अहमेष मोक्षाधिकारी ज्ञायकस्वभावात्मतत्त्वपरिज्ञानपुरस्सरममत्वनिर्ममत्वहानोपादान- विधानेन कृत्यान्तरस्याभावात्सर्वारम्भेण शुद्धात्मनि प्रवर्ते । तथाहि — अहं हि तावत् ज्ञायक एव स्वभावेन; केवलज्ञायकस्य च सतो मम विश्वेनापि सहजज्ञेयज्ञायकलक्षण एव सम्बन्धः, न पुनरन्ये स्वस्वामिलक्षणादयः सम्बन्धाः । ततो मम न क्वचनापि ममत्वं, सर्वत्र निर्ममत्वमेव । अथैकस्य ज्ञायकभावस्य समस्तज्ञेयभावस्वभावत्वात् प्रोत्कीर्णलिखितनिखात- कीलितमज्जितसमावर्तितप्रतिबिम्बितवत्तत्र क्रमप्रवृत्तानन्तभूतभवद्भाविविचित्रपर्यायप्राग्भारमगाध- स्वभावं गम्भीरं समस्तमपि द्रव्यजातमेकक्षण एव प्रत्यक्षयन्तं ज्ञेयज्ञायकलक्षणसम्बन्धस्या- निर्वाणमार्गाय च । ततोऽवधार्यते अयमेव मोक्षमार्गो, नान्य इति ।।१९९।। अथ ‘उवसंपयामि सम्मं जत्तो णिव्वाणसंपत्ती’ इत्यादि पूर्वप्रतिज्ञां निर्वाहयन् स्वयमपि मोक्षमार्गपरिणतिं स्वीकरोतीति प्रतिपादयति — तम्हा यस्मात्पूर्वोक्त शुद्धात्मोपलम्भलक्षणमोक्षमार्गेण जिना जिनेन्द्राः श्रमणाश्च सिद्धा जातास्तस्मादहमपि तह तथैव तेनैव प्रकारेण जाणित्ता ज्ञात्वा । कम् । अप्पाणं निजपरमात्मानम् । किंविशिष्टम् । जाणगं ज्ञायकं केवलज्ञानाद्यनन्तगुणस्वभावम् । केन कृत्वा ज्ञात्वा । सभावेण समस्त- रागादिविभावरहितशुद्धबुद्धैकस्वभावेन । पश्चात् किं करोमि । परिवज्जामि परि समन्ताद्वर्जयामि । काम् । ममत्तिं समस्तसचेतनाचेतनमिश्रपरद्रव्यसंबन्धिनीं ममताम् । कथंभूतः सन् । उवट्ठिदो उपस्थितः परिणतः । क्व । णिम्ममत्तम्हि समस्तपरद्रव्यममकाराहंकाररहितत्वेन निर्ममत्वलक्षणे परमसाम्याभिधाने वीतराग- चारित्रे तत्परिणतनिजशुद्धात्मस्वभावे वा । तथाहि – अहं तावत्केवलज्ञानदर्शनस्वभावत्वेन ज्ञायकैक- टङ्कोत्कीर्णस्वभावः । तथाभूतस्य सतो मम न केवलं स्वस्वाम्यादयः परद्रव्यसंबन्धा न सन्ति, निश्चयेन
टीकाः — हुं आ मोक्षाधिकारी, ज्ञायकस्वभावी आत्मतत्त्वना परिज्ञानपूर्वक ममत्वना त्यागरूप अने निर्ममत्वना ग्रहणरूप विधि वडे सर्व आरंभथी (उद्यमथी) शुद्धात्मामां प्रवर्तुं छुं, कारण के अन्य कृत्यनो अभाव छे (अर्थात् बीजुं कांई करवायोग्य नथी). ते आ प्रमाणे (अर्थात् हुं आ प्रमाणे शुद्धात्मामां प्रवर्तुं छुं)ः — प्रथम तो हुं स्वभावथी ज्ञायक ज छुं; केवळ ज्ञायक होवाथी मारे विश्वनी (समस्त पदार्थोनी) साथे पण सहज ज्ञेयज्ञायकलक्षण संबंध ज छे, परंतु बीजा स्वस्वामिलक्षणादि संबंधो नथी; तेथी मारे कोई प्रत्ये ममत्व नथी, सर्वत्र निर्ममत्व ज छे. हवे, एक ज्ञायकभावनो सर्व ज्ञेयोने जाणवानो स्वभाव होवाथी, क्रमे प्रवर्तता, अनंत, भूत -वर्तमान -भावी विचित्र पर्यायसमूहवाळां, *अगाधस्वभाव अने गंभीर एवां समस्त द्रव्यमात्रने — जाणे के ते द्रव्यो ज्ञायकमां कोतराई गयां होय, चीतराई गयां होय, दटाई गयां होय, खोडाई गयां होय, डूबी गयां होय, समाई गयां होय, प्रतिबिंबित थयां होय एम — एक क्षणमां ज जे (शुद्ध
३६८प्रवचनसार[ भगवानश्रीकुंदकुंद-
*अगाध जेमनो स्वभाव छे अने जेओ गंभीर छे एवां समस्त द्रव्योने भूत, वर्तमान तेम ज
भावी काळना, क्रमे थता, अनेक प्रकारना, अनंत पर्यायो सहित एक समयमां ज प्रत्यक्ष जाणवानो
आत्मानो स्वभाव छे.