समतो द्वयधिकगुणाद्धि स्निग्धरूक्षत्वाद्बन्ध इत्युत्सर्गः, स्निग्धरूक्षद्वयधिकगुणत्वस्य हि परिणामकत्वेन बन्धसाधनत्वात् । न खल्वेकगुणात् स्निग्धरूक्षत्वाद्बन्ध इत्यपवादः, एकगुण- स्निग्धरूक्षत्वस्य हि परिणम्यपरिणामकत्वाभावेन बन्धस्यासाधनत्वात् ।।१६५।। चेत् । एको द्विगुणस्तिष्ठति द्वितीयोऽपि द्विगुण इति द्वौ समसंख्यानौ तिष्ठतस्तावत् एक स्य विविक्षितद्विगुणस्य द्विगुणाधिक त्वे कृ ते सति सः चतुर्गुणो भवति शक्तिचतुष्टयपरिणतो भवति । तस्य चतुर्गुणस्य पूर्वोक्तद्विगुणेन सह बन्धो भवतीति । तथैव द्वौ त्रिशक्तियुक्तो तिष्ठतस्तावत्, तत्राप्येकस्य त्रिगुणशब्दाभिधेयस्य त्रिशक्तियुक्तस्य परमाणोः शक्तिद्वयमेलापके कृते सति पञ्चगुणत्वं भवति । तेन पञ्चगुणेन सह पूर्वोक्तत्रिगुणस्य बन्धो भवति । एवं द्वयोर्द्वयोः स्निग्धयोर्द्वयोर्द्वयो रूक्षयोर्द्वयोर्द्वयोः स्निग्धरूक्षयोर्वा समयोः विषमयोश्च द्विगुणाधिक त्वे सति बन्धो भवतीत्यर्थः, किंतु विशेषोऽस्ति । आदिपरिहीणा आदिशब्देन जलस्थानीयं जघन्यस्निग्धत्वं वालुकास्थानीयं जघन्यरूक्षत्वं भण्यते, ताभ्यां विहीना आदिपरिहीणा बध्यन्ते । किंच – परमचैतन्यपरिणतिलक्षणपरमात्मतत्त्वभावनारूपधर्मध्यान- शुक्लध्यानबलेन यथा जधन्यस्निग्धशक्तिस्थानीये क्षीणरागत्वे सति जधन्यरूक्षशक्तिस्थानीये क्षीणद्वेषत्वे च सति जलवालुकयोरिव जीवस्य बन्धो न भवति, तथा पुद्गलपरमाणोरपि जघन्यस्निग्ध- रूक्षशक्तिप्रस्तावे बन्धो न भवतीत्यभिप्रायः ।।१६५।। अथ तमेवार्थं विशेषेण समर्थयति — गुणशब्दवाच्यशक्तिद्वययुक्तस्य स्निग्धपरमाणोश्चतुर्गुणस्निग्धेन रूक्षेण वा समशब्दसंज्ञेन तथैव
टीकाः — समान करतां बे १गुण अधिक स्निग्धत्व के रूक्षत्व होय तो बंध थाय छे ते उत्सर्ग (सामान्य नियम) छे; कारण के स्निग्धत्व के रूक्षत्वनुं बे गुण अधिक होवापणुं ते २परिणामक होवाथी बंधनुं कारण छे.
एक गुण स्निग्धत्व के रूक्षत्व होय तो बंध थतो नथी ते अपवाद छे; कारण के एक गुण स्निग्धत्व के रूक्षत्वने ३परिणम्य -परिणामकपणानो अभाव होवाथी बंधना कारणपणानो अभाव छे. १६५.
३१६प्रवचनसार[ भगवानश्रीकुंदकुंद-
१. गुण = अंश; अविभाग प्रतिच्छेद.
२. परिणामक = परिणमावनार; परिणमवामां निमित्तभूत.
३. परिणम्य = परिणमवायोग्य [दस अंश स्निग्धतावाळो परमाणु बार अंश रूक्षतावाळा परमाणु
साथे बंधाईने स्कंध बनतां, दस अंश स्निग्धतावाळो परमाणु बार अंश रूक्षतारूपे परिणमी
जाय छे; अथवा दस अंश स्निग्धतावाळो परमाणु बार अंश स्निग्धतावाळा परमाणु साथे
बंधाईने स्कंध बनतां, दस अंश स्निग्धतावाळो परमाणु बार अंश स्निग्धतारूपे परिणमी
जाय छे; माटे ओछा अंशवाळो परमाणु परिणम्य छे अने बे अधिक अंशवाळो परमाणु
परिणामक छे. एक अंश स्निग्धता के रूक्षतावाळो परमाणु (सामान्य नियम अनुसार) परिणामक
तो नथी ज, अने जघन्यभावमां वर्ततो होवाथी परिणम्य पण नथी. आ रीते जघन्यभाव बंधनुं
कारण नथी.]