द्विविधस्तावत्परिणामः, परद्रव्यप्रवृत्तः स्वद्रव्यप्रवृत्तश्च । तत्र परद्रव्यप्रवृत्तः परोप- रक्तत्वाद्विशिष्टपरिणामः, स्वद्रव्यप्रवृत्तस्तु परानुपरक्तत्वादविशिष्टपरिणामः । तत्रोक्तौ द्वौ विशिष्टपरिणामस्य विशेषौ, शुभपरिणामोऽशुभपरिणामश्च । तत्र पुण्यपुद्गलबन्धकारणात्वात् शुभपरिणामः पुण्यं, पापपुद्गलबन्धकारणत्वादशुभपरिणामः पापम् । अविशिष्टपरिणामस्य तु शुद्धत्वेनैकत्वान्नास्ति विशेषः । स काले संसारदुःखहेतुकर्मपुद्गलक्षयकारणत्वात्संसार- दुःखहेतुकर्मपुद्गलक्षयात्मको मोक्ष एव ।।१८१।। द्रव्यपुण्यबन्धकारणत्वाच्छुभपरिणामः पुण्यं भण्यते । असुहो पावं ति भणिदं द्रव्यपापबन्धकारणत्वाद- शुभपरिणामः पापं भण्यते । केषु विषयेषु योऽसौ शुभाशुभपरिणामः । अण्णेसु निजशुद्धात्मनः सकाशादन्येषु शुभाशुभबहिर्द्रव्येषु । परिणामो णण्णगदो परिणामो नान्यगतोऽनन्यगतः स्वस्वरूपस्थ इत्यर्थंः । स इत्थंभूतः शुद्धपयोगलक्षणः परिणामः दुक्खक्खयकारणं दुःखक्षयकारणं दुःखक्षयाभिधान- मोक्षस्य कारणं भणिदो भणितः । क्व भणितः । समये परमागमे लब्धिकाले वा । किंच, मिथ्यादृष्टिसासादनमिश्रगुणस्थानत्रये तारतम्येनाशुभपरिणामो भवतीति पूर्वं भणितमास्ते, अविरत- देशविरतप्रमत्तसंयतसंज्ञगुणस्थानत्रये तारतम्येन शुभपरिणामश्च भणितः, अप्रमत्तादिक्षीणकषायान्तगुण- स्थानेषु तारतम्येन शुद्धोपयोगोऽपि भणितः । नयविवक्षायां मिथ्यादृष्टयादिक्षीणक षायान्तगुणस्थानेषु
अन्वयार्थः — [अन्येषु] पर प्रत्ये [शुभपरिणामः] शुभ परिणाम [पुण्यम्] पुण्य छे अने [अशुभः] (पर प्रत्ये) अशुभ परिणाम [पापम्] पाप छे [इति भणितम्] एम कह्युं छे; [अनन्यगतः परिणामः] पर प्रत्ये नहि प्रवर्ततो एवो परिणाम [समये] समये [दुःखक्षयकारणम्] दुःखक्षयनुं कारण छे.
टीकाः — प्रथम तो परिणाम द्विविध छे — परद्रव्यप्रवृत्त (परद्रव्य प्रत्ये प्रवर्ततो) अने स्वद्रव्यप्रवृत्त. तेमां परद्रव्यप्रवृत्त परिणाम पर वडे उपरक्त (-परना निमित्ते विकारी) होवाथी विशिष्ट परिणाम छे अने स्वद्रव्यप्रवृत्त परिणाम पर वडे उपरक्त नहि होवाथी अविशिष्ट परिणाम छे. त्यां विशिष्ट परिणामना पूर्वोक्त बे भेद छेः शुभ परिणाम अने अशुभ परिणाम. तेमां, पुण्यरूप पुद्गलना बंधनुं कारण होवाथी शुभ परिणाम पुण्य छे अने पापरूप पुद्गलना बंधनुं कारण होवाथी अशुभ परिणाम पाप छे. अविशिष्ट परिणाम तो शुद्ध होवाथी एक छे तेथी तेना भेद नथी. ते (अविशिष्ट परिणाम), काळे संसारदुःखना हेतुभूत कर्मपुद्गलना क्षयनुं कारण होवाथी, संसार -दुःखना हेतुभूत कर्मपुद्गलना क्षयस्वरूप मोक्ष ज छे.
३४०प्रवचनसार[ भगवानश्रीकुंदकुंद-