ततोऽपि श्रामण्यार्थी यथाजातरूपधरो भवति । तथाहि — अहं तावन्न किञ्चिदपि परेषां भवामि, परेऽपि न किञ्चिदपि मम भवन्ति, सर्वद्रव्याणां परैः सह तत्त्वतः समस्तसम्बन्धशून्यत्वात् । तदिह षड्द्रव्यात्मके लोके न मम किञ्चिदप्यात्मनोऽन्यदस्तीति निश्चितमतिः परद्रव्यस्वस्वामिसम्बन्धनिबन्धनानामिन्द्रियनोइन्द्रियाणां जयेन जितेन्द्रियश्च सन् धृतयथानिष्पन्नात्मद्रव्यशुद्धरूपत्वेन यथाजातरूपधरो भवति ।।२०४।। संबन्धी न भवाम्यहम् । ण मे परे न मे संबन्धीनि परद्रव्याणि । णत्थि मज्झमिह किंचि नास्ति ममेह किंचित् । इह जगति निजशुद्धात्मनो भिन्नं किंचिदपि परद्रव्यं मम नास्ति । इदि णिच्छिदो इति निश्चितमतिर्जातः । जिदिंदो जादो इन्द्रियमनोजनितविकल्पजालरहितानन्तज्ञानादिगुणस्वरूपनिजपरमात्म- द्रव्याद्विपरीतेन्द्रियनोइन्द्रियाणां जयेन जितेन्द्रियश्च संजातः सन् जधजादरूवधरो यथाजातरूपधरः, व्यवहारेण नग्नत्वं यथाजातरूपं, निश्चयेन तु स्वात्मरूपं, तदित्थंभूतं यथाजातरूपं धरतीति यथाजात- रूपधरः निर्ग्रन्थो जात इत्यर्थः ।।२०४।। अथ तस्य पूर्वसूत्रोदितयथाजातरूपधरस्य निर्ग्रन्थस्यानादि- कालदुर्लभायाः स्वात्मोपलब्धिलक्षणसिद्धेर्गमकं चिह्नं बाह्याभ्यन्तरलिङ्गद्वयमादिशति — जधजादरूवजादं पूर्वसूत्रोक्त लक्षणयथाजातरूपेण निर्ग्रन्थत्वेन जातमुत्पन्नं यथाजातरूपजातम् । उप्पाडिदकेसमंसुगं
अन्वयार्थः — [अहं] हुं [परेषां] परनो [न भवामि] नथी, [परे मे न] पर मारां नथी, [इह] आ लोकमां [मम] मारुं [किञ्चित्] कांई पण [न अस्ति] नथी — [इति निश्चितः] आवा निश्चयवाळो अने [जितेन्द्रियः] जितेंद्रिय वर्ततो थको ते [यथाजातरूपधरः] यथाजातरूपधर (सहजरूपधारी) [जातः] थाय छे.
टीकाः — वळी त्यार पछी श्रामण्यार्थी १यथाजातरूपधर थाय छे. ते आ प्रमाणेः ‘प्रथम तो हुं जराय परनो नथी, पर पण जराय मारां नथी, कारण के सर्व द्रव्यो २तत्त्वतः पर साथे समस्त संबंध रहित छे; तेथी आ षट्द्रव्यात्मक लोकमां आत्माथी अन्य एवुं कांई पण मारुं नथी;’ — आम निश्चित मतिवाळो (वर्ततो थको) अने परद्रव्यो साथे स्व -स्वामिसंबंध जेमनो आधार छे एवी इन्द्रियो अने नोइन्द्रियना जय वडे जितेंद्रिय वर्ततो थको ते (श्रामण्यार्थी) आत्मद्रव्यनुं ३यथानिष्पन्न शुद्ध रूप धारण करवाथी यथाजातरूपधर थाय छे. २०४. १. यथाजातरूपधर = (आत्मानुं) जेवुं मूळभूत छे तेवुं ( – सहज, स्वाभाविक) रूप धारण करनार २. तत्त्वतः = खरी रीते; तत्त्वनी द्रष्टिए; परमार्थे. ३. यथानिष्पन्न = जेवुं बनेलुं छे तेवुं; जेवुं मूळभूत छे तेवुं; सहज; स्वाभाविक.