सम्पद्यते हि दर्शनज्ञानप्रधानाच्चारित्राद्वीतरागान्मोक्षः; तत एव च सरागाद्देवासुर- मनुजराजविभवक्लेशरूपो बन्धः । अतो मुमुक्षुणेष्टफलत्वाद्वीतरागचारित्रमुपादेयमनिष्टफलत्वा- त्सरागचारित्रं हेयम् ।।६।।
निश्चलशुद्धात्मानुभूतिस्वरूपं वीतरागचारित्रमहमाश्रयामीति भावार्थः । एवं प्रथमस्थले नमस्कारमुख्य- त्वेन गाथापञ्चकं गतम् ।।५।। अथोपादेयभूतस्यातीन्द्रियसुखस्य कारणत्वाद्वीतरागचारित्रमुपादेयम् । अतीन्द्रियसुखापेक्षया हेयस्येन्द्रियसुखस्य कारणत्वात्सरागचारित्रं हेयमित्युपदिशति — संपज्जदि सम्पद्यते । किम् । णिव्वाणं निर्वाणम् । कथम् । सह । कैः । देवासुरमणुयरायविहवेहिं देवासुरमनुष्यराजविभवैः । कस्य । जीवस्स जीवस्य । कस्मात् । चरित्तादो चारित्रात् । कथंभूतात् । दंसणणाणप्पहाणादो सम्यग्दर्शन- ज्ञानप्रधानादिति । तद्यथा ---आत्माधीनज्ञानसुखस्वभावे शुद्धात्मद्रव्ये यन्निश्चलनिर्विकारानुभूतिरूपम-
अन्वयार्थः — [ जीवस्य ] जीवने [ दर्शनज्ञानप्रधानात् ] दर्शनज्ञानप्रधान [ चरित्रात् ] चारित्रथी [ देवासुरमनुजराजविभवैः ] देवेन्द्र, असुरेन्द्र ने नरेन्द्रना वैभवो सहित [ निर्वाणं ] निर्वाण [ सम्पद्यते ] प्राप्त थाय छे. (जीवने सरागचारित्रथी देवेन्द्र वगेरेना वैभवनी अने वीतरागचारित्रथी निर्वाणनी प्राप्ति थाय छे.)
टीकाः — दर्शनज्ञानप्रधान चारित्रथी, जो ते (चारित्र) वीतराग होय तो, मोक्ष प्राप्त थाय छे; अने तेनाथी ज, जो ते सराग होय तो, देवेन्द्र -असुरेन्द्र -नरेन्द्रना वैभवक्लेशरूप बंध प्राप्त थाय छे. आथी मुमुक्षुए इष्ट फळवाळुं होवाथी वीतरागचारित्र ग्रहण करवायोग्य (उपादेय) छे, अने अनिष्ट फळवाळुं होवाथी सरागचारित्र छोडवायोग्य (हेय) छे. ६.