Pravachansar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 352 of 513
PDF/HTML Page 383 of 544

 

न त्यजति यस्तु ममतामहं ममेदमिति देहद्रविणेषु
स श्रामण्यं त्यक्त्वा प्रतिपन्नो भवत्युन्मार्गम् ।।१९०।।

यो हि नाम शुद्धद्रव्यनिरूपणात्मकनिश्चयनयनिरपेक्षोऽशुद्धद्रव्यनिरूपणात्मक- व्यवहारनयोपजनितमोहः सन् अहमिदं ममेदमित्यात्मात्मीयत्वेन देहद्रविणादौ परद्रव्ये ममत्वं न जहाति स खलु शुद्धात्मपरिणतिरूपं श्रामण्याख्यं मार्गं दूरादपहायाशुद्धात्मपरिणति- रूपमुन्मार्गमेव प्रतिपद्यते अतोऽवधार्यते अशुद्धनयादशुद्धात्मलाभ एव ।।१९०।। करोति भुङ्क्ते चेत्यशुद्धद्रव्यनिरूपणात्मकासद्भूतव्यवहारनयो भण्यते इदं नयद्वयं तावदस्ति किंत्वत्र निश्चयनय उपादेयः, न चासद्भूतव्यवहारः ननु रागादीनात्मा करोति भुङ्क्ते चेत्येवंलक्षणो निश्चयनयो व्याख्यातः स कथमुपादेयो भवति परिहारमाह --रागदीनेवात्मा करोति, न च द्रव्यकर्म, रागादय एव बन्धकारणमिति यदा जानाति जीवस्तदा रागद्वेषादिविकल्पजालत्यागेन रागादिविनाशार्थं निज- शुद्धात्मानं भावयति ततश्च रागादिविनाशो भवति रागादिविनाशे चात्मा शुद्धो भवति ततः परंपरया शुद्धात्मसाधकत्वादयमशुद्धनयोऽप्युपचारेण शुद्धनयो भण्यते, निश्चयनयो भण्यते, तथैवोपादेयो भण्यते इत्यभिप्रायः ।।१८९।। एवमात्मा स्वपरिणामानामेव कर्ता, न च द्रव्यकर्मणामिति कथन- मुख्यतया गाथासप्तकेन षष्ठस्थलं गतम् इति ‘अरसमरूवं’ इत्यादिगाथात्रयेण पूर्वं शुद्धात्मव्याख्याने कृते सति शिष्येण यदुक्तममूर्तस्यात्मनो मूर्तकर्मणा सह कथं बन्धो भवतीति तत्परिहारार्थं नय- विभागेन बन्धसमर्थनमुख्यतयैकोनविंशतिगाथाभिः स्थलषट्केन तृतीयविशेषान्तराघिकारः समाप्तः अतः परं द्वादशगाथापर्यन्तं चतुर्भिः स्थलैः शुद्धात्मानुभूतिलक्षणविशेषभेदभावनारूपचूलिकाव्याख्यानं

अन्वयार्थः[यः तु] जे [देहद्रविणेषु] देह -धनादिकमां [अहं मम इदम्] ‘हुं आ छुं अने आ मारुं छे’ [इति ममतां] एवी ममता [न त्यजति] छोडतो नथी, [सः] ते [श्रामण्यं त्यक्त्वा] श्रामण्यने छोडीने [उन्मार्गम् प्रतिपन्नः भवति] उन्मार्गनो आश्रय करे छे.

टीकाःजे आत्मा शुद्धद्रव्यना निरूपणस्वरूप निश्चयनयथी निरपेक्ष रहीने अशुद्धद्रव्यना निरूपणस्वरूप व्यवहारनयथी जेने मोह ऊपज्यो छे एवो वर्ततो थको ‘हुं आ छुं अने आ मारुं छे’ एम आत्मीयपणे देह -धनादिक परद्रव्यमां ममत्व छोडतो नथी, ते आत्मा खरेखर शुद्धात्मपरिणतिरूप जे श्रामण्य नामनो मार्ग तेने दूरथी छोडीने अशुद्धात्मपरिणतिरूप उन्मार्गनो ज आश्रय करे छे. आथी नक्की थाय छे के अशुद्धनयथी अशुद्ध आत्मानी प्राप्ति ज थाय छे. १९०.

छे.]

३५प्रवचनसार[ भगवानश्रीकुंदकुंद-

१. निश्चयनयथी निरपेक्ष = निश्चयनय प्रत्ये उपेक्षावाळो; निश्चयनय प्रत्ये बेदरकार; निश्चयनयने नहि गणतो.
२. आत्मीयपणे = पोतापणे. [अज्ञानी जीव देह, धन वगेरे परद्रव्यने पोतानुं मानीने तेमां ममत्व करे