यथात्र सप्रदेशत्वे सति लोध्रादिभिः कषायितत्वात् मञ्जिष्ठरङ्गादिभिरुपश्लिष्टमेकं रक्तं दृष्टं वासः, तथात्मापि सप्रदेशत्वे सति काले मोहरागद्वेषैः कषायितत्वात् कर्मरजोभि- रुपश्लिष्ट एको बन्धो दृष्टव्यः, शुद्धद्रव्यविषयत्वान्निश्चयस्य ।।१८८।।
अथ पूर्वोक्तज्ञानावरणादिप्रकृतीनां जघन्योत्कृष्टानुभागस्वरूपं प्रतिपादयति —
अणुभागो अनुभागः फलदानशक्तिविशेषः भवतीति क्रियाध्याहारः । कथम्भूतो भवति । तिव्वो तीव्रः प्रकृष्टः परमामृतसमानः । कासां संबन्धी । सुहपयडीणं सद्वेद्यादिशुभप्रकृतीनाम् । कया कारण- भूतया । विसोही तीव्रधर्मानुरागरूपविशुद्धया । असुहाण संकिलेसम्मि असद्वेद्याद्यशुभप्रकृतीनां तु मिथ्या- त्वादिरूपतीव्रसंक्लेशे सति तीव्रो हालाहलविषसदृशो भवति । विवरीदो दु जहण्णो विपरीतस्तु जघन्यो गुडनिम्बरूपो भवति । जघन्यविशुद्धया जघन्यसंक्लेशेन च मध्यमविशुद्धया मध्यमसंक्लेशेन तु शुभा- शुभप्रकृतीनां खण्डशर्करारूपः काञ्जीरविषरूपश्चेति । एवंविधो जघन्यमध्यमोत्कृष्टरूपोऽनुभागः कासां संबन्धी भवति । सव्वपयडीणं मूलोत्तरप्रकृतिरहितनिजपरमानन्दैकस्वभावलक्षणसर्वप्रकारोपादेयभूतपरमात्म- द्रव्याद्भिन्नानां हेयभूतानां सर्वमूलोत्तरकर्मप्रकृतीनामिति कर्मशक्तिस्वरूपं ज्ञातव्यम् ।।“ “ “ “ “
नयेन बन्धकारणभूतरागादिपरिणतात्मैव बन्धो भण्यत इत्यावेदयति — सपदेसो लोकाकाशप्रमितासंख्येय- प्रदेशत्वात्सप्रदेशस्तावद्भवति सो अप्पा स पूर्वोक्तलक्षण आत्मा । पुनरपि किंविशिष्टः । कसायिदो
टीकाः — जेम जगतमां वस्त्र सप्रदेश होतां लोधर वगेरे वडे कषायित थवाथी मजीठ वगेरेना रंग वडे श्लिष्ट थयुं थकुं एकलुं ज रंगित जोवामां आवे छे, तेम आत्मा पण सप्रदेश होतां काळे मोह -राग -द्वेष वडे *कषायित थवाथी कर्मरज वडे श्लिष्ट थयो थको एकलो ज बंध छे एम देखवुं (-मानवुं), कारण के निश्चयनो विषय शुद्ध द्रव्य छे. १८८.
हवे निश्चय अने व्यवहारनो अविरोध दर्शावे छेः —
*कषायित = उपरक्त; रंगायेलो; मलिन.