अथ शुद्धनयात् शुद्धात्मलाभ एवेत्यवधारयति — णाहं होमि परेसिं ण मे परे संति णाणमहमेक्को ।
यो हि नाम स्वविषयमात्रप्रवृत्ताशुद्धद्रव्यनिरूपणात्मकव्यवहारनयाविरोधमध्यस्थः, शुद्धद्रव्यनिरूपणात्मकनिश्चयनयापहस्तितमोहः सन्, नाहं परेषामस्मि, न परे मे सन्तीति स्वपरयोः परस्परस्वस्वामिसम्बन्धमुद्धूय, शुद्धज्ञानमेवैकमहमित्यनात्मानमुत्सृज्यात्मानमेवात्म- करोति । तत्र शुद्धात्मभावनाप्रधानत्वेन ‘ण चयदि जो दु ममत्तिं’ इत्यादिपाठक्रमेण प्रथमस्थले गाथा चतुष्टयम् । तदनन्तरं शुद्धात्मोपलम्भभावनाफलेन दर्शनमोहग्रन्थिविनाशस्तथैव चारित्रमोहग्रन्थिविनाशः क्रमेण तदुभयविनाशो भवतीति कथनमुख्यत्वेन ‘जो एवं जाणित्ता’ इत्यादि द्वितीयस्थले गाथात्रयम् । ततः परं केवलिध्यानोपचारकथनरूपेण ‘णिहदघणघादिकम्मो’ इत्यादि तृतीयस्थले गाथाद्वयम् । तदनन्तरं दर्शनाधिकारोपसंहारप्रधानत्वेन ‘एवं जिणा जिणिंदा’ इत्यादि चतुर्थस्थले गाथाद्वयम् । ततः परं ‘दंसणसंसुद्धाणं’ इत्यादि नमस्कारगाथा चेति द्वादशगाथाभिश्चतुर्थस्थले विशेषान्तराधिकारे समुदायपातनिका । अथाशुद्धनयादशुद्धात्मलाभ एव भवतीत्युपदिशति — ण चयदि जो दु ममत्तिं न त्यजति यस्तु ममताम् । ममकाराहंकारादिसमस्तविभावरहितसकलविमलकेवलज्ञानाद्यनन्तगुणस्वरूप- निजात्मपदार्थनिश्चलानुभूतिलक्षणनिश्चयनयरहितत्वेन व्यवहारमोहितहृदयः सन् ममतां ममत्वभावं न
हवे शुद्धनयथी शुद्ध आत्मानी प्राप्ति ज थाय छे एम नक्की करे छेः —
— जे एम ध्यावे, ध्यानकाळे तेह शुद्धात्मा बने.१९१.
अन्वयार्थः — ‘[अहं परेषां न भवामि] हुं परनो नथी, [परे मे न सन्ति] पर मारां नथी, [ज्ञानम् अहम् एकः] हुं एक ज्ञान छुं’ [इति यः ध्यायति] एम जे ध्यावे छे, [सः ध्याता] ते ध्याता [ध्याने] ध्यानकाळे [आत्मा भवति] आत्मा अर्थात् शुद्धात्मा थाय छे.
टीकाः — जे आत्मा, मात्र पोताना विषयमां प्रवर्तता अशुद्धद्रव्यनिरूपणात्मक (अशुद्ध द्रव्यना निरूपणस्वरूप) व्यवहारनयमां अविरोधपणे मध्यस्थ रहीने, शुद्धद्रव्यना निरूपणस्वरूप निश्चयनय वडे जेणे मोहने दूर कर्यो छे एवो वर्ततो थको, ‘हुं परनो नथी, पर मारां नथी’ एम स्व -परना परस्पर *स्व -स्वामिसंबंधने खंखेरी नाखीने, ‘शुद्ध ज्ञान ज प्र. ४५
*मालिकीनो पदार्थ अने मालिक वच्चेना संबंधने स्वस्वामिसंबंध कहेवामां आवे छे.