पररूपे युगपद् ‘कथावुं अशक्य’ छे, (४) जे स्वरूपे अने पररूपे क्रमथी ‘सत् अने असत्’ छे, (५) जे स्वरूपे अने स्वरूप -पररूपना युगपद्पणे ‘सत् अने कथावुं अशक्य’ छे, (६) जे पररूपे अने स्वरूप -पररूपना युगपद्पणे ‘असत् अने कथावुं अशक्य’ छे तथा (७) जे स्वरूपे, पररूपे अने स्वरूप- पररूपना युगपद्पणे ‘सत्, असत् अने कथावुं अशक्य’ छे — एवुं जे अनंत धर्मोवाळुं द्रव्य तेना एक एक धर्मनो आश्रय करीने *विवक्षित -अविवक्षितना विधिनिषेध वडे प्रगट
*विवक्षित (कहेवा धारेला) धर्मने मुख्य करीने तेनुं प्रतिपादन करवाथी अने अविवक्षित (नहि कहेवा
धारेला) धर्मने गौण करीने तेनो निषेध करवाथी सप्तभंगी प्रगट थाय छे.