एवं जिणा जिणिंदा सिद्धा मग्गं समुट्ठिदा समणा । जादा णमोत्थु तेसिं तस्स य णिव्वाणमग्गस्स ।।१९९।।
यतः सर्व एव सामान्यचरमशरीरास्तीर्थकराः अचरमशरीरा मुमुक्षवश्चामुनैव यथोदि- तेन शुद्धात्मतत्त्वप्रवृत्तिलक्षणेन विधिना प्रवृत्तमोक्षस्य मार्गमधिगम्य सिद्धा बभूवुः, न पुनरन्यथापि । ततोऽवधार्यते केवलमयमेक एव मोक्षस्य मार्गो, न द्वितीय इति । अलं च समयसारबलेनातिक्रामति विनाशयति यदा तस्मिन्नेव क्षणे समस्तबाधारहितः सन्नतीन्द्रियमनन्त- मात्मोत्थसुखं ध्यायत्यनुभवति परिणमति । ततो ज्ञायते केवलिनामन्यच्चिन्तानिरोधलक्षणं ध्यानं नास्ति, किंत्विदमेव परमसुखानुभवनं वा ध्यानकार्यभूतां कर्मनिर्जरां दृष्टवा ध्यानशब्देनोपचर्यते । यत्पुनः सयोगिकेवलिनस्तृतीयशुक्लध्यानमयोगिकेवलिनश्चतुर्थशुक्लध्यानं भवतीत्युक्तं तदुपचारेण ज्ञातव्यमिति सूत्राभिप्रायः ।।१९८।। एवं केवली किं ध्यायतीति प्रश्नमुख्यत्वेन प्रथमगाथा । परमसुखं ध्यायत्यनुभवतीति परिहारमुख्यत्वेन द्वितीया चेति ध्यानविषयपूर्वपक्षपरिहारद्वारेण तृतीयस्थले गाथाद्वयं गतम् । अथायमेव निजशुद्धात्मोपलब्धिलक्षणमोक्षमार्गो, नान्य इति विशेषेण समर्थयति — जादा जाता उत्पन्नाः । कथंभूताः। सिद्धा सिद्धाः सिद्धपरमेष्ठिनो मुक्तात्मान इत्यर्थः । के कर्तारः । जिणा जिनाः अनागारकेवलिनः । जिणिंदा न केवलं जिना जिनेन्द्राश्च तीर्थकरपरमदेवाः । कथंभूताः सन्तः एते सिद्धा
हवे ‘आ ज (पूर्वे कह्यो ते ज), शुद्ध आत्मानी उपलब्धि जेनुं लक्षण छे एवो मोक्षनो मार्ग छे’ एम नक्की करे छेः —
अन्वयार्थः — [जिनाः जिनेन्द्राः श्रमणाः] जिनो, जिनेंद्रो अने श्रमणो (अर्थात् सामान्य केवळीओ, तीर्थंकरो अने मुनिओ) [एवं] आ रीते (पूर्वे कहेली रीते ज) [मार्गं समुत्थिताः] मार्गमां आरूढ थया थका [सिद्धाः जाताः] सिद्ध थया. [नमः अस्तु] नमस्कार हो [तेभ्यः] तेमने [च] अने [तस्मै निर्वाणमार्गाय] ते निर्वाणमार्गने.
टीकाः — बधाय सामान्य चरमशरीरीओ, तीर्थंकरो अने अचरमशरीरी मुमुक्षुओ आ ज यथोक्त शुद्धात्मतत्त्वप्रवृत्तिलक्षण (शुद्धात्मतत्त्वमां प्रवृत्ति जेनुं लक्षण छे एवी) विधि वडे प्रवर्तता मोक्षना मार्गने प्राप्त करीने सिद्धो थया, परंतु एम नथी के बीजी रीते पण
३६६प्रवचनसार[ भगवानश्रीकुंदकुंद-