क्रमेण । यौगपद्येन चेत्, नास्ति यौगपद्यं, सममेकस्य विरुद्धधर्मयोरनवतारात् । क्रमेण चेत्,
नास्ति क्रमः, वृत्त्यंशस्य सूक्ष्मत्वेन विभागाभावात् । ततो वृत्तिमान् कोऽप्यवश्यमनुसर्तव्यः ।
स च समयपदार्थ एव । तस्य खल्वेकस्मिन्नपि वृत्त्यंशे समुत्पादप्रध्वंसौ संभवतः । यो हि यस्य
वृत्तिमतो यस्मिन् वृत्त्यंशे तद्वृत्यंशविशिष्टत्वेनोत्पादः, स एव तस्यैव वृत्तिमतस्तस्मिन्नेव वृत्त्यंशे पूर्ववृत्त्यंशविशिष्टत्वेन प्रध्वंसः । यद्येवमुत्पादव्ययावेकस्मिन्नपि वृत्त्यंशे संभवतः समयपदार्थस्य कथं नाम निरन्वयत्वं, यतः पूर्वोत्तरवृत्त्यंशविशिष्टत्वाभ्यां युगपदुपात्तप्रध्वंसोत्पादस्यापि स्वभावेनाप्रध्वस्तानुत्पन्नत्वादवस्थितत्वमेव न भवेत् । एवमेकस्मिन् वृत्त्यंशे समयपदार्थ- त्रयात्मकः स्वभावः सत्तास्तित्वमिति यावत् । तत्र सम्यगवस्थितः स्वभावसमवस्थितो भवति । तथाहितथाहि –
यथाङ्गुलिद्रव्ये यस्मिन्नेव वर्तमानक्षणे वक्रपर्यायस्योत्पादस्तस्मिन्नेव क्षणे तस्यैवाङ्गुलिद्रव्यस्य पूर्वर्जुपर्यायेण प्रध्वंसस्तदाधारभूताङ्गुलिद्रव्यत्वेन ध्रौव्यमिति द्रव्यसिद्धिः । अथवा स्वस्वभावरूप- सुखेनोत्पादस्तस्मिन्नेव क्षणे तस्यैवात्मद्रव्यस्य पूर्वानुभूताकुलत्वदुःखरूपेण प्रध्वंसस्तदुभयाधारभूत- परमात्मद्रव्यत्वेन ध्रौव्यमिति द्रव्यसिद्धिः । अथवा मोक्षपर्यायरूपेणोत्पादस्तस्मिन्नेव क्षणे रत्नत्रयात्मक- निश्चयमोक्षमार्गपर्यायरूपेण प्रध्वंसस्तदुभयाधारपरमात्मद्रव्यत्वेन ध्रौव्यमिति द्रव्यसिद्धिः । तथा
वर्तमानसमयरूपपर्यायेणोत्पादस्तस्मिन्नेव क्षणे तस्यैव कालाणुद्रव्यस्य पूर्वसमयरूपपर्यायेण प्रध्वंसस्त-
(१) तेओ (उत्पाद तथा विनाश) युगपद् छे के (२) क्रमे छे? (१) जो ‘युगपद् छे’ एम कहेवामां आवे तो, युगपद्पणुं (घटतुं) नथी कारण के एकीवखते एकने बे विरुद्ध धर्मो न होय (अर्थात् एकीवखते एक
वृत्त्यंशने प्रकाश अने अंधकारनी माफक उत्पाद अने विनाश एवा बे विरुद्ध धर्मो न होय.) (२) जो ‘क्रमे छे’ एम कहेवामां आवे तो, क्रम नथी (अर्थात् क्रम पण घटतो नथी) कारण ते वृत्त्यंश सूक्ष्म होवाथी तेमां विभागनो अभाव छे. माटे (आ रीते समयरूपी वृत्त्यंशने उत्पाद तथा विनाश थवा अशक्य होवाथी) कोई
काळपदार्थने) खरेखर एक वृत्त्यंशमां पण उत्पाद अने विनाश संभवे छे; कारण के जे वृत्तिमानने जे वृत्त्यंशमां ते वृत्त्यंशनी अपेक्षाए जे उत्पाद छे, ते ज (उत्पाद) ते ज वृत्तिमानने ते ज वृत्त्यंशमां पूर्व वृत्त्यंशनी अपेक्षाए विनाश छे (अर्थात् काळपदार्थने जे वर्तमान पर्यायनी अपेक्षाए उत्पाद छे, ते ज पूर्व पर्यायनी अपेक्षाए विनाश छे.)
जो आम उत्पाद अने विनाश एक वृत्त्यंशमां पण संभवे छे, तो काळपदार्थ निरन्वय कई रीते होय, के जेथी पहेलांना अने पछीना वृत्त्यंशनी अपेक्षाए युगपद् विनाश अने उत्पाद पामतो होवा छतां पण स्वभावे अविनष्ट अने अनुत्पन्न होवाथी ते
२८२प्रवचनसार[ भगवानश्रीकुंदकुंद-
*वृत्तिमान अवश्य शोधवो जोईए. अने ते (वृत्तिमान) काळपदार्थ ज छे. तेने ( – ते
*वृत्तिमान = वृत्तिवाळो; वृत्तिने धरनार पदार्थ.