मभिलष्येत वा मोहसंवलनाविलयनात् क्रियायाः । क्रिया हि तावच्चेतनस्य पूर्वोत्तरदशा-
विशिष्टचैतन्यपरिणामात्मिका । सा पुनरणोरण्वन्तरसंगतस्य परिणतिरिवात्मनो मोहसंवलितस्य
द्वयणुककार्यस्येव मनुष्यादिकार्यस्य निष्पादकत्वात्सफलैव । सैव मोहसंवलनविलयने पुन-
चतुर्विंशतिगाथाभिरष्टभिः स्थलैः सामान्यज्ञेयव्याख्यानमध्ये सामान्यद्रव्यप्ररूपणं समाप्तम् । अतः
परं तत्रैव सामान्यद्रव्यनिर्णयमध्ये सामान्यभेदभावनामुख्यत्वेनैकादशगाथापर्यन्तं व्याख्यानं करोति ।
तत्र क्रमेण पञ्चस्थलानि भवन्ति । प्रथमतस्तावद्वार्तिकव्याख्यानाभिप्रायेण सांख्यैकान्तनिराकरणं,
अथवा शुद्धनिश्चयनयेन जैनमतमेवेति व्याख्यानमुख्यतया ‘एसो त्ति णत्थि कोई’ इत्यादि सूत्रगाथैका । तदनन्तरं मनुष्यादिपर्याया निश्चयनयेन कर्मफलं भवति, न च शुद्धात्मस्वरूपमिति तस्यैवाधिकारसूत्रस्य विवरणार्थं ‘कम्मं णामसमक्खं’ इत्यादिपाठक्रमेण गाथाचतुष्टयं, ततः परं रागादिपरिणाम एव द्रव्यकर्मकारणत्वाद्भावकर्म भण्यत इति परिणाममुख्यत्वेन ‘आदा कम्ममलिमसो’ इत्यादिसूत्रद्वयं, तदनन्तरं क र्मफलचेतना क र्मचेतना ज्ञानचेतनेति त्रिविधचेतनाप्रतिपादनरूपेण ‘परिणमदि चेदणाए’ इत्यादिसूत्रत्रयं, तदनन्तरं शुद्धात्मभेदभावनाफलं कथयन् सन् ‘कत्ताकरणं’ इत्याद्येकसूत्रेणोपसंहरति । एवं भेदभावनाधिकारे स्थलपञ्चकेन समुदायपातनिका । तद्यथा — अथ नरनारकादिपर्यायाः कर्माधीनत्वेन विनश्वरत्वादिति शुद्धनिश्चयनयेन जीवस्वरूपं न भवतीति भेदभावनां कथयति — एसो त्ति णत्थि कोई टङ्कोत्कीर्णज्ञायकैकस्वभावपरमात्मद्रव्यवत्संसारे मनुष्यादिपर्यायेषु मध्ये सर्वदैवैष एकरूप एव नित्यः कोऽपि नास्ति । तर्हि मनुष्यादिपर्यायनिर्वर्तिका संसारक्रिया सापि न
भविष्यति । ण णत्थि किरिया न नास्ति क्रिया मिथ्यात्वरागादिपरिणतिस्संसारः कर्मेति यावत् इति
पर्यायनामचतुष्टयरूपा क्रियास्त्येव । सा च कथंभूता । सभावणिव्वत्ता शुद्धात्मस्वभावाद्विपरीतापि
नरनारकादिविभावपर्यायस्वभावेन निर्वृत्ता । तर्हि किं निष्फला भविष्यति । किरिया हि णत्थि अफला
क्रिया हि नास्त्यफला सा मिथ्यात्वरागादिपरिणतिरूपा क्रिया यद्यप्यनन्तसुखादिगुणात्मकमोक्षकार्यं प्रति निष्फला तथापि नानादुःखदायकस्वकीयकार्यभूतमनुष्यादिपर्यायनिर्वर्तकत्वात्सफलेति मनुष्यादि- पर्यायनिष्पत्तिरेवास्याः फलम् । कथं ज्ञायत इति चेत् । धम्मो जदि णिप्फलो परमो धर्मो यदि निष्फलः
नहि थयो होवाथी, मानवुं जोईए; कारण के — प्रथम तो, क्रिया चेतनना पूर्वोत्तर- दशाथी १विशिष्ट चैतन्यपरिणामस्वरूप छे; अने ते (क्रिया) — जेम बीजा अणु साथे जोडायेला (कोई) अणुनी परिणति २द्विअणुककार्यनी निष्पादक छे तेम — मोह साथे मिलित
२३०प्रवचनसार[ भगवानश्रीकुंदकुंद-
१. विशिष्ट = भेदवाळा. (पहेलांनी अने पछीनी अवस्थाना भेदे भेदवाळा एवा चैतन्यपरिणामो ते आत्मानी क्रिया छे.)
२. द्विअणुककार्यनी निष्पादक = बे अणुना बनेला स्कंधरूप कार्यनी निपजावनारी