यतः खलु जीवो द्रव्यत्वेनावस्थितोऽपि पर्यायैरनवस्थितः, ततः प्रतीयते न कश्चिदपि संसारे स्वभावेनावस्थित इति । यच्चात्रानवस्थितत्वं तत्र संसार एव हेतुः, तस्य मनुष्यादि- पर्यायात्मकत्वात् स्वरूपेणैव तथाविधत्वात् । अथ यस्तु परिणममानस्य द्रव्यस्य पूर्वोत्तर- दशापरित्यागोपादानात्मकः क्रियाख्यः परिणामस्तत्संसारस्य स्वरूपम् ।।१२०।।
अथ परिणामात्मके संसारे कुतः पुद्गलश्लेषो येन तस्य मनुष्यादिपर्यायात्मकत्व- मित्यत्र समाधानमुपवर्णयति — आदा कम्ममलिमसो परिणामं लहदि कम्मसंजुत्तं ।
तत्तो सिलिसदि कम्मं तम्हा कम्मं तु परिणामो ।।१२१।। व्याख्यातमिदानीं तस्योपसंहारमाह — तम्हा दु णत्थि कोई सहावसमवट्ठिदो त्ति तस्मान्नास्ति कश्चित्स्व- भावसमवस्थित इति । यस्मात्पूर्वोक्तप्रकारेण मनुष्यादिपर्यायाणां विनश्वरत्वं व्याख्यातं तस्मादेव ज्ञायते परमानन्दैकलक्षणपरमचैतन्यचमत्कारपरिणतशुद्धात्मस्वभाववदवस्थितो नित्यः कोऽपि नास्ति । क्व । संसारे निस्संसारशुद्धात्मनो विपरीते संसारे । संसारस्वरूपं कथयति — संसारो पुण किरिया संसारः पुनः क्रिया । निष्क्रियनिर्विकल्पशुद्धात्मपरिणतेर्विसदृशी मनुष्यादिविभावपर्यायपरिणतिरूपा क्रिया संसार- स्वरूपम् । सा च कस्य भवति । संसरमाणस्स जीवस्स विशुद्धज्ञानदर्शनस्वभावमुक्तात्मनो विलक्षणस्य संसरतः परिभ्रमतः संसारिजीवस्येति । ततः स्थितं मनुष्यादिपर्यायात्मकः संसार एव विनश्वरत्वे कारणमिति ।।१२०।। एवं शुद्धात्मनो भिन्नानां कर्मजनितमनुष्यादिपर्यायाणां विनश्वरत्वकथनमुख्यतया
टीकाः — खरेखर जीव द्रव्यपणे अवस्थित होवा छतां पण पर्यायोथी अनवस्थित छे, तेथी एम प्रतीति थाय छे के संसारमां कोई पण स्वभावथी अवस्थित नथी (अर्थात् कोईनो स्वभाव केवळ अविचळ — एकरूप रहेवानो नथी). अने अहीं जे अनवस्थितपणुं छे तेमां संसार ज हेतु छे; कारण के ते ( – संसार) मनुष्यादिपर्यायात्मक छे, केम के ते स्वरूपथी ज तेवो छे (अर्थात् संसारनुं स्वरूप ज एवुं छे). त्यां परिणमता द्रव्यनो पूर्वोत्तरदशाना त्यागग्रहणात्मक एवो जे ‘क्रिया’ नामनो परिणाम ते संसारनुं स्वरूप छे. १२०.
हवे, परिणामात्मक संसारमां कया कारणे पुद्गलनो संबंध थाय छे के जेथी ते (-संसार) मनुष्यादिपर्यायात्मक होय छे — तेनुं अहीं समाधान वर्णवे छेः —
२३८प्रवचनसार[ भगवानश्रीकुंदकुंद-